Blog Archive

Showing posts with label Shanti Path. Show all posts
Showing posts with label Shanti Path. Show all posts

Monday, 25 October 2021

Shanti Path

नश्यन्तु प्रेत कूष्माण्डा नश्यन्तु दूषका नरा:

साधकानां शिवाः सन्तु आम्नाय परिपालिनाम ।

जयन्ति मातरः सर्वा जयन्ति योगिनी गणाः

जयन्ति सिद्ध डाकिन्यो जयन्ति गुरु पन्क्तयः ॥1॥

जयन्ति साधकाः सर्वे विशुद्धाः साधकाश्च ये

समयाचार संपन्ना जयन्ति पूजका नराः।

नन्दन्तु चाणिमासिद्धा नन्दन्तु  कुलपालकाः

इन्द्राद्या देवता सर्वे तृप्यन्तु वास्तु देवतः॥2॥

चन्द्रसूर्यादयो देवास्तृप्यन्तु मम भक्तितः

नक्षत्राणि ग्रहाः योगाः करणा राशयश्च ये।

सर्वे ते सुखिनो  यान्तु  सर्पा नश्यन्तु पक्षिणः

पशवस्तुरगाश्चैव पर्वताः कन्दरा गुहाः॥3॥

ऋषयो ब्राह्मणाः सर्वे शान्तिम कुर्वन्तु सर्वदा

स्तुता मे विदिताःसन्तु सिद्धास्तिष्ठन्तु पूजकाः।

ये ये पापधियस्सुदूषणरतामन्निन्दकाः पूजने

वेदाचार विमर्द नेष्ट हृदया भ्रष्टाश्च ये साधकाः॥4॥

दृष्ट्वा  चक्रम्पूर्वमन्दहृदया ये कौलिका दूषकास्ते

ते यान्तु विनाशमत्र  समये   शिवाज्ञया।

द्वेष्टारः साधकानां च सदैवाम्नाय  दूषकाः

डाकिनीनां मुखे यान्तु तृप्तास्तत्पिशितै स्तुताः॥5॥

ये  वा शक्तिपरायणाः शिवपरा ये वैष्णवाः साधवः

सर्वस्मादखिले सुराधिपमजं सेव्यं सुरै संततम।

शक्तिं विष्णुधिया शिवंचसुधियाश्रीकृष्णबुद्धयाच ये

सेवन्ते त्रिपुरं  त्वभेदमतयो गच्छन्तु मोक्षन्तु ते॥6॥

शत्रवो नाशमायान्तु मम निन्दाकराश्च   ये

द्वेष्टारः साधकानां च ते नश्यन्तु शिवाज्ञया।

तत्परं पठेत स्तोत्रमानंदस्तोत्रमुत्तमम

सर्वसिद्धि भवेत्तस्य सर्वलाभो प्रणाश्यति॥7॥