Blog Archive

Thursday, 16 November 2017

आंजन सूक्त (spiritual)

ॐ अस्य अथर्ववेदस्य आञ्जन सूक्तस्य,  भृगुऋषये,   अञ्जन, मन्त्रोक्त देवता:,   अनुष्टुप्, त्रिष्टुप्, एकावसानाविराट्महाबृहती,एकावसाना निचृत महाबृहती छंद:,   अदॄ‌‍‍‌ष्ट दर्शनार्थे जपे विनियोग:

ऋ॒णादृ॒णमि॑व॒ सं न॑य कृ॒त्यां कृ॑त्या॒कृतो॑ गृ॒हम् । चक्षु॑र्मन्त्रस्य दु॒र्हार्दः॑ पृ॒ष्टीरपि॑ शृणाञ्जन ॥ 
ओ३म् यद॒स्मासु॑ दु॒ष्वप्न्यं॒ यद्गोषु॒ यच्च॑ नो गृ॒हे । अना॑मग॒स्तं च॑ दु॒र्हार्दः॑ प्रि॒यः प्रति॑ मुञ्चताम् ॥ 
ओ३म् अ॒पामू॒र्ज ओज॑सो वावृधा॒नम॒ग्नेर्जा॒तमधि॑ जा॒तवे॑दसः चतु॑र्वीरं पर्व॒तीयं॒ यदाञ्ज॑नं॒ दिशः॑ प्रदिशः कर॒दिच्छि॒वास्ते॑ ॥ 
ओ३म् चतु॑र्वीरं बध्यत॒ आञ्ज॑नं ते॒ सर्वा॒ दिशो॒ अभ॑यास्ते भवन्तु । ध्रु॒वस्ति॑ष्ठासि सवि॒तेव॒ चार्य॑ इ॒मा विशो॑ अ॒भि ह॑रन्तु ते ब॒लिम् ॥ 
ओ३म् आक्ष्वैकं॑ म॒णिमेकं॑ क्र्णुष्व स्ना॒ह्येके॒ना पि॒बैक॑मेषाम् । चतु॑र्वीरं नैरृ॒तेभ्य॑श्च॒तुर्भ्यो॒ ग्राह्या॑ ब॒न्धेभ्यः॒ परि॑ पात्व॒स्मान् ॥ 
ओ३म् अ॒ग्निर्मा॒ग्निना॑वतु प्रा॒णाया॑पा॒नायायु॑षे॒ वर्च॑स॒ ओज॑से । तेज॑से स्व॒स्तये॑ सुभू॒तये॒ स्वाहा॑ ॥ 
ओ३म् इन्द्रो॑ मेन्द्रि॒येणा॑वतु प्रा॒णाया॑पा॒नायायु॑षे॒ वर्च॑स॒ ओज॑से । तेज॑से स्व॒स्तये॑ सुभू॒तये॒ स्वाहा॑ ॥ 
ओ३म् सोमो॑ मा॒ सौम्ये॑नावतु प्रा॒णाया॑पा॒नायायु॑षे॒ वर्च॑स॒ ओज॑से । तेज॑से स्व॒स्तये॑ सुभू॒तये॒ स्वाहा॑ ॥ 
ओ३म् भगो॑ म॒ भगे॑नावतु प्रा॒णाया॑पा॒नायायु॑षे॒ वर्च॑स॒ ओज॑से । तेज॑से स्व॒स्तये॑ सुभू॒तये॒ स्वाहा॑ ॥ 
ओ३म् म॒रुतो॑ मा ग॒णैर॑वन्तु प्रा॒णाया॑पा॒नायु॑षे॒ वर्च॑स॒ ओज॑से॒ तेज॑से । स्व॒स्तये॑ सुभू॒तये॒ स्वाहा॑ ॥



अस्तु