ॐ अस्य इदम अर्थवेदस्य यक्ष्मनिवारण सूक्तस्य, भृग्वङ्गिरा ऋषि,
सर्वशीर्षमयाद्य देवता, अनुष्टुप्, विराट् अनुष्टुप्,विराट् पथ्या बृहती,
पथ्यापङ्क्त छंदम, यक्ष्मनिवारणर्थे जपे विनियोग: ।
जप संख्या कम से कम ११ बार प्रतिदिन ।
मन्त्र
शीर्ष॒क्तिं शी॑र्षाम॒यं क॑र्णशू॒लं वि॑लोहि॒तम् । सर्वं॑ शीर्ष॒न्यं॑ ते॒ रोगं॑
ब॒हिर्निर्म॑न्त्रयामहे ॥
|
ओ३म् कर्णा॑भ्यां ते॒
कङ्कू॑षेभ्यः कर्णशू॒लं वि॒सल्प॑कम् । सर्वं॑ शीर्ष॒न्यं॑ ते॒ रोगं॑
ब॒हिर्निर्म॑न्त्रयामहे ॥
|
ओ३म् यस्य॑ हे॒तोः प्र॒च्यव॑ते॒
यक्ष्मः॑ कर्ण॒तो आ॑स्य॒तः । सर्वं॑ शीर्ष॒न्यं॑ ते॒ रोगं॑
ब॒हिर्निर्म॑न्त्रयामहे ॥
|
ओ३म् यः कृ॒णोति॑
प्र॒मोत॑म॒न्धं कृ॒णोति॒ पूरु॑षम् । सर्वं॑ शीर्ष॒न्यं॑ ते॒ रोगं॑
ब॒हिर्निर्म॑न्त्रयामहे ॥
|
ओ३म्
अ॑ङ्गभे॒दम॑ङ्गज्व॒रम्वि॑श्वा॒ङ्ग्यं॑ वि॒सल्प॑कम् । सर्वं॑ शीर्ष॒न्यं॑ ते॒
रोगं॑ ब॒हिर्निर्म॑न्त्रयामहे ॥
|
ओ३म् यस्य॑ भी॒मः प्र॑तीका॒श
उ॑द्वे॒पय॑ति॒ पूरु॑षम् । त॒क्मानं॑ वि॒श्वशा॑रदं ब॒हिर्निर्म॑न्त्रयामहे ॥
|
ओ३म् य ऊ॒रू अ॑नु॒सर्प॒त्यथो॒
एति॑ ग॒वीनि॑के । यक्ष्मं॑ ते अ॒न्तरङ्गे॑भ्यो ब॒हिर्निर्म॑न्त्रयामहे ॥
|
ओ३म् यदि॒
कामा॑दपका॒माद्धृद॑या॒ज्जाय॑ते॒ परि॑ । हृ॒दो ब॒लास॒मङ्गे॑भ्यो
ब॒हिर्निर्म॑न्त्रयामहे ॥
|
ओ३म् ह॑रि॒माणं॑ ते॒
अङ्गे॑भ्यो॒ ऽप्वाम॑न्त॒रोदरा॑त् । य॑क्ष्मो॒धाम॒न्तरा॒त्मनो॑
ब॒हिर्निर्म॑न्त्रयामहे ॥
|
ओ३म् आसो॑ ब॒लासो॒ भव॑तु॒
मूत्रं॑ भवत्वा॒मय॑त् । यक्ष्मा॑णां॒ सर्वे॑षां वि॒षं निर॑वोचम॒हं त्वत् ॥
|
ओ३म् ब॒हिर्बिलं॒ निर्द्र॑वतु॒
काहा॑बाहं॒ तवो॒दरा॑त् । यक्ष्मा॑णां॒ सर्वे॑षां वि॒षं निर॑वोचम॒हं त्वत् ॥
|
ओ३म् उ॒दरा॑त्ते क्लो॒म्नो
नाभ्या॒ हृद॑या॒दधि॑ । यक्ष्मा॑णां॒ सर्वे॑षां वि॒षं निर॑वोचम॒हं त्वत् ॥
|
ओ३म् याः सी॒मानं॑ विरु॒जन्ति॑
मू॒र्धानं॒ प्रत्य॑र्ष॒नीः । अहिं॑सन्तीरनाम॒या निर्द्र॑वन्तु ब॒हिर्बिल॑म्
॥
|
ओ३म् या
हृद॑यमुप॒र्षन्त्य॑नुत॒न्वन्ति॒ कीक॑साः । अहिं॑सन्तीरनाम॒या निर्द्र॑वन्तु
ब॒हिर्बिल॑म् ॥
|
ओ३म् याः पा॒र्श्वे
उ॑प॒र्षन्त्य॑नु॒निक्ष॑न्ति पृ॒ष्टीः । अहिं॑सन्तीरनाम॒या निर्द्र॑वन्तु
ब॒हिर्बिल॑म् ॥
|
ओ३म् यास्ति॒रश्चीः॑
उप॒र्षन्त्य॑र्ष॒णीर्व॒क्षणा॑सु ते । अहिं॑सन्तीरनाम॒या निर्द्र॑वन्तु
ब॒हिर्बिल॑म् ॥
|
ओ३म् या गुदा॑
अनु॒सर्प॑न्त्या॒न्त्राणि॑ मो॒हय॑न्ति च । अहिं॑सन्तीरनाम॒या निर्द्र॑वन्तु
ब॒हिर्बिल॑म् ॥
|
ओ३म् या म॒ज्ज्ञो नि॒र्धय॑न्ति॒
परूं॑षि विरु॒जन्ति॑ च । अहिं॑सन्तीरनाम॒या निर्द्र॑वन्तु ब॒हिर्बिल॑म् ॥
|
ओ३म् ये अङ्गा॑नि म॒दय॑न्ति॒
यक्ष्मा॑सो रोप॒णास्तव॑ । यक्ष्मा॑णां॒ सर्वे॑षां वि॒षं निर॑वोचम॒हं त्वत्
॥
|
ओ३म् वि॑स॒ल्पस्य॑ विद्र॒धस्य॑
वातीका॒रस्य॑ वाल॒जेः । यक्ष्मा॑णां॒ सर्वे॑षां वि॒षं निर॑वोचम॒हं त्वत् ॥
|
ओ३म् पादा॑भ्यां ते॒
जानु॑भ्यां॒ श्रोणि॑भ्यां॒ परि॒ भंस॑सः । अनू॑कादर्ष॒णीरु॒ष्णिहा॑भ्यः शी॒र्ष्णो
रोग॑मनीनशम् ॥
|
ओ३म् सं ते॑ शी॒र्ष्णः
क॒पाला॑नि॒ हृद॑यस्य च॒ यो वि॒धुः । उ॒द्यन्ना॑दित्य र॒श्मिभिः॑ शी॒र्ष्णो
रोग॑मनीनशो ऽङ्गभे॒दम॑शीशमः ॥
|
1 मिठाई , फल से ना लेवे ।
२ शाम को ना सोवे ।
३ ब्रह्मचर्य का कठोरता से पालन करें ।
४ कम से कम ११ बार कुम्भक करें ।
५ चाय ले सकते हैं दूध ना लेवें ।
सिर्फ तीसरे दिन प्रभाव देखें ।