कामिनी मनो अभिमुखीकरण सूक्त
ॐ अस्य अथर्वा मंत्रस्य भृगु ऋषि, मित्रावरुणा, कामबाण देवता, अनुष्टुप् छंद:, कामबाण सूक्त: स्त्री वशीकरणार्थॆ जपे विनियोग: ।
मंत्र
ॐ अस्य अथर्वा मंत्रस्य भृगु ऋषि, मित्रावरुणा, कामबाण देवता, अनुष्टुप् छंद:, कामबाण सूक्त: स्त्री वशीकरणार्थॆ जपे विनियोग: ।
मंत्र
ओ३म् यथे॒दं भूम्या॒ अधि॒ तृणं॒ वातो॑ मथा॒यति॑ । ए॒वा म॑थ्नामि ते॒ मनो॒ यथा॒ मां का॒मिन्यसो॒ यथा॒ मन्नाप॑गा॒ असः॑ ॥
ओ३म् सं चेन्नया॑थो अश्विना का॒मिना॒ सं च॒ वक्ष॑थः । सं वां॒ भगा॑सो अग्मत॒ सं चि॒त्तानि॒ समु॑ व्र॒ता ॥
ओ३म् यत्सु॑प॒र्णा वि॑व॒क्षवो॑ अनमी॒वा वि॑व॒क्षवः॑ । तत्र॑ मे गछता॒द्धवं॑ श॒ल्य इ॑व॒ कुल्म॑लं॒ यथा॑ ॥
ओ३म् यदन्त॑रं॒ तद्बाह्यं॒ यद्बाह्यं॒ तदन्त॑रम् । क॒न्या॑नां वि॒श्वरू॑पाणां॒ मनो॑ गृभायौषधे ॥
ओ३म् एयम॑ग॒न्पति॑कामा॒ जनि॑कामो॒ ऽहमाग॑मम् । अश्वः॒ कनि॑क्रद॒द्यथा॒ भगे॑ना॒हं स॒हाग॑मम् ॥