Blog Archive

Showing posts with label विष्णु sukt. Show all posts
Showing posts with label विष्णु sukt. Show all posts

Wednesday, 23 June 2021

Vishnu Sukt (1)

 

Vishnu Sukt (1)  Rigved
ओ३म्  नु । मर्तः॑ । द॒य॒ते॒ । स॒नि॒ष्यन् । यः । विष्ण॑वे । उ॒रु॒ऽगा॒याय॑ । दाश॑त् । प्र । यः । स॒त्राचा॑ । मन॑सा । यजा॑ते । ए॒ताव॑न्तम् । नर्य॑म् । आ॒ऽविवा॑सात् ॥ ७.१००.१
ओ३म्  त्वम् । वि॒ष्णो॒ इति॑ । सु॒ऽम॒तिम् । वि॒श्वऽज॑न्याम् । अप्र॑ऽयुताम् । ए॒व॒ऽया॒वः॒ । म॒तिम् । दाः॒ । पर्चः॑ । यथा॑ । नः॒ । सु॒वि॒तस्य॑ । भूरेः॑ । अश्व॑ऽवतः । पु॒रु॒ऽच॒न्द्रस्य॑ । रा॒यः ॥ ७.१००.२
ओ३म्  त्रिः । दे॒वः । पृ॒थि॒वीम् । ए॒षः । ए॒ताम् । वि । च॒क्र॒मे॒ । श॒तऽअ॑र्चसम् । म॒हि॒ऽत्वा । प्र । विष्णुः॑ । अ॒स्तु॒ । त॒वसः॑ । तवी॑यान् । त्वे॒षम् । हि । अ॒स्य॒ । स्थवि॑रस्य । नाम॑ ॥ ७.१००.३
ओ३म्  वि । च॒क्र॒मे॒ । पृ॒थि॒वीम् । ए॒षः । ए॒ताम् । क्षेत्रा॑य । विष्णुः॑ । मनु॑षे । द॒श॒स्यन् । ध्रु॒वासः॑ । अ॒स्य॒ । की॒रयः॑ । जना॑सः । उ॒रु॒ऽक्षि॒तिम् । सु॒ऽजनि॑मा । च॒का॒र॒ ॥ ७.१००.४
ओ३म्  प्र । तत् । ते॒ । अ॒द्य । शि॒पि॒ऽवि॒ष्ट॒ । नाम॑ । अ॒र्यः । शं॒सा॒मि॒ । व॒युना॑नि । वि॒द्वान् । तम् । त्वा॒ । गृ॒णा॒मि॒ । त॒वस॑म् । अत॑व्यान् । क्षय॑न्तम् । अ॒स्य । रज॑सः । प॒रा॒के ॥ ७.१००.५
ओ३म्  किम् । इत् । ते॒ । वि॒ष्णो॒ इति॑ । प॒रि॒ऽचक्ष्य॑म् । भू॒त् । प्र । यत् । व॒व॒क्षे । शि॒पि॒ऽवि॒ष्टः । अ॒स्मि॒ । मा । वर्पः॑ । अ॒स्मत् । अप॑ । गू॒हः॒ । ए॒तत् । यत् । अ॒न्यऽरू॑पः । स॒मि॒थे । ब॒भूथ॑ ॥ ७.१००.६
ओ३म्  वष॑ट् । ते॒ । वि॒ष्णो॒ इति॑ । आ॒सः । आ । कृ॒णो॒मि॒ । तत् । मे॒ । जु॒ष॒स्व॒ । शि॒पि॒ऽवि॒ष्ट॒ । ह॒व्यम् । वर्ध॑न्तु । त्वा॒ । सु॒ऽस्तु॒तयः॑ । गिरः॑ । मे॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥ ७.१००.७



Vishnu Sukt (2)  Shukla Yajurved

ओ३म् इ॒दँविष्णु॒र्विच॑क्रमे त्रे॒धा नि द॑धे प॒दम् । समू॑ढमस्य पासुरे स्वाहा॑ ॥ 
ओ३म् इरा॑वती धेनु॒मती॒ हि भू॒तᳯ सू॑यव॒सिनी॒ मन॑वे दश॒स्या । व्य॑स्कभ्ना॒ रोद॑सी विष्णवे॒ते दा॒धर्थ॑ पृथि॒वीम॒भितो॑ म॒यूखैः॒ स्वाहा॑ ॥ 
ओ३म् दे॑व॒श्रुतौ॑ दे॒वेष्वा घो॑षतम्प्राची॒ प्रेत॑मध्व॒रङ्क॒ल्पय॑न्तीऽऊ॒र्ध्वं य॒ज्ञन्न॑यतम्मा जि॑ह्वरतम् । स्वङ्गो॒ष्ठमा व॑दतन्देवी दुर्ये॒ऽआयु॒र्मा निर्वा॑दिष्टम्प्र॒जाम्मा निर्वा॑दिष्टमत्र॑ रमेथाँ वर्ष्म॑न्पृथि॒व्याः ॥ 
ओ३म् विष्णो॒र्नु कँवी॒र्या॑णि॒ प्र वो॑चँयः पार्थि॑वानि विम॒मे रजासि । योऽअस्क॑भाय॒दुत्त॑रᳯ स॒धस्थँविचक्रमा॒णस्त्रे॒धोरु॑गा॒यः विष्ण॑वे त्वा ॥ 
ओ३म् दि॒वो वा॑ विष्णऽउ॒त वा॑ पृथि॒व्या म॒हो वा॑ विष्णऽउ॒रोर॒न्तरि॑क्षात् । उ॒भा हि हस्ता॒ वसु॑ना पृ॒णस्वा प्रय॑च्छ॒ दक्षि॑णा॒दोत स॒व्यात् विष्ण॑वे त्वा ॥ 
ओ३म् प्र तद्विष्णु॑ स्तवते वी॒र्ये॑ण मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः । यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेष्वधिक्षि॒यन्ति॒ भुव॑नानि॒ विश्वा॑ ॥ 
ओ३म् विष्णो॑ र॒राट॑मसि विष्णोः॒ श्नप्त्रे॑ स्थो विष्णोः॒ स्यूर॑सि विष्णो॑र्ध्रु॒वो॑सि । वै॑ष्ण॒वम॑सि॒ विष्ण॑वे त्वा ॥ 

Vishnu Sukt (3)  Atharva ved

ओ३म् ययो॒रोज॑सा स्कभि॒ता रजां॑सि॒ यौ वी॒र्यैर्वी॒रत॑मा॒ शवि॑ष्ठा । यौ पत्ये॑ते॒ अप्र॑तीतौ॒ सहो॑भि॒र्विष्णु॑मग॒न्वरु॑णं पू॒र्वहू॑तिः ॥ 
ओ३म् यस्ये॒दं प्र॒दिशि॒ यद्वि॒रोच॑ते॒ प्र चान॑ति॒ वि च॒ चष्टे॒ शची॑भिः । पु॒रा दे॒वस्य॒ धर्म॑णा॒ सहो॑भि॒र्विष्णु॑मग॒न्वरु॑णं पू॒र्वहू॑तिः ॥ 
ओ३म् विष्णो॒र्नु कं॒ प्रा वो॑चं वी॒र्या॑णि॒ यः पार्थि॑वानि विम॒मे रजां॑सि । यो अस्क॑भाय॒दुत्त॑रं स॒धस्थं॑ विचक्रमा॒णस्त्रे॒धोरु॑गा॒यः ॥ 
ओ३म् प्र तद्विष्णु॑ स्तवते वी॒र्या॑णि मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः । प॑रा॒वत॒ आ ज॑गम्या॒त्पर॑स्याः ॥ 
ओ३म् यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑नेष्वधिक्षि॒यन्ति॒ भुव॑नानि॒ विश्वा॑ । उ॒रु वि॑ष्णो॒ वि क्र॑मस्वो॒रु क्षया॑य नस्कृधि । घृ॒तम्घृ॑तयोने पिब॒ प्रप्र॑ य॒ज्ञप॑तिं तिर ॥ 
ओ३म् इ॒दं विष्णु॒र्वि च॑क्रमे त्रे॒धा नि द॑धे प॒दा । समू॑ढमस्य पंसु॒रे ॥ 
ओ३म् त्रीणि॑ प॒दा वि च॑क्रमे॒ विष्णु॑र्गो॒पा अदा॑भ्यः । इ॒तो धर्मा॑णि धा॒रय॑न् ॥ 
ओ३म् विष्णोः॒ कर्मा॑णि पश्यत॒ यतो॑ व्र॒तानि॑ पस्प॒शे । इन्द्र॑स्य॒ युज्यः॒ सखा॑ ॥ 
ओ३म् तद्विष्णोः॑ पर॒मं प॒दं सदा॑ पश्यन्ति सू॒रयः॑ । दि॒वीव॒ चक्षु॒रात॑तम् ॥ 
ओ३म् दि॒वो वि॑ष्ण उ॒त पृ॑थि॒व्या म॒हो वि॑ष्ण उ॒रोर॒न्तरि॑क्षात् । हस्तौ॑ पृणस्व ब॒हुभि॑र्वस॒व्यैरा॒प्रय॑छ॒ दक्षि॑णा॒दोत स॒व्यात् ॥