ॐ अस्य मधुमति मंत्रस्य:, मधुवनस्पति देवता:, अथर्वा: ऋषये , अनुष्टुप छंद:, मधुरवाणीं प्राप्ति हेत्वे जपे विनियोग:
ओ३म् इ॒यं वी॒रुन्मधु॑जाता॒ मधु॑ना त्वा खनामसि । मधो॒रधि॒ प्रजा॑तासि॒ सा नो॒ मधु॑मतस्कृधि ॥
ओ३म् जि॒ह्वाया॒ अग्रे॒ मधु॑ मे जिह्वामू॒ले म॒धूल॑कम् । ममेदह॒ क्रता॒वसो॒ मम॑ चि॒त्तमु॒पाय॑सि ॥
ओ३म् मधु॑मन्मे नि॒क्रम॑णं॒ मधु॑मन्मे प॒राय॑णम् । वा॒चा व॑दामि॒ मधु॑मद्भू॒यासं॒ मधु॑संदृशः ॥
ओ३म् मधो॑रस्मि॒ मधु॑तरो म॒दुघा॒न्मधु॑मत्तरः । मामित्किल॒ त्वं वनाः॒ शाखां॒ मधु॑मतीमिव ॥
ओ३म् परि॑ त्वा परित॒त्नुने॒क्षुणा॑गा॒मवि॑द्विषे । यथा॒ मां क॒मिन्यसो॒ यथा॒ मन्नाप॑गा॒ असः॑ ॥