Blog Archive

Wednesday, 25 April 2018

दुःख मोचन सूक्त



। ॐ अस्य दुःख मोचन सूक्तस्य, यम ऋषि:, दुःस्वप्ननाशन देवता:, यजुर्ब्राह्मी एकपदा अनुष्टुप्,त्रिपदा निचृत गायत्री,त्रिपदा प्राजापत्या छंद:, दुःख मोचन हेत्वे जपे विनियोग: ।

। ओ३म् जि॒तम॑स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॑स्माकं वी॒रा अ॒स्माक॑म् । तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः । स सर्व देवस्य: पाशा॒न्मा मो॑चि । तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमधराञ्चं पादयामि ॥