अनुष्टुबादि नानाछन्दांसि (मुखे), आद्यादि-श्रीमहालक्ष्मी सहित विष्णु देवता (हृदये)॥
। ॐ बीजं, ह्रीं शक्तिः, ऐं कीलकम् ।
आद्यादि-श्रीमहालक्ष्मी-प्रसादसिद्ध्यर्थं जपे विनियोगः ॥
ओम् ॥ ``आद्यादि-श्रीमहालक्ष्मी देवतयै नमः'' हृदये, ``श्रीं बीजायै नमः'' गुह्ये,
``ह्रीं शक्त्यै नमः'' पादयोः, ``ऐं बलायै नमः'' मूर्धादि-पाद-पर्यन्तं विन्यसेत् ॥
ओम् श्रीं ह्रीं ऐं करतल-करपार्श्वयोः, श्रीं अङ्गुष्ठाभ्यं नमः,
ह्रीं तर्जनीभ्यां नमः, ऐं मध्यमाभ्यां नमः, श्रीं अनामिकाभ्यां नमः,
ह्रीं कनिष्टिकाभ्यां नमः, ऐं करतल करपृष्ठाभ्यां नमः ॥
ॐ हृदयाय नमः, ह्रीं शिरसे स्वाहा, ऐं शिखायै वौषट्,
श्रीं कवचाय हुम्, ह्रीं नेत्राभ्यां वौषट्, भूर्भुवस्सुवरों इति दिग्बन्धः ॥
॥ अथ ध्यानम् ॥
हस्तद्वयेन कमले धारयन्तीं स्वलीलया ॥हार-नूपुर-संयुक्तां महालक्ष्मीं विचिन्तयेत् ॥कौशेय-पीतवसनां अरविन्दनेत्राम्पद्मद्वयाभय-वरोद्यत-पद्महस्ताम् ।उद्यच्छतार्क-सदृशां परमाङ्क-संस्थांध्यायेत् विधीशनत-पादयुगां जनित्रीम् ॥॥श्रीलक्ष्मी-कमलधारिण्यै सिंहवाहिन्यै स्वाहा ॥पीतवस्त्रां सुवर्णाङ्गीं पद्महस्त-द्वयान्विताम् ।लक्ष्मीं ध्यात्वेति मन्त्रेण स भवेत् पृथिवीपतिः ॥मातुलङ्ग-गदाखेटे पाणौ पात्रञ्च बिभ्रती ।वागलिङ्गञ्च मानञ्च बिभ्रती नृपमूर्धनि ॥। ॐ श्रीं ह्रीं ऐं ।वन्दे लक्ष्मीं परशिवमयीं शुद्धजाम्बूनदाभांतेजोरूपां कनक-वसनां सर्वभूषोज्ज्वलाङ्गीम् ।बीजापूरं कनक-कलशं हेमपद्मं दधानाम्आद्यां शक्तिं सकलजननीं विष्णु-माङ्कसंस्थाम् ॥ १॥श्रीमत्सौभाग्यजननीं स्तौमि लक्ष्मीं सनातनीम् ।सर्वकाम-फलावाप्ति-साधनैक-सुखावहाम् ॥ २॥
स्मरामि नित्यं देवेशि त्वया प्रेरितमानसः ।त्वदाज्ञां शिरसा धृत्वा भजामि परमेश्वरीम् ॥ ३॥समस्त-सम्पत्सुखदां महाश्रियंसमस्त-कल्याणकरीं महाश्रियम् ।समस्त-सौभाग्यकरीं महाश्रियंभजाम्यहं ज्ञानकरीं महाश्रियम् ॥ ४॥विज्ञानसम्पत्सुखदां महाश्रियंविचित्र-वाग्भूतिकरीं मनोहराम् ।अनन्त-सौभाग्य-सुखप्रदायिनीं
नमाम्यहं भूतिकरीं हरिप्रियाम् ॥ ५॥समस्त-भूतान्तरसंस्थिता त्वं समस्त-भक्तेश्श्वरि विश्वरूपे ।
तन्नास्ति यत्त्वद्व्यतिरिक्तवस्तु त्वत्पादपद्मं प्रणमाम्यहं श्रीः ॥ ६॥ दारिद्र्य-दुःखौघ-तमोपहन्त्रि त्वत्-पादपद्मं मयि सन्निधत्स्व । दीनार्ति-विच्छेदन-हेतुभूतैः कृपाकटाक्षैरभिषिञ्च मां श्रीः ॥ ७॥ विष्णु-स्तुतिपरां लक्ष्मीं स्वर्णवर्ण-स्तुति-प्रियाम् । वरदाभयदां देवीं वन्दे त्वां कमलेक्षणे ॥ ८॥ अम्ब प्रसीद करुणा-परिपूर्ण-दृष्ट्या
मां त्वत्कृपाद्रविणगेहमिमं कुरुष्व । आलोकय प्रणत-हृद्गत-शोकहन्त्रि त्वत्पाद-पद्मयुगलं प्रणमाम्यहं श्रीः ॥ ९॥
शान्त्यै नमोऽस्तु शरणागत-रक्षणायै कान्त्यै नमोऽस्तु कमनीय-गुणाश्रयायै । क्षान्त्यै नमोऽस्तु दुरितक्षय-कारणायै धात्र्यै नमोऽस्तु धन-धान्य-समृद्धिदायै ॥ १०॥ शक्त्यै नमोऽस्तु शशिशेखर-संस्थितायै
रत्यै नमोऽस्तु रजनीकर-सोदरायै । भक्त्यै नमोऽस्तु भवसागर-तारकायै मत्यै नमोऽस्तु मधुसूदन-वल्लभायै ॥ ११॥लक्ष्म्यै नमोऽस्तु शुभ-लक्षण-लक्षितायै सिद्ध्यै नमोऽस्तु सुर-सिद्ध-सुपूजितायै । धृत्यै नमोऽस्तु मम र्गति-भञ्जनायै गत्यै नमोऽस्तु वरसद्गति-दायकायै ॥ १२॥ देव्यै नमोऽस्तु दिवि देवगणार्चितायै भूत्यै नमोऽस्तु भुवनार्ति-विनाशनायै । शान्त्यै नमोऽस्तु धरणीधर-वल्लभायै पुष्ट्यै नमोऽस्तु पुरुषोत्तम-वल्लभायै ॥ १३॥
सुतीव्र-दारिद्र्य-तमोपहन्त्र्यै नमोऽस्तु ते सर्व-भयापहन्त्र्यै । श्रीविष्णु-वक्षःस्थल-संस्थितायै नमो नमः सर्व-विभूति-दायै ॥ १४॥ जयतु जयतु लक्ष्मीः लक्षणालङ्कृताङ्गी जयतु जयतु पद्मा पद्मसद्माभिवन्द्या । जयतु जयतु विद्या विष्णु-वामाङ्क-संस्था जयतु जयतु सम्यक् सर्व-सम्पत्करी श्रीः ॥ १५॥ जयतु जयतु देवी देवसङ्घाभिपूज्या जयतु जयतु भद्रा भार्गवी भाग्यरूपा ।जयतु जयतु नित्या निर्मलज्ञानवेद्या जयतु जयतु सत्या सर्वभूतान्तरस्था ॥ १६॥ जयतु जयतु रम्या रत्नगर्भान्तरस्था जयतु जयतु शुद्धा शुद्धजाम्बूनदाभा ।
जयतु जयतु कान्ता कान्तिमद्भासिताङ्गी जयतु जयतु शान्ता शीघ्रमागच्छ सौम्ये ॥ १७॥ यस्याः कलायाः कमलोद्भवाद्या रुद्राश्च शक्रप्रमुखाश्च देवाः । जीवन्ति सर्वेऽपि सशक्तयस्ते प्रभुत्वमाप्ताः परमायुषस्ते ॥ १८॥
॥ मुखबीजम् ॥ ॐ-ह्रां-ह्रीं-अं-आं-यं-दुं-लं-वम् ॥ लिलेख निटिले विधिर्मम लिपिं विसृज्यान्तरं
त्वया विलिखितव्यमेतदिति तत्फलप्राप्तये । तदन्तिकफल्स्फुटं कमलवासिनि श्रीरिमां
समर्पय स्वमुद्रिकां सकलभाग्यसंसूचिकाम् ॥ १९॥ ॥ पादबीजम् ॥ ॐ-अं-आं-ईं-एं-ऐं-कं-लं-रं ॥
कलया ते यथा देवि जीवन्ति सचराचराः । तथा सम्पत्करी लक्ष्मि सर्वदा सम्प्रसीद मे ॥ २०॥
यथा विष्णुर्ध्रुवं नित्यं स्वकलां संन्यवेशयत् । तथैव स्वकलां लक्ष्मि मयि सम्यक् समर्पय ॥ २१॥
सर्वसौख्यप्रदे देवि भक्तानामभयप्रदे । अचलां कुरु यत्नेन कलां मयि निवेशिताम् ॥ २२॥ मुदास्तां मत्फाले परमपदलक्ष्मीः स्फुटकला सदा वैकुण्ठश्रीर्निवसतु कला मे नयनयोः । वसेत्सत्ये लोके मम वचसि लक्ष्मीर्वरकला श्रियश्वेतद्वीपे निवसतु कला मे स्व-करयोः ॥ २३॥ ॥ नेत्रबीजम् ॥ ॐ-घ्रां-घ्रीं-घ्रें-घ्रैं-घ्रों-घ्रौं-घ्रं-घ्रः ॥
तावन्नित्यं ममाङ्गेषु क्षीराब्धौ श्रीकला वसेत् । सूर्याचन्द्रमसौ यावद्यावल्लक्ष्मीपतिः श्रियौ ॥ २४॥
सर्वमङ्गलसम्पूर्णा सर्वैश्वर्यसमन्विता । आद्यादिश्रीर्महालक्ष्मीस्त्वत्कला मयि तिष्ठतु ॥ २५॥
अज्ञानतिमिरं हन्तुं शुद्धज्ञानप्रकाशिका । सर्वैश्वर्यप्रदा मेऽस्तु त्वत्कला मयि संस्थिता ॥ २६॥
अलक्ष्मीं हरतु क्षिप्रं तमः सूर्यप्रभा यथा । वितनोतु मम श्रेयस्त्वत्कला मयि संस्थिता ॥ २७॥
ऐश्वर्यमङ्गलोत्पत्तिः त्वत्कलायां निधीयते । मयि तस्मात्कृतार्थोऽस्मि पात्रमस्मि स्थितेस्तव ॥ २८॥
भवदावेशभाग्यार्हो भाग्यवानस्मि भार्गवि । त्वत्प्रसादात्पवित्रोऽहं लोकमातर्नमोऽस्तु ते ॥ २९॥
पुनासि मां त्वत्कलयैव यस्मात् अतस्समागच्छ ममाग्रतस्त्वम् । परं पदं श्रीर्भव सुप्रसन्ना
मय्यच्युतेन प्रविशादिलक्ष्मीः ॥ ३०॥ श्रीवैकुण्ठस्थिते लक्ष्मि समागच्छ ममाग्रतः । नारायणेन सह मां कृपादृष्ट्याऽवलोकय ॥ ३१॥ सत्यलोकस्थिते लक्ष्मि त्वं ममागच्छ सन्निधिम् ।
वासुदेवेन सहिता प्रसीद वरदा भव ॥ ३२॥ श्वेतद्वीपस्थिते लक्ष्मि शीघ्रमागच्छ सुव्रते ।
विष्णुना सहिता देवि जगन्मातः प्रसीद मे ॥ ३३॥ क्षीराम्बुधिस्थिते लक्ष्मि समागच्छ समाधवे ।
त्वत्कृपादृष्टिसुधया सततं मां विलोकय ॥ ३४॥ रत्नगर्भस्थिते लक्ष्मि परिपूर्णहिरण्मयि ।
समागच्छ समागच्छ स्थित्वाशु पुरतो मम ॥ ३५॥ स्थिरा भव महालक्ष्मि निश्चला भव निर्मले ।
प्रसन्नकमले देवि प्रसन्नहृदया भव ॥ ३६॥ श्रीधरे श्रीमहालक्ष्मि त्वदन्तःस्थं महानिधिम् ।
शीघ्रमुद्धृत्य पुरतः प्रदर्शय समर्पय ॥ ३७॥ वसुन्धरे श्रीवसुधे वसुदोग्ध्रि कृपामयि ।
त्वत्कुक्षिगतसर्वस्वं शीघ्रं मे सम्प्रदर्शय ॥ ३८॥ विष्णुप्रिये रत्नगर्भे समस्तफलदे शिवे ।
त्वद्गर्भगतहेमादीन् सम्प्रदर्शय दर्शय ॥ ३९॥ रसातलगते लक्ष्मि शीघ्रमागच्छ मे पुरः ।
न जाने परमं रूपं मातर्मे सम्प्रदर्शय ॥ ४०॥ आविर्भव मनोवेगात् शीघ्रमागच्छ मे पुरः ।
मा वत्स भैरिहेत्युक्त्वा कामं गौरिव रक्ष माम् ॥ ४१॥ देवि शीघ्रं ममागच्छ धरणीगर्भसंस्थिते ।
मातस्त्वद्भृत्यभृत्योऽहं मृगये त्वां कुतूहलात् ॥ ४२॥ उत्तिष्ठ जागृहि त्वं मे समुत्तिष्ठ सुजागृहि ।
अक्षयान् हेमकलशान् सुवर्णेन सुपूरितान् ॥ ४३॥ निक्षेपान्मे समाकृष्य समुद्धृत्य ममाग्रतः ।
समुन्नतानना भूत्वा सम्यग्धेहि धरातलात् ॥ ४४॥ मत्सन्निधिं समागच्छ मदाहितकृपारसा ।
प्रसीद श्रेयसां दोग्ध्रि लक्ष्मि मे नयनाग्रतः ॥ ४५॥ अत्रोपविश्य लक्ष्मि त्वं स्थिरा भव हिरण्मयी ।
सुस्थिरा भव सम्प्रीत्या प्रसन्ना वरदा भव ॥ ४६॥ आनीतांस्तु त्वया देवि निधीन्मे सम्प्रदर्शय ।
अद्य क्षणेन सहसा दत्त्वा संरक्ष मां सदा ॥ ४७॥ मयि तिष्ठ तथा नित्यं यथेन्द्रादिषु तिष्ठसि ।
अभयं कुरु मे देवि महालक्ष्मि नमोऽस्तु ते ॥ ४८॥ समागच्छ महालक्ष्मि शुद्धजाम्बूनद-स्थिते ।
प्रसीद पुरतः स्थित्वा प्रणतं मां विलोकय ॥ ४९॥ लक्ष्मीर्भुवं गता भासि यत्र यत्र हिरण्मयी ।
तत्र तत्र स्थिता त्वं मे तव रूपं प्रदर्शय ॥ ५०॥ क्रीडन्ती बहुधा भूमौ परिपूर्णकृपा मयि ।
मम मूर्धनि ते हस्तमविलम्बितमर्पय ॥ ५१॥ फलद्भाग्योदये लक्ष्मि समस्तपुरवासिनि ।
प्रसीद मे महालक्ष्मि परिपूर्णमनोरथे ॥ ५२॥ अयोध्यादिषु सर्वेषु नगरेषु समास्थिते ।
विभवैर्विविधैर्युक्तैः समागच्छ मुदान्विते ॥ ५३॥ समागच्छ समागच्छ ममाग्रे भव सुस्थिरा ।
करुणारसनिष्यन्दनेत्रद्वयविशालिनि ॥ ५४॥ सन्निधत्स्व महालक्ष्मि त्वत्पाणिं मम मस्तके ।
करुणासुधया मां त्वमभिषिच्य स्थिउरं कुरु ॥ ५५॥ सर्वराजगृहे लक्ष्मि समागच्छ बलान्विते ।
स्थित्वाऽऽशु पुरतो मेऽद्य प्रसादेनाभयं कुरु ॥ ५६॥ सादरं मस्तके हस्तं मम त्वं कृपयाऽर्पय ।
सर्वराजस्थिते लक्ष्मी त्वत्कला मयि तिष्ठतु ॥ ५७॥ आद्यादि श्रीर्महालक्ष्मि विष्णुवामाङ्कसंस्थिते ।
प्रत्यक्षं कुरु मे रूपं रक्ष मां शरणागतम् ॥ ५८॥ प्रसीद मे महालक्ष्मि सुप्रसीद महाशिवे ।
अचला भव सुप्रीता सुस्थिरा भव मद्गृहे ॥ ५९॥ यावत्तिष्ठन्ति वेदाश्च यावच्चन्द्र-दिवाकरौ ।
यावद्विष्णुश्च यावत्त्वं तावत्कुरु कृपां मयि ॥ ६०॥ चान्द्री कला यथा शुक्ले वर्धते सा दिने दिने ।
तथा दया ते मय्येव वर्धतामभिवर्धताम् ॥ ६१॥ यथा वैकुण्ठनगरे यथा वै क्षीरसागरे ।
तथा मद्भवने तिष्ठ स्थिरं श्रीविष्णुना सह ॥ ६२॥ योगिनां हृदये नित्यं यथा तिष्ठसि विष्णुना ।
तथा मद्भवने तिष्ठ स्थिरं श्रीविष्णुना सह ॥ ६३॥ नारायणस्य हृदये भवती यथाऽऽस्ते
नारायणोऽपि तव हृत्कमले यथाऽऽस्ते । नारायणस्त्वमपि नित्यविभू तथैव तौ तिष्ठतां हृदि ममापि दयान्वितौ श्रीः ॥ ६४॥विज्ञानवृद्धिं हृदये कुरु श्रीः सौभाग्यवृद्धिं कुरु मे गृहे श्रीः । दयासुवृद्धिं कुरुतां मयि श्रीः सुवर्णवृद्धिं कुरु मे गृहे श्रीः ॥ ६५॥ न मां त्यजेथाः श्रितकल्पवल्लि सद्भक्ति-चिन्तामणि-कामधेनो । न मां त्यजेथा भव सुप्रसन्ने गृहे कलत्रेषु च पुत्रवर्गे ॥ ६६॥ ॥ कुक्षिबीजम् ॥ ॐ-अं-आं-ईं-एं-ऐं ॥ आद्यादिमाये त्वमजाण्डबीजं त्वमेव साकार-निराकृती त्वम् । त्वया धृताश्चाब्जभवाण्डसङ्घाः ह्चित्रं चरित्रं तव देवि विष्णोः ॥ ६७॥ ब्रह्मरुद्रादयो देवा वेदाश्चापि न शक्नुयुः । महिमानं तव स्तोतुं मन्दोऽहं शक्नुयां कथम् ॥ ६८॥ अम्ब त्वद्वत्सवाक्यानि सूक्तासूक्तानि यानि च । तानि स्वीकुरु सर्वज्ञे दयालुत्वेन सादरम् ॥ ६९॥ भवन्तं शरणं गत्वा कृतार्थाः स्युः पुरातनाः । इति सञ्चिन्त्य मनसा त्वामहं शरणं व्रजे ॥ ७०॥ अनन्ता नित्यसुखिनः त्वद्भक्तास्त्वत्परायणाः ।
इति वेदप्रमाणाद्धि देवि त्वां शरणं व्रजे ॥ ७१॥ तव प्रतिज्ञा मद्भक्ता न नश्यन्तीत्यपि क्वचित् ।
इति सञ्चिन्त्य सञ्चिन्त्य प्राणान् सन्धारयाम्यहम् ॥ ७२॥ त्वदधीनस्त्वहं मातः त्वत्कृपा मयि विद्यते ।
यावत्सम्पूर्णकामः स्यां तावद्देहि दयानिधे ॥ ७३॥ क्षणमात्रं न शक्नोमि जीवितुं त्वत्कृपां विना ।
न हि जीवन्ति जलजा जलं त्यक्त्वा जलाश्रयाः ॥ ७४॥ यथा हि पुत्रवात्सल्यात् जननी प्रस्नुतस्तनी ।
वत्सं त्वरितमागत्य सम्प्रीणयति वत्सला ॥ ७५॥ यदि स्यां तव पुत्रोऽहं माता त्वं यदि मामकी ।
दयापयोधर-स्तन्य-सुधाभिरभिषिञ्च माम् ॥ ७६॥ मृग्यो न गुणलेशोऽपि मयि दोषैक-मन्दिरे ।
पांसूनां वृष्टिबिन्दूनां दोषाणां च न मे मतिः ॥ ७७॥ पापिनामहमेकाग्रो दयालूनां त्वमग्रणीः ।
दयनीयो मदन्योऽस्ति तव कोऽत्र जगत्त्रये ॥ ७८॥ विधिनाहं न सृष्टश्चेत् न स्यात्तव दयालुता ।
आमयो वा न सृष्टश्चेदौषधस्य वृथोदयः ॥ ७९॥ कृपा मदग्रजा किं ते अहं किं वा तदग्रजः ।
विचार्य देहि मे वित्तं तव देवि दयानिधे ॥ ८०॥ माता पिता त्वं गुरुः सद्गतिः श्रीः त्वमेव सञ्जीवनहेतुभूता ।
अन्यं न मन्ये जगदेकनाथे त्वमेव सर्वं मम देवि सत्यम् ॥ ८१॥ ॥ हृदय बीजम् ॥ ॐ-घ्रां-घ्रीं-घ्रूं-घ्रें-घ्रों-घ्रः-हुं फट् कुरु कुरु स्वाहा ॥ आद्यादिलक्ष्मीर्भव सुप्रसन्ना विशुद्धविज्ञानसुखैकदोग्ध्रि । अज्ञानहन्त्री त्रिगुणातिरिक्ता प्रज्ञाननेत्री भव सुप्रसन्ना ॥ ८२॥ अशेषवाग्जाड्य-मलापहन्त्री नवं नवं सुष्टु सुवाक्यदायिनी । ममैव जिह्वाग्रसुरङ्गवर्तिनी भव प्रसन्ना वदने च मे श्रीः ॥ ८३॥ समस्तसम्पत्सु विराजमाना समस्ततेजस्सु विभासमाना । विष्णुप्रिये त्वं भव दीप्यमाना वाग्देवता मे नयने प्रसन्ना ॥ ८४॥ सर्वप्रदर्शे सकलार्थदे त्वं प्रभासुलावण्यदयाप्रदोग्ध्रि । सुवर्णदे त्वं सुमुखी भव श्रीर्हिरण्मयी मे नयने प्रसन्ना ॥ ८५॥ सर्वार्थदा सर्वजगत्प्रसूतिः सर्वेश्वरी सर्वभयापहन्त्री । सर्वोन्नता त्वं सुमुखी च नः श्रीर्हिरण्मयी मे भव सुप्रसन्ना ॥ ८६॥
समस्त-विघ्नौघ-विनाशकारिणी समस्त-भक्तोद्धरणे विचक्षणा । अनन्तसम्मोद-सुखप्रदायिनी हिरण्मयी मे नयने प्रसन्ना ॥ ८७॥ देवि प्रसीद दयनीयतमाय मह्यं देवाधिनाथ-भव-देवगणाभिवन्द्ये । मातस्तथैव भव सन्निहिता दृशोर्मे पत्या समं मम मुखे भव सुप्रसन्ना ॥ ८८॥ मा वत्स भैरभयदानकरोऽर्पितस्ते
मौलौ ममेति मयि दीनदयानुकम्पे । मातः समर्पय मुदा करुणाकटाक्षं माङ्गल्यबीजमिह नः सृज जन्म मातः ॥ ८९॥ ॥ कण्ठबीजम् ॥ ॐ-श्रां-श्रीं-श्रूं-श्रैं-श्रौं-श्रं-श्राः ॥ कटाक्ष इह कामधुक् तव मनस्तु चिन्तामणिः
करः सुरतरुः सदा नवनिधिस्त्वमेवेन्दिरे । भवेत्तव दयारसो मम रसायनं चान्वहं मुखं तव कलानिधिर्विविध-वाञ्छितार्थप्रदम् ॥ ९०॥ यथा रसस्पर्शनतोऽयसोऽपि सुवर्णता स्यात्कमले तथा ते । कटाक्षसंस्पर्शनतो जनानां अमङ्गलानामपि मङ्गलत्वम् ॥ ९१॥ देहीति नास्तीति वचः प्रवेशाद् भीतो रमे त्वां शरणं प्रपद्ये । अतः सदास्मिन्नभयप्रदा त्वं सहैव पत्या मयि सन्निधेहि ॥ ९२॥ कल्पद्रुमेण मणिना सहिता सुरम्या
श्रीस्ते कला मयि रसेन रसायनेन । आस्तामतो मम च दृक्करपाणिपाद- स्पृष्ट्याः सुवर्णवपुषः स्थिरजङ्गमाः स्युः ॥ ९३॥ आद्यादिविष्णोः स्थिरधर्मपत्नी त्वमेव पत्या मम सन्निधेहि । आद्यादिलक्ष्मि त्वदनुग्रहेण पदे पदे मे निधिदर्शनं स्यात् ॥ ९४॥
अस्तु
फलश्रुति ( पाठ नहीं किया जाता हैं ।)
आद्यादिलक्ष्मीहृदयं पठेद्यः स राज्यलक्ष्मीमचलां तनोति । महादरिद्रोऽपि भवेद्धनाढयः तदन्वये श्रीः स्थिरतां प्रयाति ॥ ९५॥ यस्य स्मरणमात्रेण तुष्टा स्याद्विष्णुवल्लभा ।
तस्याभीष्टं ददत्याशु तं पालयति पुत्रवत् ॥ ९६॥ इदं रहस्यं हृदयं सर्वकामफलप्रदम् । जपः पञ्चसहस्रं तु पुरश्चरणमुच्यते ॥ ९७॥ त्रिकालं एककालं वा नरो भक्तिसमन्वितः । यः पठेत् शृणुयाद्वापि स याति परमां श्रियम् ॥ ९८॥ महालक्ष्मीं समुद्दिश्य निशि भार्गववासरे । इदं श्रीहृदयं जप्त्वा पञ्चवारं धनी भवेत् ॥ ९९॥ अनेन हृदयेनान्नं गर्भिण्या अभिमन्त्रितम् । ददाति तत्कुले पुत्रो जायते श्रीपतिः स्वयम् ॥ १००॥ नरेणाप्यथवा नार्या लक्ष्मीहृदयमन्त्रिते । जले पीते च तद्वंशे मन्दभाग्यो न जायते ॥ १०१॥ य आश्वयुङ्मासि च शुक्लपक्षे रमोत्सवे सन्निहिते च भक्त्या । पठेत्तथैकोत्तरवारवृद्ध्या लभेत्स सौवर्णमयीं सुवृष्टिम् ॥ १०२॥ य एकभक्त्याऽन्वहमेकवर्षं विशुद्धधीः सप्ततिवारजापी । स मन्दभाग्योऽपि रमाकटाक्षात् भवेत्सहस्राक्षशताधिकश्रीः ॥ १०३॥
पुन: पाठ
श्रीशांघ्रिभक्तिं हरिदासदास्यं प्रपन्नमन्त्रार्थदृढैकनिष्ठाम् ।
गुरोः स्मृतिं निर्मलबोधबुद्धिं प्रदेहि मातः परमं पदं श्रीः ॥ १०४॥
पृथ्वीपतित्वं पुरुषोत्तमत्वं विभूतिवासं विविधार्थसिद्धिम् ।
सम्पूर्णकीर्तिं बहुवर्षभोगं प्रदेहि मे देवि पुनःपुनस्त्वम् ॥ १०५॥
वादार्थसिद्धिं बहुलोकवश्यं वयःस्थिरत्वं ललनासु भोगम् ।
पौत्रादिलब्धिं सकलार्थसिद्धिं प्रदेहि मे भार्गवि जन्मजन्मनि ॥ १०६॥
सुवर्णवृद्धिं कुरु मे गृहे श्रीः विभूतिवृद्धिं कुरू मे गृहे श्रीः ।
कल्याणवृद्धिं कुरु मे गृहे श्रीः विभूतिवृद्धिं कुरु मे गृहे श्रीः ॥ १०७॥
॥ शिरो बीजम् ॥ ॐ-यं-हं-कं-लं- वं-श्रीम् ॥
ध्यायेल्लक्ष्मीं प्रहसितमुखीं कोटिबालार्कभासां
विद्युत्वर्णाम्बरवरधरां भूषणाढ्यां सुशोभाम् ।
बीजापूरं सरसिजयुगं बिभ्रतीं स्वर्णपात्रं
भर्त्रायुक्तां मुहुरभयदां मह्यमप्यच्युतश्रीः ॥ १०८॥
॥ इति श्रीअथर्वणरहस्ये लक्ष्मीहृदयस्तोत्रं सम्पूर्णम् ॥
घी का एक दीप जलायें बस यही काफी हैं ।
- ११ दिन रोजाना ५ बार पर्याप्त हैं ( ३ घंटे लग सकते हैं। )
- मैंने ये प्रयोग किया था एक माह बाद ही उचित परिणाम आ गए थे ।