॥ विभिन्नरूपलक्ष्मीध्यानप्रकाराः ॥
लक्ष्मीवल्लभ ध्यानम् । क्षीराम्भोनिधिरत्नमण्डपमहासौवर्णसिंहासने । वामाङ्के स्थितया प्रसन्नवदनं कान्तयाऽऽलिङ्गितम् ॥ दोर्दण्डाङ्कितशङ्खपङ्कजगदाचक्रैरुदारश्रियम् । त्वां नित्यं कलयामि जन्मविमुखः लक्ष्मीश नारायण ॥
द्विभुजालक्ष्मी - हेमवर्णा
। हरेः समीपे कर्तव्या लक्ष्मीस्तु द्विभुजा नृप । दिव्यरूपाम्बुजकरा सर्वाभरणभूषिता ॥
गजलक्ष्मी - स्वर्णवर्णा
। लक्ष्मीः शुक्लाम्बरा देवी रूपेणाप्रतिमा भुवि । पृथक् चतुर्भुजा कार्या देवी सिम्हासने शुभा ॥ सिम्हासनेऽस्या कर्तव्यं कमलं चारुकर्णिकम् । अष्टपत्रं महाभागा कर्णिकायां सुसंस्थिता ॥ विनायकवदासीना देवी कार्या चतुर्भुजा । बृहन्नालङ्करे कार्यं तस्याश्च कमलं शुभम् ॥ दक्षिणे यादवश्रेष्ठं केयूरभ्रान्तसंस्थितम् । वामेऽमृतघटः कार्यस्तदा राजन् मनोहरः ॥ तस्याऽन्यौ च करौ कार्यौ बिल्वशङ्खधरौ द्विज । अवर्जितकरं कार्यं तत्पृष्ठे कुञ्जरद्वयम् ॥ देवाश्च मस्तके कार्यं पद्मं चापि मनोहरम् ॥
महालक्ष्मी - स्वर्णवर्णा ।
कोल्लापुरं विनाऽन्यत्र महालक्ष्मीर्यथोच्यते । लक्ष्मीवत् सा सदाकार्या सर्वाभरणभूषिता ॥ दक्षिणाधः करे पात्रमूर्ध्वं कौमोदकीं तदा । वामोर्ध्वे खेटकञ्चैव श्रीबलं तदधः करे ॥ बिभ्रती मस्तके पद्मं पूजनीया विभूतये ॥ देवी - हेमवर्णा पाशाक्षमाली काम्भोजमणिभिर्याम्यसौम्ययोः । पद्मासनस्थां कुर्वीथ श्रियं त्रैलोक्यमातरम् ॥ चतुर्भुजा वीरलक्ष्मी - स्वर्णवर्णा । वीरलक्ष्मीरिति ख्याता वरदाभयहस्तिनी । ऊर्ध्वपद्मद्वयकरा तथा पद्मासने स्थिता ॥
द्विभुजा वीरलक्ष्मी - हेमवर्णा ।
दक्षिणे त्वभयं बिभ्रदुत्तरे वरदं तथा । ऊरू पद्मदलाकारौ वीरश्रीमूर्तिलक्षणम् ॥
अष्टभुजा वीरलक्ष्मी -
हेमवर्णा । पाशाङ्कुशाक्षसूत्रवराभयगदाभद्रहस्ता ॥ प्रसन्नलक्ष्मी - स्वर्णवर्णा । वन्दे लक्ष्मीं वरशशिमयीं शुद्धजाम्बूनदाभां तेजोरूपां कनकवसनां सर्वभूषोज्ज्वलाङ्गीम् । बीजापूरं कनककलशं हेमपद्मे दधानां आद्यां शक्तिं सकलजननीं विष्णुवामाङ्कसंस्थाम् ॥
महालक्ष्मी - प्रवालवर्णा । अक्षस्रक्परशुं गदेषु कुलिशं पद्मं धनुः कुण्डिकां दण्डं शक्तिमसिञ्च चर्मजलजं घण्टां सुराभाजनम् । शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवालप्रभां सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ॥
श्रीलक्ष्मी - कनकवर्णा ।
अरुणकमलसंस्था तद्रजःपुञ्जवर्णा करकमलधृतेष्वाभीतियुग्माम्बुजा च । मणिमकुटविचित्रालङ्कृता कल्पजातैः भवतु भुवनमाता सन्ततं श्रीः श्रियै नः ॥
पद्मा - पद्मवर्णा पद्मा पद्मासनासीना पद्माभा पद्मवासिनी । हेमरत्नोज्ज्वलन्नग्रकर्णकुण्डलमण्डिता ॥ चन्द्रबिम्बामलमुखी कर्णपूरायतेक्षणा । सयौवना सुरम्याङ्गी कुञ्चितभ्रूः सुविभ्रमा ॥ रक्तोष्ठी पीनकण्ठा च कञ्चुकाच्छादितस्तनी । शिरसो मण्डनं चक्रं सीमन्तं चैव पद्मकम् ॥ नागहस्तसमौ बाहु केयूरकटकोज्ज्वलौ । पङ्कजं श्रीफलं वामे दक्षिणे बिभ्रती परा ॥ शोभनाम्बरसम्पन्ना विपुलश्रोणिता तथा । मेखलाकटिसूत्राङ्गा लक्ष्मीः लक्ष्मीविवर्धनी ॥
श्रीलक्ष्मी (अपरा) अभयवरदहस्तां रत्नसिम्हासनस्थां जलजकमलवर्णां हेमवर्णोर्ध्वहस्ताम् । कनकमणिविभूषामास्थितां पद्मपादां सकलभुवनभाग्यां भावये वीरलक्ष्मीम् ॥
वागीश्वरी - श्वेतवर्णा । श्वेतपद्मासनारूढा शुक्लवर्णा चतुर्भुजा । जटामकुटसम्युक्ता रत्नकुण्डलमण्डिता ॥ यज्ञोपवीतिनी हारमुक्ताभरणभूषिता । दुकूलवसना देवी नेत्रत्रयसमन्विता ॥ सुदण्डं दक्षिणे हस्ते वामहस्ते तु पुस्तकम् । दक्षिणेऽक्षमालाञ्च कुण्डिकां वामहस्तके ॥
शत्रुविध्वंसिनी - नीलवर्णा । शत्रुविध्वंसिनी रौद्रा त्रिशिरा रक्तलोचना । दिगम्बरा रक्तकेशी रक्तपाणिर्महोदरी ॥ एतैराविष्कृतैर्घोरैः शीघ्रमुच्चाटयेद्द्विषः ॥
मृतसञ्जीविनी - रक्तवर्णा । मृतसञ्जीविनीं देवीं शान्तरूपांश्च बिभ्रतीम् । पाशाहीन्द्राङ्कुशगदाखड्गशूलवराभयान् ॥ रक्तामष्टभुजां वन्दे फुल्लपद्मासने शुभे ॥ अणिमादि अष्टसिद्धिदेवता - रक्तवर्णा । अणिमा महिमा चैव गरिमा लघिमा तथा । प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्टसिद्धयः ॥ मुक्तिसिद्धिः सर्वसिद्धिः दशसिद्धय ईरिताः । एता देव्यश्चतुर्बाहाः जपाकुसुमसन्निभाः ॥ चिन्तामणिं कपालञ्च त्रिशूलं सिद्धकज्जलम् । दधाना दययापूर्णा योगिभिश्च निषेविता ॥ महालक्ष्मीसहित अष्टमातृकाः - रक्तवर्णाः । ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । वाराही चैव माहेन्द्री चामुण्डा चैव सप्तमा ॥ महालक्ष्मीरष्टमा च द्विभुजा शोणविग्रहाः । कपालमुत्पलं चैव बिभ्राणा रक्तवाससः ॥ अथवान्यप्रकारेण केचित्तान् यं प्रचक्षते । ब्रह्मादिसदृशाकाराः ब्रह्मादिसदृशायुताः ॥ ब्रह्मादीनां परं चिह्नं धारयन्त्यः प्रकीर्तिताः ॥
सर्वमङ्गला - कनकवर्णा
। शङ्खं चक्रञ्च चापं सृणिमपि सुमहाखेटखड्गौ सुचापं बाणं कह्लारपुष्पं तदनुकरगतं मातुलङ्गं दधानाम् । उद्यद्बालार्कवर्णां त्रिभुवनविजयां पञ्चवक्त्रां त्रिनेत्रां देवीं पीताम्बराढ्यां कुचभरनमितां सन्ततं भावयामि ॥ हेमाभां करुणाभिपूर्णनयनां माणिक्यभूषोज्ज्वलां द्वात्रिंशद्दलषोडशाष्टदलयुक् पद्मस्थितां सुस्मिताम् ॥ भक्तानां वरदां वरं च दधतीं वामेन हस्तेन तत् दक्षेणाभयमातुलङ्गसुफलं श्रीमङ्गलां भावये ॥ ज्वालामालिनि - कनकवर्णा कल्पान्ताग्निसमप्रभां स्मितमुखैः षड्भिर्भुजद्वादशैः युक्तां पाशकखेटकञ्च सुशरं शूलं वरं वामके । दक्षेत्वङ्कुशखड्गशक्तिसुशरं चापाभये बिभ्रतीं ज्वालामालिनि सञ्चितां मणिमयीभूषान्वितामाश्रये ॥ मित्रा - रक्तवर्णा बालार्ककान्ति च शिलां जितवक्त्रशोभां पाशाङ्कुशौ च वरमप्यभयं दधानाम् । चित्रांशुकां च नवरत्न विभूषिताङ्गीं चित्राम्बिकां त्रिनयनां हृदि भावयामि ॥
गायत्री - रक्तवर्णा देवीं पूर्वाह्नसंध्यायां गायत्रीं वह्निरूपिणीम् । कुमारीं रक्तवस्त्राङ्गीं रक्तस्रगनुलेपनाम् ॥ चतुर्भुजां चतुर्वक्त्रां वरदां चाष्टलोचनाम् । पद्माक्षमालावलयां बिभ्रतीं दक्षिणे करे ॥ वामे कमण्डलुं पाणौ स्रुवं सव्येतरे करे । अभयं वामहस्ते च पद्मपीठे प्रतिष्ठिताम् ॥ ऋग्वेदरूपिणीं प्रातस्सवनां हंसवाहनाम् । रसायनाञ्च प्रहतीं गार्हपत्ये प्रतिष्ठिताम् ॥
सावित्री - शुक्लवर्णा (मध्याह्नम्) देवीं मध्याह्नसन्ध्यायां सावित्रीं रुद्ररूपिणीम् । युवतीं श्वेतवस्त्राख्यां शुक्लस्रगनुलेपनाम् ॥ चतुर्भुजां चतुर्वक्त्रां वरदां द्वादशेक्षणाम् । रुद्राक्षमालावलयां बिभ्रतीं दक्षिणे करे ॥ वामे करेऽभयं देवीं तथैवार्केन्दुधारिणीम् । स्वर्णपीठे स्थितां सौम्ये यजुर्वेदस्वरूपिणीम् ॥ माध्यन्दिनाख्यसवने सतां गोवृषवाहनाम् । दक्षिणाग्निस्वरूपां तां ध्यायेन्नित्यं विशुद्धधीः ॥
सरस्वती - श्यामवर्णा (सायङ्कालं) सरस्वतीं तु सायाह्ने सन्ध्यायां विष्णुरूपिणीम् । स्थविरेन्दीवरश्यामां नीलकुञ्चितमूर्धजाम् ॥ चतुर्भुजां चैकवक्त्रां पद्मपत्रायतेक्षणाम् । शङ्खं चक्रं गदाञ्चैव तथैवाभयदं पुनः ॥ पीताम्बरं दधानाञ्च दिव्यस्रगनुलेपनाम् । तृतीयसवनाख्याञ्च ध्यायेद्वै विष्णुरूपिणीम् ॥ नीलपीठे स्थितां सौम्ये सामवेदस्वरूपिणीम् । वरदां गरुडारूढां आहवनीये व्यवस्थिताम् ॥
वश्यमुखी - रक्तवर्णा सन्धाय सुमनोबाणं कर्षन्तीमैक्षवं धनुः । जगज्जैत्रीं जपासक्तां देवीं वश्यमुखीं भजे ॥ सप्तमातृकासु - ब्राह्मी - पीतवर्णा तत्र ब्राह्मी चतुर्वक्त्रा षड्भुजा हंससंस्थिता । पिङ्गाभा भूषणोपेता मृगचर्मोत्तरीयका ॥ वरं सूत्रं स्रुवं धत्ते दक्षबाहूत्तरे क्रमात् । वामे तु पुस्तकं कुण्डीं बिभ्रती चाभयङ्करम् ॥
माहेश्वरी - श्वेतवर्णा माहेश्वरी वृषारूढा पञ्चवक्त्रा त्रिलोचना । श्वेतवर्णा दशभुजा चन्द्ररेखाविभूषिता ॥ खड्गं वज्रं त्रिशूलञ्च परशुं चाभयं वरम् । पाशं घण्टां तथा नागमङ्कुशं बिभ्रती करैः ॥
कौमारी - पाटलवर्णा षडानना तु कौमारी पाटलाभा सुशीलका । रविबाहुर्मयूरस्था वरदा शक्तिधारिणी ॥ पताकां बिभ्रती दण्डं पात्रं बाणञ्च दक्षिणे । वामे चापमथो घण्टां कमलं कुक्कुटं तथा ॥ परशुं बिभ्रती चैव दधतस्त्वभयान्विता ॥
वैष्णवी - नीलवर्णा वैष्णवी तार्क्ष्यका श्यामा षड्भुजा वनमालिनी । वरदा गदिनी दक्षे बिभ्रती च करेऽम्बुजम् ॥ शङ्खचक्राभयान्वामे सा चेयं विलसद्भुजा ॥
वाराही - कृष्णवर्णा कृष्णवर्णा तु वाराही महिषस्था महोदरी । वरदा दण्डिनी खड्गं बिभ्रती दक्षिणे करे ॥ खेटपात्राभयान्वामे सूकरास्या लसद्भुजा ॥
ऐन्द्री - कनकवर्णा ऐन्द्री सहस्रदृक् सौम्या हेमाभा गजससस्थिता । वरदा सूत्रिणी वज्रं बिभ्रत्यूर्ध्वं तु दक्षिणे ॥ वामे तु कमलं पात्रं ह्यभयं तदधः करे ॥
चामुण्डा - कृष्णवर्णा चामुण्डा प्रेतका कृष्णा विकृता चाहिभूषणा । दंष्ट्राला क्षीणदेहा च कर्ताक्षी कामरूपिणी ॥ दिग्बाहुः क्षौमकुक्षी च मुसलं चक्रचामरे । अङ्कुशं बिभ्रती खड्गं दक्षिणे चाथ वामके ॥ खेटं पाशं धनुर्दण्डं कुठारं चापि बिभ्रती ॥
सिद्धिदायिनी - श्वेतवर्णा सिद्धगन्धर्वयक्षाद्यैरसुरैरमरैरपि । सेव्यमाना सदा भूयात्सिद्धिदा सिद्धिदायिनी ॥
अपराजिता - नीलवर्णा नीलोत्पलनिभां देवीं निद्रामुद्रितलोचनाम् । नीलकुञ्जितकेशाग्नां
निम्ननाभीवलित्रयाम् ॥ वराभयकराम्भोजां प्रणतार्तिविनाशिनीम् । पीताम्बरवरोपेतां भूषणस्रग्विभूषिताम् ॥ वरशक्त्याकृतिं सौम्यां परसैन्यप्रभञ्जनीम् । शङ्खचक्रगदाऽभीतिरम्यहस्तां त्रिलोचनाम् ॥ सर्वकामप्रदां देवीं ध्यायेत्तामपराजिताम् ॥
तुलसी - श्यामवर्णा ध्यायेच्च तुलसीं देवीं श्यामां कमललोचनाम् । प्रसन्नां पद्मकल्हार वराभय चतुर्भुजाम् ॥ किरीटहारकेयूरकुण्डलादिविभूषिताम् । धवलांशुकसभ्युक्तां पद्मासननिषेदुषीम् ॥
भूदेवी - स्वर्णवर्णा स्वर्गवर्णा द्विहस्ता च दक्षिणेनाभयप्रदा । दाडिमीफलसम्युक्ता वामे कल्पतरोरधः ॥ वामपादेन संस्पृष्टनिधिकुम्भाधरा तथा । सर्वालङ्कारभूषाढ्या ध्येया सर्वफलप्रदा ॥
नीलादेवी - श्यामवर्णा नीलोत्पलघनश्यामा नीलवस्त्रविभूषिता । चतुर्भुजा सुखासीना वराभयकरान्विता ॥ इतराभ्यां तु हस्ताभ्यां कुमुदद्वयधारिणी । सर्वाभरणसम्युक्ता नीलादेवी समीरिता ॥
अश्वारूढा राजलक्ष्मी - हिरण्यवर्णा चतुरङ्गबलोपेतां धनधान्यसुखेश्वरीम् । अश्वारूढामहं वन्दे राजलक्ष्मीं हिरण्मयीम् ॥ इति विभिन्नरूपलक्ष्मीध्यानप्रकाराः सम्पूर्णाः ।