प्राचीन और आधुनिक मंत्र तंत्र यन्त्र विधिया, स्तोत्र, और आगे विस्तरित,पाश्चात्य तंत्र, इलेक्ट्रोनिकी.
Blog Archive
Monday, 26 August 2024
Monday, 25 October 2021
Sanjivan Stotra
|| श्री पार्वती उवाच ||
देवेश परमानन्द भक्तनामभयं प्रद |
आगमाः निगमाश्चैव वीजं वीजोदयस्तथा ||
समुदायेन वीजानां मन्त्रो मंत्रस्य संहिता |
ऋषिच्छन्दादिकं भेदो वैदिकं यामलादिकं ||
धर्मोऽधर्मस्तथा ज्ञानं विज्ञानं च विकल्पन |
निर्विकल्प विभागेन तथा षट्कर्म सिद्धये ||
भुक्ति मुक्ति प्रकारश्च सर्वं प्राप्तं प्रसादतः |
कीलनं सर्वमंत्राणां शंसयद हृदये वचः ||
इति श्रुत्वा शिवानाथः पार्वत्या वचनं शुभं |
उवाच परया प्रीत्या मन्त्रोंत्कीलनकं शिवां ||
|| श्री शिवउवाच ||
वरानने हि सर्वस्य व्यक्ताव्यक्तस्य वस्तुनः |
साक्षी भूय त्वमेवासि जगतस्तु मनोस्तथा ||
त्वया पृष्टं वरारोहे तद वक्ष्याम्युतकीलनं |
उद्दीपनं हि मंत्रस्य सर्वस्योंत्कीलनं भवेत् ||
पुरा तव मया भद्रे समाकर्षण वश्यजा |
मंत्राणां कीलिता सिद्धिः सर्वे ते सप्तकोटयः ||
तवानुग्रह प्रीतस्त्वात सिद्धिस्तेषां फलप्रदा |
येनोपायेन भवति तं स्तोत्रं कथयाम्यहं ||
श्रुणु भद्रेऽत्र सततमावाभ्यामखिल जगत |
तस्य सिद्धिभवेत तिष्ठे माया येषां प्रभावकं ||
अन्नं पानं हि सौभाग्यं दत्तं तुभ्यं मया शिवे |
सञ्जीवनं च मंत्राणां तथा दत्तुम पुनर्ध्रुवं ||
यस्य स्मरण मात्रेण पाठेन जपतोऽपि वा |
अकीला अखिला मन्त्राः सत्यं सत्यं न संशयः ||"
|| सर्वयन्त्र मंत्र तन्त्रोंत्कीलन स्तोत्रम ||
|| विनियोगः ||
ॐ अस्य सर्वयन्त्र मन्त्र तंत्राणामुत्कीलन मन्त्र स्तोत्रस्य मूल प्रकृतिः ऋषिः जगतीच्छन्दः निरञ्जनो देवता क्लीं बीजं ह्रीं शक्तिः ह्रः सौं कीलकं सप्तकोटि मन्त्र यन्त्र तन्त्र कीलकानां सञ्जीवन सिद्धयर्थे जपे विनियोगः |
ऋष्यादिन्यासः
ॐ मूलप्रकृति ऋषये नमः शिरसि |
ॐ जगतीच्छन्दसे नमः मुखे |
ॐ निरञ्जन देवतायै नमः हृदि |
ॐ क्लीं बीजाय नमः गुह्ये |
ॐ ह्रीं शक्तये नमः पादयोः |
ॐ ह्रः सौं कीलकाय नमः सर्वाङ्गे |
मंत्राणां सञ्जीवन सिद्ध्यर्थे जपे विनियोगाय नमः अंजलौ |
करन्यास
ॐ ह्रां अङ्गुष्ठाभ्यां नमः |
ॐ ह्रीं तर्जनीभ्यां नमः |
ॐ ह्रूं मध्यमाभ्यां नमः |
ॐ ह्रैं अनामिकाभ्यां नमः |
ॐ ह्रां कनिष्ठिकाभ्यां नमः |
ॐ ह्रः करतलकरपृष्ठाभ्यां नमः |
हृदयादि न्यास
ॐ ह्रां हृदयाय नमः |
ॐ ह्रीं शिरसे स्वाहा |
ॐ ह्रूं शिखायै वौषट |
ॐ ह्रैं कवचाय हुम् |
ॐ ह्रां नेत्रत्रयाय वौषट |
ॐ ह्रः अस्त्राय फट |
अथ ध्यानम
ॐ ब्रह्मस्वरूपममलं च निरंजनं तँ ज्योतिः प्रकाशमनीषं महतो महान्तं |
कारुण्यरुपमति बोधकरं प्रसन्नं दिव्यं स्मरामि सततं मनु जीवनाय ||
एवं ध्यात्वा स्मरेन्नित्यं तस्य सिद्धिस्तु सर्वदा |
वाञ्छितं फलमाप्नोति मन्त्र सञ्जीवनं ध्रुवम ||
ॐ ह्रीं ह्रीं ह्रीं सर्व मन्त्र यन्त्र तंत्रादीनामुत्कीलनं कुरु कुरु स्वाहा ||
( १०८ वारं जपित्वा )
ॐ ह्रीं ह्रीं ह्रीं षट्पञ्चाक्षराणामुत्कीलय उत्कीलय स्वाहा |
ॐ जूँ सर्वमन्त्र यन्त्र तन्त्राणां सञ्जीवनं कुरु कुरु स्वाहा |
ॐ ह्रीं जूं अं आं इं ईं उं ऊं ऋं ॠ लृं लृं एम् ऐं ओं औं अं अः
कं खं गं घं ङ्गं चं छं जं झं ञं टं ठं डं ढं णं
तँ थं दं धं नं पं फं बं भं यं रं लं वं शं षं सं हं लं क्षं |
मात्राऽक्षराणां सर्व उत्कीलनं कुरु कुरु स्वाहा |
ॐ सोऽहं हंसोऽहं ( 11 )
ॐ जूं सोऽहं हंसः ( 11 )
ॐ ॐ ( 11 )
ॐ हं जूं हं सं गं ( 11 )
सोऽहं हंसो यं ( 11 )
लं ( 11 )
ॐ ( 11 )
यं ( 11 )
ॐ ह्रीं जूं सर्वमन्त्र यन्त्र तन्त्र स्तोत्र कवचादिनां सञ्जीवय सञ्जीवय कुरु कुरु स्वाहा |
ॐ सोऽहं हंसः ॐ सञ्जीवनं स्वाहा | ॐ ह्रीं मन्त्राक्षराणामुत्कीलय उत्कीलनं कुरु कुरु स्वाहा |
ॐ ॐ प्रणवरूपाय अं आं परम रूपिणे | इं ईं शक्तिस्वरूपाय |
उं ऊं तेजोमयाय च | ऋं ऋं रञ्जितदीप्ताय स्वाहा |
लृं लृ स्थूलस्वरूपिणे | एम् ऐं वाचां विलासाय |
ओं औं अं अः शिवाय च | कं खं कमलनेत्राय |
गं घं गरुड़गामिने | ङ्गं चं श्रीचन्द्रभालाय |
छं जं जयकराय च | झं ञं टं ठं जयकर्त्रे,डं ढं णं तं पराय च |
थं दं धं नं नमस्तस्मै पं फं यन्त्रमयाय च |
बं भं मं बलवीर्याय यं रं लं यशसे नमः |
वं शं षं बहुवादाय सं हं ळं क्षं स्वरूपिणे |
दिशामादित्य रूपाय तेजसे रुपधारिणे |
अनन्ताय अनन्ताय नमस्तस्मै नमो नमः ||
मातृकायाः प्रकाशायै तुभ्यं तस्मै नमो नमः |
प्राणेशायै क्षीणदायै सं सञ्जीव नमो नमः ||
निरञ्जनस्य देवस्य नामकर्म विधानतः |
त्वया ध्यानं च शक्त्या च तेन सञ्जायते जगत ||
स्तुता महमचिरं ध्यात्वा मायायाँ ध्वंस हेतवे |
संतुष्टा भार्गवायाहं यशस्वी जायते हि सः ||
ब्रह्माणं चेतयन्ती विविधसुर नरास्तर्पयन्ती प्रमोदाद |
ध्यानेनोद्दीपयन्ती निगम जप मनुं षट्पदं प्रेरयन्ती ||
सर्वान्देवाँ जयन्ती दितिसुत दमनी साप्यहँकारमूर्ति |
स्तुभ्यं तस्मै च जाप्यं स्मर रचित मनुं मोचये शाप जाळात ||
इदं श्रीत्रिपुरा स्तोत्रं पठेद भक्त्या तु यो नरः |
सर्वांकामानवाप्नोति सर्वशापाद विमुच्यते ||
|| इति ||
Shanti Path
नश्यन्तु प्रेत कूष्माण्डा नश्यन्तु दूषका नरा:
साधकानां शिवाः सन्तु आम्नाय परिपालिनाम ।
जयन्ति मातरः सर्वा जयन्ति योगिनी गणाः
जयन्ति सिद्ध डाकिन्यो जयन्ति गुरु पन्क्तयः ॥1॥
जयन्ति साधकाः सर्वे विशुद्धाः साधकाश्च ये
समयाचार संपन्ना जयन्ति पूजका नराः।
नन्दन्तु चाणिमासिद्धा नन्दन्तु कुलपालकाः
इन्द्राद्या देवता सर्वे तृप्यन्तु वास्तु देवतः॥2॥
चन्द्रसूर्यादयो देवास्तृप्यन्तु मम भक्तितः
नक्षत्राणि ग्रहाः योगाः करणा राशयश्च ये।
सर्वे ते सुखिनो यान्तु सर्पा नश्यन्तु पक्षिणः
पशवस्तुरगाश्चैव पर्वताः कन्दरा गुहाः॥3॥
ऋषयो ब्राह्मणाः सर्वे शान्तिम कुर्वन्तु सर्वदा
स्तुता मे विदिताःसन्तु सिद्धास्तिष्ठन्तु पूजकाः।
ये ये पापधियस्सुदूषणरतामन्निन्दकाः पूजने
वेदाचार विमर्द नेष्ट हृदया भ्रष्टाश्च ये साधकाः॥4॥
दृष्ट्वा चक्रम्पूर्वमन्दहृदया ये कौलिका दूषकास्ते
ते यान्तु विनाशमत्र समये शिवाज्ञया।
द्वेष्टारः साधकानां च सदैवाम्नाय दूषकाः
डाकिनीनां मुखे यान्तु तृप्तास्तत्पिशितै स्तुताः॥5॥
ये वा शक्तिपरायणाः शिवपरा ये वैष्णवाः साधवः
सर्वस्मादखिले सुराधिपमजं सेव्यं सुरै संततम।
शक्तिं विष्णुधिया शिवंचसुधियाश्रीकृष्णबुद्धयाच ये
सेवन्ते त्रिपुरं त्वभेदमतयो गच्छन्तु मोक्षन्तु ते॥6॥
शत्रवो नाशमायान्तु मम निन्दाकराश्च ये
द्वेष्टारः साधकानां च ते नश्यन्तु शिवाज्ञया।
तत्परं पठेत स्तोत्रमानंदस्तोत्रमुत्तमम
सर्वसिद्धि भवेत्तस्य सर्वलाभो प्रणाश्यति॥7॥
Wednesday, 23 June 2021
जल चिकित्सा सूक्त
जल चिकित्सा सूक्त
ओ३म् अ॒म्बयो॑ य॒न्त्यध्व॑भिर्जा॒मयो॑ अध्वरीय॒ताम् । पृ॑ञ्च॒तीर्मधु॑ना॒ पयः॑ ॥
ओ३म् अ॒मूर्या उप॒ सूर्ये॒ याभि॑र्वा॒ सूर्यः॑ स॒ह । ता नो॑ हिन्वन्त्वध्व॒रम् ॥
ओ३म् अ॒पो दे॒वीरुप॑ ह्वये॒ यत्र॒ गावः॒ पिब॑न्ति नः । सिन्धु॑भ्यः॒ कर्त्वं॑ ह॒विः ॥
ओ३म् अ॒प्स्व॑१न्तर॒मृत॑म॒प्सु भे॑ष॒जम् । अ॒पामु॒त प्रश॑स्तिभि॒रश्वा॒ भव॑थ वा॒जिनो॒ गावो॑ भवथ वा॒जिनीः॑ ॥
ओ३म् आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से ॥
ओ३म् यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ । उ॑श॒तीरि॑व मा॒तरः॑ ॥
ओ३म् तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ॥
ओ३म् ईशा॑ना॒ वार्या॑णां॒ क्षय॑न्तीश्चर्षणी॒नाम् । अ॒पो या॑चामि भेष॒जम् ॥
ओ३म् शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑ । शं योर॒भि स्र॑वन्तु नः ॥
ओ३म् अ॒प्सु मे॒ सोमो॑ अब्रवीद॒न्तर्विश्वा॑नि भेष॒जा । अ॒ग्निं च॑ वि॒श्वशं॑भुवम् ॥
ओ३म् आपः॑ पृणी॒त भे॑ष॒जं वरू॑थं त॒न्वे॑३ मम॑ । ज्योक्च॒ सूर्यं॑ दृ॒शे ॥
ओ३म् शं न॒ आपो॑ धन्व॒न्या॑३ शमु॑ सन्त्वनू॒प्याः॑ । शं नः॑ खनि॒त्रिमा॒ आपः॒ शमु॒ याः कु॒म्भ आभृ॑ताः । शि॒वा नः॑ सन्तु॒ वार्षि॑कीः ॥
सप्तऋषय ऋषि (मनोकामना पूर्ति प्रयोग)
सप्तऋषय ऋषय:
ओ3म् सप्त तेऽअग्ने समिधः सप्त जिह्वाः सप्त ऋषयः सप्त धाम प्रियाणि । सप्त होत्राः सप्तधा त्वा यजन्ति सप्त योनीरापृणस्व घृतेन स्वाहा
ओ3म् शुक्रज्योतिश्च चित्रज्योतिश्च सत्यज्योतिश्च ज्योतिष्माँश्च । शुक्रश्चऽऋतपाश्चात्यँहाः
ओ3म् ईदृङ्चान्यदृङ्च सदृङ्च प्रतिसदृङ्च । मितश्च सम्मितश्च सभराः
ओ3म् ऋतश्च सत्यश्च धु्रवश्च धरुणश्च । धर्ता च विधर्ता च विधारयः
ओ3म् ऋतजिच्च सत्यजिच्च सेनजिच्च सुषेणश्च । अन्तिमित्रश्च दूरेअमित्रश्च गणः
ओ3म् ईदृक्षास एतादृक्षासऽऊ षु णः सदृक्षासः प्रतिसदृक्षासऽएतन । मितासश्च सम्मितासो नोऽअद्य सभरसो मरुतो यज्ञे अस्मिन्
ओ3म् स्वतवाँश्च प्रघासी च सान्तपनश्च गृहमेधी च । क्रीडी च शाकी चोज्जेषी
ओ3म् इन्द्रन्दैवीर्विशो मरुतोनुवर्त्मानो भवन्यथेन्द्रन्दैवीर्विशो मरुतोनुवर्त्मानोभवन् । एवमिमँयजमानन्दैवीश्च विशो मानुषीश्चानुवर्त्मानो भवन्तु
ओ3म् इमँ स्तनमूर्जस्वन्तन्धयापाम्प्रपीनमग्ने सरिरस्य मध्ये । उत्सञ्जुषस्व मधुमन्तमर्वन्त्समुद्रियँ सदनमाविशस्व
वत्स ऋषि (for Easy Life)
वत्स ऋषि (for Easy Life)
ओ३म् त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा । त्वँय॒ज्ञेष्वीड्यः॑ । रास्वेय॑त्सो॒मा भूयो॑ भर दे॒वो नः॑ सवि॒ता वसो॑र्दा॒ता वस्व॑दात् ॥
ओ३म् ए॒षा ते॑ शुक्र त॒नूरे॒तद्वर्च॒स्तया॒ सम्भ॑व॒ भ्राजङ्गच्छ । जूर॑सि धृ॒ता मन॑सा॒ जुष्टा॒ विष्ण॑वे ॥
ओ३म् तस्या॑स्ते स॒त्यस॑वसः प्रस॒वे त॒न्वो॑ य॒न्त्रम॑शीय॒ स्वाहा॑ । शु॒क्रम॑सि च॒न्द्रम॑स्य॒मृत॑मसि वैश्वदे॒वम॑सि ॥
ओ३म् चिद॑सि म॒नासि॒ धीर॑सि॒ दक्षि॑णासि क्ष॒त्रिया॑सि य॒ज्ञिया॒स्यदि॑तिरस्युभयतःशी॒र्ष्णी । सा नः॒ सुप्रा॑ची॒ सुप्र॑तीच्येधि मि॒त्रस्त्वा॑ प॒दि ब॑ध्नीताम्पू॒षाध्व॑नस्पा॒त्विन्द्रा॒याधक्षाय ॥
ओ३म् अनु॑ त्वा मा॒ता म॑न्यता॒मनु॑ पि॒तानु॒ भ्राता॒ सग॒र्भ्यो नु॒ सखा॒ सयू॑थ्यः । सा दे॑वि दे॒वमच्छे॒हीन्द्रा॑य॒ सोमᳯ रु॒द्रस्त्वा व॑र्तयतु स्व॒स्ति सोमसखा॒ पुन॒रेहि॑ ॥
ओ३म् वस्व्य॒स्यदि॑तिरस्यादि॒त्यासि॑ रु॒द्रासि॑ च॒न्द्रासि॑ । बृह॒स्पति॑ष्ट्वा सु॒म्ने र॑म्णातु रु॒द्रो वसु॑भि॒रा च॑के ॥
ओ३म् अदि॑त्यास्त्वा मू॒र्धन्ना जि॑घर्मि देव॒यज॑ने पृथि॒व्या इडा॑यास्प॒दम॑सि घृ॒तव॒त्स्वाहा॑ । अ॒स्मे र॑मस्वास्मे ते॒ बन्धुस्त्वे रायो मे रायो मा व॒यᳯ रा॒यस्पोषे॑ण॒ वि यौ॑ष्म तोतो॒ रायः॑ ॥
ओ३म् सम॑ख्ये दे॒व्या धि॒या सन्दक्षि॑णयो॒रुच॑क्षसा मा म॒ आयुः॒ प्र मो॑षी॒र्मो अ॒हन्तव॑ वी॒रँवि॑देय॒ तव॑ देवि सन्दृशि॑ ॥
ओ३म् ए॒ष ते॑ गाय॒त्रो भा॒ग इति॑ मे॒ सोमा॑य ब्रूतादे॒ष ते त्रैष्टुभो भा॒ग इति॑ मे॒ सोमा॑य ब्रूतादे॒ष ते॒ जाग॑तो भा॒ग इति॑ मे॒ सोमा॑य ब्रूताच्छन्दोना॒माना साम्रा॑ज्यङ्ग॒च्छेति॑ मे॒ सोमा॑य ब्रूतादास्मा॒को॑सि शु॒क्रस्ते॒ ग्रह्यो॑ वि॒चित॑स्त्वा॒ विचि॑न्वन्तु ॥
ओ३म् अ॒भि त्यं दे॒वᳯ स॑वि॒तार॑मो॒ण्योः॑ क॒विक्र॑तु॒मर्चा॑मि स॒त्यस॑वᳯ रत्न॒धाम॒भि प्रि॒यम्म॒तिङ्क॒विम् । ऊ॒र्ध्वा यस्या॒मति॒र्भा अदि॑द्युत॒त्सवी॑मनि॒ हिर॑ण्यपाणिरमिमीत सु॒क्रतुः॑ कृ॒पा स्वः॑ । प्र॒जाभ्य॑स्त्वा । प्र॒जास्त्वा॑नु॒प्राण॑न्तु प्र॒जास्त्वम॑नु॒प्राणि॑हि ॥
ओ३म् शु॒क्रन्त्वा॑ शु॒क्रेण॑ क्रीणामि च॒न्द्रञ्च॒न्द्रेणा॒मृत॑म॒मृते॑न । स॒ग्मे ते॒ गोर॒स्मे ते॑ च॒न्द्राणि॑ तप॑सस्त॒नूर॑सि प्र॒जाप॑ते॒र्वर्णः॑ पर॒मेण॑ प॒शुना॑ क्रीयसे सहस्रपो॒षम्पु॑षेयम् ॥
ओ३म् मि॒त्रो न॒ एहि॒ सुमि॑त्रधः इन्द्र॑स्यो॒रुमा वि॑श॒ दक्षि॑णमु॒शन्नु॒शन्त स्यो॒नः स्यो॒नम् । स्वान॒ भ्राजा॑ङ्घारे॒ बम्भा॑रे॒ हस्त॒ सुह॑स्त॒ कृशा॑नोवेते वः॑ सोम॒क्रय॑णा॒स्तान्र॑क्षध्वम्मा वो॑ दभन् ॥
ओ३म् परि॑ माग्ने॒ दुश्च॑रिताद्बाध॒स्वा मा॒ सुच॑रिते भज । उदायु॑षा स्वा॒युषोद॑स्थाम॒मृताँ॒ अनु॑ ॥
ओ३म् प्रति॒ पन्था॑मपद्महि स्वस्ति॒गाम॑ने॒हस॑म् येन॒ विश्वाः॒ परि॒ द्विषो॑ वृ॒णक्ति॑ वि॒न्दते॒ वसु॑ ॥
ओ३म् अदि॑त्या॒स्त्वग॑सि अदि॑त्यै॒ सद॒ आ सी॑द । अस्त॑भ्ना॒द्द्याँ वृ॑ष॒भो अ॒न्तरि॑क्ष॒ममि॑मीत वरि॒माणम्पृथि॒व्याः । आसी॑द॒द्विश्वा॒ भुव॑नानि स॒म्राड्विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि॑ ॥
ओ३म् वने॑षु॒ व्य॒न्तरि॑क्षन्ततान॒ वाज॒मर्व॑त्सु॒ पय॑ उ॒स्रिया॑सु हृ॒त्सु क्रतुँ वरु॑णो वि॒क्ष्व॒ग्निन्दि॒वि सूर्य॑मदधा॒त्सोम॒मद्रौ॑ ॥
ओ३म् सूर्य॑स्य॒ चक्षु॒रारो॑हा॒ग्नेर॒क्ष्णः क॒नीन॑कम् । यत्रै॑त्रशेभि॒रीय॑से॒ भ्राज॑मानो विप॒श्चिता॑ ॥
ओ३म् उस्रा॒वेतन्धूर्षाहौ यु॒ज्येथा॑मन॒श्रू अवी॑रहणौ ब्रह्म॒चोद॑नौ । स्व॒स्ति यज॑मानस्य गृ॒हान्ग॑च्छतम् ॥
ओ३म् भ॒द्रो मे॑सि॒ प्रच्य॑वस्व भुवस्पते॒ विश्वा॑न्य॒भि धामा॑नि । मा त्वा॑ परिप॒रिणो॑ विद॒न्मा त्वा॑ परिप॒न्थिनो॑ विद॒न्मा वृका॑ अघा॒यवो॑ विदन् । श्ये॒नो भू॒त्वा परा॑ पत॒ यज॑मानस्य गृ॒हान्ग॑च्छ॒ तन्नौ॑ सँस्कृ॒तम् ॥
ओ३म् नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑से म॒हो दे॒वाय॒ तदृ॒तᳯ स॑पर्यत । दू॑रे॒दृशे॑ दे॒वजा॑ताय के॒तवे॑ दि॒वस्पु॒त्राय॒ सूर्या॑य शᳯसत ॥
ओ३म् वरु॑णस्यो॒त्तम्भ॑नमसि वरु॑णस्य स्कम्भ॒सर्ज॑नी स्थो वरु॑णस्य ऋत॒सद॑न्यसि॒ वरु॑णस्य ऋत॒सद॑नमसि वरु॑णस्य ऋत॒सद॑न॒मा सी॑द ॥
ओ३म् म॒हाँऽइन्द्रो॒ य ओज॑सा प॒र्जन्यो॒ वृष्टि॑माँऽइव स्तोमै॑र्व॒त्सस्य॑ वावृधे । उ॑पया॒मगृ॑हीतो सि महे॒न्द्राय॑ त्वैष ते॒ योनि॑र्महे॒न्द्राय॑ त्वा ॥
ओ३म् उ॑पह्व॒रे गि॑री॒णा स॑ङ्ग॒मे च॑ नदी॒नाम् । धि॒या विप्रो॑ऽअजायत॥
वशागौ सूक्त
वशागौ सूक्त
ओ3म् नमस्ते जायमानायै जाताया उत ते नमः । बालेभ्यः शफेभ्यो रूपायाघ्न्ये ते नमः
ओ3म् यो विद्यात्सप्त प्रवतः सप्त विद्यात्परावतः । शिरो यज्ञस्य यो विद्यात्स वशां प्रति गृह्णीयात्
ओ3म् वेदाहं सप्त प्रवतः सप्त वेद परावतः । शिरो यज्ञस्याहं वेद सोमं चास्यां विचक्षणम्
ओ3म् यया द्यौर्यया पृथिवी ययापो गुपिता इमाः । वशां सहस्रधारां ब्रह्मणाछावदामसि
ओ3म् शतं कंसाः शतं दोग्धारः शतं गोप्तारो अधि पृष्ठे अस्याः । ये देवास्तस्यां प्राणन्ति ते वशां विदुरेकधा
ओ3म् यज्ञपदीराक्षीरा स्वधाप्राणा महीलुका । वशा पर्जन्यपत्नी देवामप्येति ब्रह्मणा
ओ3म् अनु त्वाग्निः प्राविशदनु सोमो वशे त्वा । ऊधस्ते भद्रे पर्जन्यो विद्युतस्ते स्तना वशे
ओ3म् अपस्त्वं धुक्षे प्रथमा उर्वरा अपरा वशे । तृतीयं राष्ट्रं धुक्षेऽन्नं क्षीरं वशे त्वम्
ओ3म् यदादित्यैर्हूयमानोपातिष्ठ ऋतवरि । इन्द्रः सहस्रं पात्रान्त्सोमं त्वापाययद्वशे
ओ3म् यदनूचीन्द्रमैरात्त्वा ऋषभोऽह्वयत्। तस्मात्ते वृत्रहा पयः क्षीरं क्रुद्धोऽहरद्वशे
ओ3म् यत्ते क्रुद्धो धनपतिरा क्षीरमहरद्वशे । इदं तदद्य नाकस्त्रिषु पात्रेषु रक्षति
ओ3म् त्रिषु पात्रेषु तं सोममा देव्यहरद्वशा । अथर्वा यत्र दीक्षितो बर्हिष्यास्त हिरण्यये
ओ3म् सं हि सोमेनागत समु सर्वेण पद्वता । वशा समुद्रमध्यष्ठद्गन्धर्वैः कलिभिः सह
ओ3म् सं हि वातेनागत समु सर्वैः पतत्रिभिः । वशा समुद्रे प्रानृत्यदृचः सामानि बिभ्रती
ओ3म् सं हि सूर्येणागत समु सर्वेण चक्षुषा । वशा समुद्रमत्यख्यद्भद्रा ज्योतींषि बिभ्रती
ओ3म् अभीवृता हिरण्येन यदतिष्ठ ऋतावरि । अश्वः समुद्रो भूत्वाध्यस्कन्दद्वशे त्वा
ओ3म् तद्भद्राः समगछन्त वशा देर्ष्ट्यथो स्वधा । अथर्वा यत्र दीक्षितो बर्हिष्यास्त हिरण्यये
ओ3म् वशा माता राजन्यस्य वशा माता स्वधे तव । वशाया यज्ञ आयुधं ततश्चित्तमजायत
ओ3म् ऊर्ध्वा बिन्दुरुदचरद्ब्रह्मणः ककुदादधि । ततस्त्वं जज्ञिषे वशे ततो होताजायत
ओ3म् आस्नस्ते गाथा अभवन्न् उष्णिहाभ्यो बलं वशे । पाजस्याज्जज्ञे यज्ञ स्तनेभ्यो रश्मयस्तव
ओ3म् ईर्माभ्यामयनं जातं सक्थिभ्यां च वशे तव । आन्त्रेभ्यो जज्ञिरे अत्रा उदरादधि वीरुधः
ओ3म् यदुदरं वरुणस्यानुप्राविशथा वशे । ततस्त्वा ब्रह्मोदह्वयत्स हि नेत्रमवेत्तव
ओ3म् सर्वे गर्भादवेपन्त जायमानादसूस्वः । ससूव हि तामाहु वशेति ब्रह्मभिः कॢप्तः स ह्यस्या बन्धुः
ओ3म् युध एकः सं सृजति यो अस्या एक इद्वशी । तरांसि यज्ञा अभवन् तरसां चक्षुरभवद्वशा
ओ3म् वशा यज्ञं प्रत्यगृह्णाद्वशा सूर्यमधारयत्। वशायामन्तरविशदोदनो ब्रह्मणा सह
ओ3म् वशामेवामृतमाहुर्वशां मृत्युमुपासते । वशेदं सर्वमभवद्देवा मनुष्या असुराः पितर ऋषयः
ओ3म् य एवं विद्यात्स वशां प्रति गृह्णीयात्। तथा हि यज्ञः सर्वपाद्दुहे दात्रेऽनपस्फुरन्
ओ3म् तिस्रो जिह्वा वरुणस्यान्तर्दीद्यत्यासनि । तासां या मध्ये राजति सा वशा दुष्प्रतिग्रहा
ओ3म् चतुर्धा रेतो अभवद्वशायाः । आपस्तुरीयममृतं तुरीयं यज्ञस्तुरीयं पशवस्तुरीयम्
ओ3म् वशा द्यौर्वशा पृथिवी वशा विष्णुः प्रजापतिः । वशाया दुग्धमपिबन्त्साध्या वसवश्च ये
ओ3म् वशाया दुग्धं पीत्वा साध्या वसवश्च ये । ते वै ब्रध्नस्य विष्टपि पयो अस्या उपासते
ओ3म् सोममेनामेके दुह्रे घृतमेक उपासते । य एवं विदुषे वशां ददुस्ते गतास्त्रिदिवं दिवः
ओ3म् ब्राह्मणेभ्यो वशां दत्त्वा सर्वांल्लोकान्त्समश्नुते । ऋतं ह्यस्यामार्पितमपि ब्रह्माथो तपः
ओ3म् वशां देवा उप जीवन्ति वशां मनुष्या उत । वशेदं सर्वमभवद्यावत्सूर्या विपश्यति
वाग्विद्युतौ देवता सूक्त, वत्स ऋषि
वत्स ऋषि, वाग्विद्युतौ देवते, नाना छन्दांसि
ओ३म् तस्या॑स्ते स॒त्यस॑वसः प्रस॒वे त॒न्वो॑ य॒न्त्रम॑शीय॒ स्वाहा॑ । शु॒क्रम॑सि च॒न्द्रम॑स्य॒मृत॑मसि वैश्वदे॒वम॑सि ॥
ओ३म् चिद॑सि म॒नासि॒ धीर॑सि॒ दक्षि॑णासि क्ष॒त्रिया॑सि य॒ज्ञिया॒स्यदि॑तिरस्युभयतःशी॒र्ष्णी । सा नः॒ सुप्रा॑ची॒ सुप्र॑तीच्येधि मि॒त्रस्त्वा॑ प॒दि ब॑ध्नीताम्पू॒षाध्व॑नस्पा॒त्विन्द्रा॒याधक्षाय ॥
ओ३म् अनु॑ त्वा मा॒ता म॑न्यता॒मनु॑ पि॒तानु॒ भ्राता॒ सग॒र्भ्यो नु॒ सखा॒ सयू॑थ्यः । सा दे॑वि दे॒वमच्छे॒हीन्द्रा॑य॒ सोमᳯ रु॒द्रस्त्वा व॑र्तयतु स्व॒स्ति सोमसखा॒ पुन॒रेहि॑ ॥
ओ३म् वस्व्य॒स्यदि॑तिरस्यादि॒त्यासि॑ रु॒द्रासि॑ च॒न्द्रासि॑ । बृह॒स्पति॑ष्ट्वा सु॒म्ने र॑म्णातु रु॒द्रो वसु॑भि॒रा च॑के ॥
ओ३म् अदि॑त्यास्त्वा मू॒र्धन्ना जि॑घर्मि देव॒यज॑ने पृथि॒व्या इडा॑यास्प॒दम॑सि घृ॒तव॒त्स्वाहा॑ । अ॒स्मे र॑मस्वास्मे ते॒ बन्धुस्त्वे रायो मे रायो मा व॒यᳯ रा॒यस्पोषे॑ण॒ वि यौ॑ष्म तोतो॒ रायः॑ ॥
ओ३म् सम॑ख्ये दे॒व्या धि॒या सन्दक्षि॑णयो॒रुच॑क्षसा मा म॒ आयुः॒ प्र मो॑षी॒र्मो अ॒हन्तव॑ वी॒रँवि॑देय॒ तव॑ देवि सन्दृशि॑ ॥
Vishnu Sukt (1)
Saturday, 19 June 2021
क्षेत्रियरोगनाशन सूक्त (वंशानुगत रोग नाशक सूक्त)
क्षेत्रियरोगनाशन सूक्त (वंशानुगत रोग नाशक सूक्त)
ओ३म् उद॑गातां॒ भग॑वती वि॒चृतौ॒ नाम॒ तार॑के । वि क्षे॑त्रि॒यस्य॑ मुञ्चतामध॒मं पाश॑मुत्त॒मम् ॥
ओ३म् अपे॒यं रात्र्यु॑छ॒त्वपो॑छन्त्वभि॒कृत्व॑रीः । वी॒रुत्क्षे॑त्रिय॒नाश॒न्यप॑ क्षेत्रि॒यमु॑छतु ॥
ओ३म् ब॒भ्रोरर्जु॑नकाण्डस्य॒ यव॑स्य ते पला॒ल्या तिल॑स्य तिलपि॒ञ्ज्या । वी॒रुत्क्षे॑त्रिय॒नाश॒न्यप॑ क्षेत्रि॒यमु॑छतु ॥
ओ३म् नम॑स्ते॒ लाङ्ग॑लेभ्यो॒ नम॑ ईषायु॒गेभ्यः॑ । वी॒रुत्क्षे॑त्रिय॒नाश॒न्यप॑ क्षेत्रि॒यमु॑छतु ॥
ओ३म् नमः॑ सनिस्रसा॒क्षेभ्यो॒ नमः॑ संदे॒श्ये॑भ्यः । नमः॒ क्षेत्र॑स्य॒ पत॑ये वी॒रुत्क्षे॑त्रिय॒नाश॒न्यप॑ क्षेत्रि॒यमु॑छतु ॥
आत्मा रक्षा सूक्त
ओ३म् अ॑श्मव॒र्म मे॑ ऽसि॒ यो मा॒ प्राच्या॑ दि॒शो ऽघा॒युर॑भि॒दासा॑त् । ए॒तत्स ऋ॑छात् ॥
ओ३म् अ॑श्मव॒र्म मे॑ ऽसि॒ यो मा॒ दक्षि॑णाया दि॒शो ऽघा॒युर॑भि॒दासा॑त् । ए॒तत्स ऋ॑छात् ॥
ओ३म् अ॑श्मव॒र्म मे॑ ऽसि॒ यो मा॑ प्र॒तीच्या॑ दि॒शो ऽघा॒युर॑भि॒दासा॑त् । ए॒तत्स ऋ॑छात् ॥
ओ३म् अ॑श्मव॒र्म मे॑ ऽसि॒ यो मोदी॑च्या दि॒शो ऽघा॒युर॑भि॒दासा॑त् । ए॒तत्स ऋ॑छात् ॥
ओ३म् अ॑श्मव॒र्म मे॑ ऽसि॒ यो मा॑ ध्रु॒वाया॑ दि॒शो ऽघा॒युर॑भि॒दासा॑त् । ए॒तत्स ऋ॑छात् ॥
ओ३म् अ॑श्मव॒र्म मे॑ ऽसि॒ यो मो॒र्ध्वाया॑ दि॒शो ऽघा॒युर॑भि॒दासा॑त् । ए॒तत्स ऋ॑छात् ॥
ओ३म् अ॑श्मव॒र्म मे॑ ऽसि॒ यो मा॑ दि॒शाम॑न्तर्दे॒शेभ्यो॑ ऽघा॒युर॑भि॒दासा॑त् । ए॒तत्स ऋ॑छात् ॥
ओ३म् बृ॑ह॒ता मन॒ उप॑ ह्वये मात॒रिश्व॑ना प्राणापा॒नौ । सूर्या॒च्चक्षु॑र॒न्तरि॑क्षा॒च्छ्रोत्रं॑ पृथि॒व्याः शरी॑रम् । सर॑स्वत्या॒ वाच॒मुप॑ ह्वयामहे मनो॒युजा॑ ॥
आत्मा सूक्त
ओ३म् दि॒वे स्वाहा॑ ॥
ओ३म् पृ॑थि॒व्यै स्वाहा॑ ॥
ओ३म् अ॒न्तरि॑क्षाय॒ स्वाहा॑ ॥
ओ३म् अ॒न्तरि॑क्षाय॒ स्वाहा॑ ॥
ओ३म् दि॒वे स्वाहा॑ ॥
ओ३म् पृ॑थि॒व्यै स्वाहा॑ ॥
ओ३म् सूर्यो॑ मे॒ चक्षु॒र्वातः॑ प्रा॒णो ऽन्तरि॑क्षमा॒त्मा पृ॑थि॒वी शरी॑रम् । अ॑स्तृ॒तो नामा॒हम॒यम॑स्मि॒ स आ॒त्मानं॒ नि द॑धे॒ द्यावा॑पृथि॒वीभ्यां॑ गोपी॒थाय॑ ॥
ओ३म् उदायु॒रुद्बल॒मुत्कृ॒तमुत्कृ॒त्यामुन्म॑नी॒षामुदि॑न्द्रि॒यम् । आयु॑ष्कृ॒दायु॑ष्पत्नी॒ स्वधा॑वन्तौ गो॒पा मे॑ स्तं गोपा॒यतं॑ मा । आ॑त्म॒सदौ॑ मे स्तं॒ मा मा॑ हिंसिष्टम् ॥
ओ३म् धी॒ती वा॒ ये अन॑यन्वा॒चो अग्रं॒ मन॑सा वा॒ ये ऽव॑दन्नृ॒तानि॑ । तृ॒तीये॑न॒ ब्रह्म॑णा वावृधा॒नास्तु॒रीये॑णामन्वत॒ नाम॑ धे॒नोः ॥
ओ३म् स वे॑द पु॒त्रः पि॒तरं॒ स मा॒तरं॒ स सू॒नुर्भु॑व॒त्स भु॑व॒त्पुन॑र्मघः । स द्यामौ॑र्णोद॒न्तरि॑क्षं॒ स्वः॒ स इ॒दं विश्व॑मभव॒त्स आभ॑रत् ॥
ओ३म् अथ॑र्वाणं पि॒तरं॑ दे॒वब॑न्धुं मा॒तुर्गर्भं॑ पि॒तुरसुं॒ युवा॑नम् । य इ॒मं य॒ज्ञम्मन॑सा चि॒केत॒ प्र णो॑ वोच॒स्तमि॒हेह ब्र॑वः ॥
ओ३म् अ॒या वि॒ष्ठा ज॒नय॒न्कर्व॑राणि॒ स हि घृणि॑रु॒रुर्वरा॑य गा॒तुः । स प्र॒त्युदै॑द्ध॒रुणं॒ मध्वो॒ अग्रं॒ स्वया॑ त॒न्वा॑ त॒न्व॑मैरयत ॥
ओ३म् य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् । ते ह॒ नाकं॑ महि॒मानः॑ सचन्त॒ यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः ॥
ओ३म् य॒ज्ञो ब॑भूव॒ स आ ब॑भूव॒ स प्र ज॑ज्ञे॒ स उ॑ वावृधे॒ पुनः॑ । स दे॒वाना॒मधि॑पतिर्बभूव॒ सो अ॒स्मासु॒ द्रवि॑ण॒मा द॑धातु ॥
ओ३म् यद्दे॒वा दे॒वान्ह॒विषा॑ ऽयज॒न्ताम॑र्त्या॒न्मन॒सा म॑र्त्येन । मदे॑म॒ तत्र॑ पर॒मे व्यो॑म॒न्पश्ये॑म॒ तदुदि॑तौ॒ सूर्य॑स्य ॥
ओ३म् यत्पुरु॑षेण ह॒विषा॑ य॒ज्ञं दे॒वा अत॑न्वत । अ॑स्ति॒ नु तस्मा॒दोजी॑यो॒ यद्वि॒हव्ये॑नेजि॒रे ॥
ओ३म् मु॒ग्धा दे॒वा उ॒त शुना ऽय॑जन्तो॒त गोरङ्गैः॑ पुरु॒धा ऽय॑जन्त । य इ॒मं य॒ज्ञं मन॑सा चि॒केत॒ प्र णो॑ वोच॒स्तमि॒हेह ब्र॑वः ॥
ओ३म् पुन॑र्मैत्विन्द्रि॒यं पुन॑रा॒त्मा द्रवि॑णं॒ ब्राह्म॑णं च । पुन॑र॒ग्नयो॒ धिष्ण्या॑ यथास्था॒म क॑ल्पयन्तामि॒हैव ॥
ओ३म् इन्द्र॑स्य कु॒क्षिर॑सि सोम॒धान॑ आ॒त्मा दे॒वाना॑मु॒त मानु॑षाणाम् । इ॒ह प्र॒जा ज॑नय॒ यास्त॑ आ॒सु या अ॒न्यत्रे॒ह तास्ते॑ रमन्ताम् ॥
ओ३म् अ॒स्य वा॒मस्य॑ पलि॒तस्य॒ होतु॒स्तस्य॒ भ्राता॑ मध्य॒मो अ॒स्त्यश्नः॑ । तृ॒तीयो॒ भ्राता॑ घृ॒तपृ॑ष्ठो अ॒स्यात्रा॑पश्यं वि॒श्पतिं॑ स॒प्तपु॑त्रम् ॥
ओ३म् स॒प्त यु॑ञ्जन्ति॒ रथ॒मेक॑चक्र॒मेको॒ अश्वो॑ वहति स॒प्तना॑मा । त्रि॒नाभि॑ च॒क्रम॒जर॑मन॒र्वं यत्रे॒मा विश्वा॒ भुव॒नाधि॑ त॒स्थुः ॥
ओ३म् इ॒मं रथ॒मधि॒ ये स॒प्त त॒स्थुः स॒प्तच॑क्रं स॒प्त व॑ह॒न्त्यश्वाः॑ । स॒प्त स्वसा॑रो अ॒भि सं न॑वन्त॒ यत्र॒ गवा॒म्निहि॑ता स॒प्त नाम॑ ॥
ओ३म् को द॑दर्श प्रथ॒मं जाय॑मानमस्थ॒न्वन्तं॒ यद॑न॒स्था बिभ॑र्ति । भूम्या॒ असु॒रसृ॑गा॒त्मा क्व॑ स्वि॒त्को वि॒द्वांस॒मुप॑ गा॒त्प्रष्टु॑मे॒तत् ॥
ओ३म् इ॒ह ब्र॑वीतु॒ य ई॑म॒ङ्ग वेदा॒स्य वा॒मस्य॒ निहि॑तं प॒दं वेः । शी॒र्ष्णः क्षी॒रं दु॑ह्रते॒ गावो॑ अस्य व॒व्रिं वसा॑ना उद॒कं प॒दा ऽपुः॑ ॥
ओ३म् पाकः॑ पृछामि॒ मन॒सा ऽवि॑जानन्दे॒वाना॑मे॒ना निहि॑ता प॒दानि॑ । व॒त्से ब॒ष्कये ऽधि॑ स॒प्त तन्तू॒न्वि त॑त्निरे क॒वय॒ ओत॒वा उ॑ ॥
ओ३म् अचि॑कित्वांस्चिकि॒तुष॑श्चि॒दत्र॑ क॒वीन्पृ॑छामि वि॒द्वनो॒ न वि॒द्वान् । वि यस्त॒स्तम्भ॒ षटि॒मा रजां॑स्य॒जस्य॑ रू॒पे किं अपि॑ स्वि॒देक॑म् ॥
ओ३म् मा॒ता पि॒तर॑मृ॒त आ ब॑भाज ऽधी॒त्यग्रे॒ मन॑सा॒ सं हि ज॒ग्मे । सा बी॑भ॒त्सुर्गर्भ॑रसा॒ निवि॑द्धा॒ नम॑स्वन्त॒ इदु॑पवा॒कमी॑युः ॥
ओ३म् यु॒क्ता मा॒तासि॑द्धु॒रि दक्षि॑णाया॒ अति॑ष्ठ॒द्गर्भो॑ वृज॒नीष्व॒न्तः । अमी॑मेद्व॒त्सो अनु॒ गाम॑पश्यद्विश्वरू॒प्यं॑ त्रि॒षु योग॑नेषु ॥
ओ३म् ति॒स्रो म॒तॄस्त्रीन्पि॒तॄन्बिभ्र॒देक॑ उ॒र्ध्वस्त॑स्थौ॒ नेमव॑ ग्लापयन्त । म॒न्त्रय॑न्ते दि॒वो अ॒मुष्य॑ पृ॒ष्ठे वि॑श्व॒विदो॒ वाच॒मवि॑श्वविन्नाम् ॥
ओ३म् पञ्चा॑रे च॒क्रे प॑रि॒वर्त॑माने॒ यस्मि॑न्नात॒स्थुर्भुव॑नानि॒ विश्वा॑ । तस्य॒ नाक्ष॑स्तप्यते॒ भूरि॑भारः स॒नादे॒व न छि॑द्यते॒ सना॑भिः ॥
ओ३म् पञ्च॑पादं पि॒तरं॒ द्वाद॑शाकृतिं दि॒व आ॑हुः॒ परे॒ अर्धे॑ पुरी॒षिण॑म् । अथे॒मे अ॒न्य उप॑रे विचक्ष॒णे स॒प्तच॑क्रे॒ षड॑र आहु॒रर्पि॑तम् ॥
ओ३म् द्वाद॑शारं न॒हि तज्जरा॑य॒ वर्व॑र्ति च॒क्रं परि॒ द्यामृ॒तस्य॑ । आ पु॒त्रा अ॑ग्ने मिथु॒नासो॒ अत्र॑ स॒प्त श॒तानि॑ विंश॒तिश्च॑ तस्थुः ॥
ओ३म् सने॑मि च॒क्रम॒जरं॒ वि व॑वृत उत्ता॒नायां॒ दश॑ यु॒क्ता व॑हन्ति । सूर्य॑स्य॒ चक्षू॒ रज॑सै॒त्यावृ॑तं॒ यस्मि॑न्नात॒स्थुर्भुव॑नानि॒ विश्वा॑ ॥
ओ३म् स्त्रियः॑ स॒तीस्तामु॑ मे पुं॒सः आ॑हुः॒ पश्य॑दक्ष॒ण्वान्न्वि चे॑तद॒न्धः । क॒विर्यः पु॒त्रः स ई॒मा चि॑केत॒ यस्ता वि॑जा॒नात्स पि॒तुष्पि॒तास॑त् ॥
ओ३म् सा॑कं॒जानां॑ स॒प्तथ॑माहुरेक॒जं षडिद्य॒मा ऋष॑यो देव॒जा इति॑ । तेषा॑मि॒ष्टानि॒ विहि॑तानि धाम॒श स्था॒त्रे रे॑जन्ते॒ विकृ॑तानि रूप॒शः ॥
ओ३म् अ॒वः परे॑ण प॒र ए॒ना अव॑रेण प॒दा व॒त्सं बिभ्र॑ती॒ गौरुद॑स्थात् । सा क॒द्रीची॒ कं स्वि॒दर्धं॒ परा॑गा॒त्क्व॑ स्वित्सूते न॒हि यू॒थे अ॒स्मिन् ॥
ओ३म् अ॒वः परे॑ण पि॒तरं॒ यो अ॑स्य॒ वेदा॒वः परे॑ण प॒र ए॒नाव॑रेण । क॑वी॒यमा॑नः॒ क इ॒ह प्र वो॑चद्दे॒वं मनः॒ कुतो॒ अधि॒ प्रजा॑तम् ॥
ओ३म् ये अ॒र्वाञ्च॒स्तामु॒ परा॑च आहु॒र्ये परा॑ञ्च॒स्ताँ उ॑ अ॒र्वाच॑ आहुः । इन्द्र॑श्च॒ या च॒क्रथुः॑ सोम॒ तानि॑ धु॒रा न यु॒क्ता रज॑सो वहन्ति ॥
ओ३म् द्वा सु॑प॒र्णा स॒युजा॒ सखा॑या समा॒नं वृ॒क्षं परि॑ षस्वजाते । तयो॑र॒न्यः पिप्प॑लं स्वा॒द्वत्त्यन॑श्नन्न॒न्यो अ॒भि चा॑कशीति ॥
ओ३म् यस्मि॑न्वृ॒क्षे म॒ध्वदः॑ सुप॒र्णा नि॑वि॒शन्ते॒ सुव॑ते॒ चाधि॒ विश्वे॑ । तस्य॒ यदा॒हुः पिप्प॑लं स्वा॒द्वग्रे॒ तन्नोन्न॑श॒द्यः पि॒तरं॒ न वेद॑ ॥
ओ३म् यत्रा॑ सुप॒र्णा अ॒मृत॑स्य भ॒क्षमनि॑मेषं वि॒दथा॑भि॒स्वर॑न्ति । ए॒ना विश्व॑स्य॒ भुव॑नस्य गो॒पाः स मा॒ धीरः॒ पाक॒मत्रा वि॑वेश ॥
ओ३म् यद्गा॑य॒त्रे अधि॑ गाय॒त्रमाहि॑तं॒ त्रैष्टु॑भं वा॒ त्रैष्टु॑भान्नि॒रत॑क्षत । यद्वा॒ जग॒ज्जग॒त्याहि॑तं प॒दं य इत्तद्वि॒दुस्ते अ॑मृत॒त्वमा॑नुशुः ॥
ओ३म् गा॑य॒त्रेण॒ प्रति॑ मिमीते अ॒र्कम॒र्केण॒ साम॒ त्रैष्टु॑भेन वा॒कम् । वा॒केन॑ वा॒कं द्वि॒पदा॒ चतु॑ष्पदा॒क्षरे॑ण मिमते स॒प्त वाणीः॑ ॥
ओ३म् जग॑ता॒ सिन्धुं॑ दि॒व्य॑स्कभायद्रथंत॒रे सूर्यं॒ पर्य॑पश्यत् । गा॑य॒त्रस्य॑ स॒मिध॑स्ति॒स्र आ॑हु॒स्ततो॑ म॒ह्ना प्र रि॑रिचे महि॒त्वा ॥
ओ३म् उप॑ ह्वये सु॒दुघां॑ धे॒नुमे॒तां सु॒हस्तो॑ गो॒धुगु॒त दो॑हदेनाम् । श्रेष्ठं॑ स॒वं स॑वि॒ता सा॑विषन्नो॒ ऽभीद्धो॑ घ॒र्मस्तदु॒ षु प्र वो॑चत् ॥
ओ३म् हि॑ङ्कृण्व॒ती व॑सु॒पत्नी॒ वसू॑नां व॒त्समि॒छन्ती॒ मन॑सा॒भ्यागा॑त् । दु॒हाम॒श्विभ्यां॒ पयो॑ अ॒घ्न्येयं सा व॑र्धतां मह॒ते सौभ॑गाय ॥
ओ३म् गौर॑मीमेद॒भि व॒त्सं मि॒षन्तं॑ मू॒र्धानं॒ हिङ्ङ॑कृणोन्मात॒वा उ॑ । सृक्वा॑णं घ॒र्मम॒भि वा॑वशा॒ना मिमा॑ति मा॒युं पय॑ते॒ पयो॑भिः ॥
ओ३म् अ॒यं स शि॑ङ्क्ते॒ येन॒ गौर॒भिवृ॑ता॒ मिमा॑ति म॒युं ध्व॒सना॒वधि॑ श्रि॒ता । सा चि॒त्तिभि॒र्नि हि च॒कार॒ मर्त्या॑न्वि॒द्युद्भव॑न्ती॒ प्रति॑ व॒व्रिमौ॑हत ॥
ओ३म् अ॒नच्छ॑ये तु॒रगा॑तु जी॒वमेज॑द्ध्रु॒वं मध्य॒ आ प॒स्त्या॑नाम् । जी॒वो मृ॒तस्य॑ चरति स्व॒धाभि॒रम॑र्त्यो॒ मर्त्ये॑ना॒ सयो॑निः ॥
ओ३म् वि॒धुं द॑द्रा॒णं स॑लि॒लस्य॑ पृ॒ष्ठे युवा॑नं॒ सन्तं॑ पलि॒तो ज॑गार । दे॒वस्य॑ पश्य॒ काव्यं॑ महि॒त्वाद्य म॒मार॒ स ह्यः समा॑न ॥
ओ३म् य ईं॑ च॒कार॒ न सो अ॒स्य वे॑द॒ य ईं॑ द॒दर्श॒ हिरु॒गिन्नु तस्मा॑त् । स मा॒तुर्योना॒ परि॑वीतो अ॒न्तर्ब॑हुप्र॒जा निरृ॑ति॒रा वि॑वेश ॥
ओ३म् अप॑श्यं गो॒पाम॑नि॒पद्य॑मान॒मा च॒ परा॑ च प॒थिभि॒श्चर॑न्तम् । स स॒ध्रीचीः॒ स विषू॑ची॒र्वसा॑न॒ आ व॑रीवर्ति॒ भुव॑नेष्व॒न्तः ॥
ओ३म् द्यौर्नः॑ पि॒ता ज॑नि॒ता नाभि॒रत्र॒ बन्धु॑र्नो मा॒ता पृ॑थि॒वी म॒हीयम् । उ॑त्ता॒नयो॑श्च॒म्वो॑३र्योनि॑र॒न्तरत्रा॑ पि॒ता दु॑हि॒तुर्गर्भ॒माधा॑त् ॥
ओ३म् पृ॒छामि॑ त्वा॒ पर॒मन्तं॑ पृथि॒व्याः पृ॒छामि॒ वृष्णो॒ अश्व॑स्य॒ रेतः॑ । पृ॒छामि॒ विश्व॑स्य॒ भुव॑नस्य॒ नाभिं॑ पृ॒छामि॑ वा॒चः प॑र॒मं व्यो॑म ॥
ओ३म् इ॒यं वेदिः॒ परो॒ अन्तः॑ पृथि॒व्या अ॒यं सोमो॒ वृष्णो॒ अश्व॑स्य॒ रेतः॑ । अ॒यं य॒ज्ञो विश्व॑स्य॒ भुव॑नस्य॒ नाभि॑र्ब्र॒ह्मायं वा॒चः प॑र॒मं व्यो॑म ॥
ओ३म् न वि जा॑नामि॒ यदि॑वे॒दमस्मि॑ नि॒ण्यः संन॑द्धो॒ मन॑सा चरामि । य॒दा माग॑न्प्रथम॒जा ऋ॒तस्यादिद्वा॒चो अ॑श्नुवे भा॒गम॒स्याः ॥
ओ३म् अपा॒ङ्प्राङे॑ति स्व॒धया॑ गृभी॒तो ऽम॑र्त्यो॒ मर्त्ये॑ना॒ सयो॑निः । ता शश्व॑न्ता विषू॒चीना॑ वि॒यन्ता॒ न्य॒न्यं चि॒क्युर्न नि चि॑क्युर॒न्यम् ॥
ओ३म् स॒प्तार्ध॑ग॒र्भा भुव॑नस्य॒ रेतो॒ विष्णो॑स्तिष्ठन्ति प्र॒दिशा॒ विध॑र्मणि । ते धी॒तिभि॒र्मन॑सा॒ ते वि॑प॒श्चितः॑ परि॒भुवः॒ परि॑ भवन्ति वि॒श्वतः॑ ॥
ओ३म् ऋ॒चो अ॒क्षरे॑ पर॒मे व्यो॑म॒न्यस्मि॑न्दे॒वा अधि॒ विश्वे॑ निषे॒दुः । यस्तन्न वेद॒ किमृ॒चा क॑रिष्यति॒ य इत्तद्वि॒दुस्ते॑ अ॒मी समा॑सते ॥
ओ३म् ऋ॒चः प॒दं मात्र॑या क॒ल्पय॑न्तो ऽर्ध॒र्चेन॑ चक्ळृपु॒र्विश्व॒मेज॑त् । त्रि॒पाद्ब्रह्म॑ पुरु॒रूपं॒ वि त॑ष्ठे॒ तेन॑ जीवन्ति प्र॒दिश॒श्चत॑स्रः ॥
ओ३म् सू॑यव॒साद्भग॑वती॒ हि भू॒या अधा॑ व॒यं भग॑वन्तः स्याम । अ॒द्धि तृण॑मघ्न्ये विश्व॒दानीं॒ पिब॑ शु॒द्धमु॑द॒कमा॒चर॑न्ती ॥
ओ३म् गौरिन्मि॑माय सलि॒लानि॒ तक्ष॑ती॒ एक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी । अ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी॑ स॒हस्रा॑क्षरा॒ भुव॑नस्य प॒ङ्क्तिस्तस्याः॑ समु॒द्रा अधि॒ वि क्ष॑रन्ति ॥
ओ३म् कृ॒ष्णं नि॒यानं॒ हर॑यः सुप॒र्णा अ॒पो वसा॑ना॒ दिव॒मुत्प॑तन्ति । तं आव॑वृत्र॒न्त्सद॑नादृ॒तस्यादिद्घृ॒तेन॑ पृथि॒वीं व्यू॑दुः ॥
ओ३म् अ॒पादे॑ति प्रथ॒मा प॒द्वती॑नां॒ कस्तद्वां॑ मित्रावरु॒णा चि॑केत । गर्भो॑ भा॒रं भ॑र॒त्या चि॑दस्या ऋ॒तं पिप॑र्ति॒ अनृ॑तं॒ नि पा॑ति ॥
ओ३म् वि॒राड्वाग्वि॒राट्पृ॑थि॒वी वि॒राड॒न्तरि॑क्षं वि॒राट्प्र॒जाप॑तिः । वि॒राण्मृ॒त्युः सा॒ध्याना॑मधिरा॒जो ब॑भूव॒ तस्य॑ भू॒तं भव्यं॒ वशे॒ स मे॑ भू॒तं भव्यं॒ वशे॑ कृणोतु ॥
ओ३म् श॑क॒मयं॑ धू॒ममा॒राद॑पश्यं विषू॒वता॑ प॒र ए॒नाव॑रेण । उ॒क्षाणं॒ पृश्नि॑मपचन्त वी॒रास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ॥
ओ३म् त्रयः॑ के॒शिन॑ ऋतु॒था वि च॑क्षते संवत्स॒रे व॑पत॒ एक॑ एषाम् । विश्व॑म॒न्यो अ॑भि॒चष्टे॒ शची॑भि॒र्ध्राजि॒रेक॑स्य ददृशे॒ न रू॒पम् ॥
ओ३म् च॒त्वारि॒ वाक्परि॑मिता प॒दानि॒ तानि॑ विदुर्ब्राह्म॒णा ये म॑नी॒षिणः॑ । गुहा॒ त्रीणि॒ निहि॑ता॒ नेङ्ग॑यन्ति तु॒रीयं॑ वा॒चो म॑नु॒ष्या॑ वदन्ति ॥
ओ३म् इन्द्रं॑ मि॒त्रं वरु॑णम॒ग्निमा॑हु॒रथो॑ दि॒व्यः स सु॑प॒र्णो ग॒रुत्मा॑न् । ए॒कं सद्विप्रा॑ बहु॒धा व॑दन्त्य॒ग्निं य॒मं मा॑तरिश्वानमाहुः ॥
ओ३म् अयु॑तो॒ ऽहमयु॑तो म आ॒त्मायु॑तं मे॒ चक्षु॒रयु॑तं मे॒ श्रोत्र॑म् । अयु॑तो मे प्रा॒णो ऽयु॑तो मे ऽपा॒नो ऽयु॑तो मे व्या॒नो ऽयु॑तो॒ ऽहं सर्वः॑ ॥
Friday, 18 June 2021
Remove Fever
ओ३म् यद॒ग्निरापो॒ अद॑हत्प्र॒विश्य॒ यत्राकृ॑ण्वन्धर्म॒धृतो॒ नमां॑सि । तत्र॑ त आहुः पर॒मं ज॒नित्रं॒ स नः॑ संवि॒द्वान्परि॑ वृङ्ग्धि तक्मन् ॥
ओ३म् यद्य॒र्चिर्यदि॒ वासि॑ शो॒चिः श॑कल्ये॒षि यदि॑ वा ते ज॒नित्र॑म् । ह्रूडु॒र्नामा॑सि हरितस्य देव॒ स नः॑ संवि॒द्वान्परि॑ वृङ्ग्धि तक्मन् ॥
ओ३म् यदि॑ शो॒को यदि॑ वाभिशो॒को यदि॑ वा॒ राज्ञो॒ वरु॑ण॒स्यासि॑ पु॒त्रः । ह्रूडु॒र्नामा॑सि हरितस्य देव॒ स नः॑ संवि॒द्वान्परि॑ वृङ्ग्धि तक्मन् ॥
ओ३म् नमः॑ शी॒ताय॑ त॒क्मने॒ नमो॑ रू॒राय॑ शो॒चिषे॑ कृणोमि । यो अ॑न्ये॒द्युरु॑भय॒द्युर॒भ्येति॒ तृती॑यकाय॒ नमो॑ अस्तु त॒क्मने॑ ॥
शाबर काली मंत्र
शाबर काली मंत्र-1
शाबर काली मंत्र-2
काली काली महा-काली, इन्द्र की बेटी, ब्रह्मा की साली। पीती भर भर रक्त प्याली, उड़ बैठी पीपल की डाली। दोनों हाथ बजाए ताली। जहाँ जाए वज्र की ताली, वहाँ ना आए दुश्मन हाली। दुहाई कामरो कामाख्या नैना योगिनी की, ईश्वर महादेव गोरा पार्वती की, दुहाई वीर मसान की।।
शाबर काली मंत्र-3
काली काली महा-काली, इन्द्र की बेटी, ब्रह्मा की साली। पीती भर भर रक्त प्याली, उड़ बैठी पीपल की डाली। दोनों हाथ बजाए ताली। भूत वेताल दोउ
को मारे, जहाँ जाए वज्र
की ताली, । शबद साँचा पिंड कांचा, फुरो मन्त्र ईश्वरो वाचा ।
Wednesday, 16 June 2021
आत्मविद्या सूक्त
आत्मविद्या सूक्त
वेनऋषि , आत्मादेवता, त्रिष्टुप्छन्द ।
ओ३म् य आ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः । यो॑३ ऽस्येशे॑ द्वि॒पदो॒ यश्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
ओ३म् यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैको॒ राजा॒ जग॑तो ब॒भूव॑ । यस्य॑ छा॒यामृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
ओ३म् यं क्रन्द॑सी॒ अव॑तश्चस्कभा॒ने भि॒यसा॑ने॒ रोद॑सी॒ अह्व॑येथाम् । यस्या॒सौ पन्था॒ रज॑सो वि॒मानः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
ओ३म् यस्य॒ द्यौरु॒र्वी पृ॑थि॒वी च॑ म॒ही यस्या॒द उ॒र्व॒न्तरि॑क्षम् । यस्या॒सौ सूरो॒ वित॑तो महि॒त्वा कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
ओ३म् यस्य॒ विश्वे॑ हि॒मव॑न्तो महि॒त्वा स॑मु॒द्रे यस्य॑ र॒सामिदा॒हुः । इ॒माश्च॑ प्र॒दिशो॒ यस्य॑ बा॒हू कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
ओ३म् आपो॒ अग्रे॒ विश्व॑माव॒न्गर्भं॒ दधा॑ना अ॒मृता॑ ऋत॒ज्ञाः । यासु॑ दे॒वीष्वधि॑ दे॒व आसी॒त्कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
ओ३म् हि॑रण्यग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् । स दा॑धार पृथि॒वीमु॒त द्यां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
ओ३म् आपो॑ व॒त्सं ज॒नय॑न्ती॒र्गर्भ॒मग्रे॒ समै॑रयन् । तस्यो॒त जाय॑मान॒स्योल्ब॑ आसीद्धिर॒ण्ययः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
विषघ्नसूक्तम्
विषघ्नसूक्तम्
मा बिभेर्न मरिष्यसि परित्वापामि सर्वतः । घनेन हन्मि वृश्चिकमहिदण्डेनागतं
आदित्यरथवेगेन विष्णुबाहुबलेन च ।गरुडपक्षनिपातेन भूमिं गच्छ महायशाः
गरुडस्य जातमात्रेण त्रयो लोकाः प्रकम्पिताः ।प्रकम्पिता मही सर्वा सशैलवनकानना
गगनं नष्टचन्द्रार्कं ज्योतिषं न प्रकाशते ।
देवताभयभीताश्च मारुतो न प्लवायति मारुतो न प्लवायत्यों नमः
भो सर्पभद्र भद्रं ते दूरं गच्छ महायशाः ।जनमेजयस्य यज्ञान्ते आस्तीकवचनं स्मर
आस्तीकवचनं श्रुत्वा यः सर्पो न निवर्तते ।शतधा भिद्यते मूर्ध्नि शिंशवृक्षफलं यथा
नर्मदायै नमः प्रातर्नर्मदायै नमो निशि ।नमोस्तु नर्मदे तुभ्यं त्राहि मां विषसर्पतः
यो जरत्कारुणा जातो जरत्कन्यां महायशाः ।तस्य सर्पापभद्रं ते दूरं गच्छ महायशाः
Wednesday, 26 May 2021
यक्ष्मनाशन सूक्त (2)
यक्ष्मनाशन सूक्त (2)
ऋषि अथर्वा
देवता गुल्गुल
अनुष्टुप् आदि नाना छन्दांसि
ओ३म् न तं यक्ष्मा॒ अरु॑न्धते॒ नैनं॑ श॒पथो॑ अश्नुते । यं भे॑ष॒जस्य॑ गुल्गु॒लोः सु॑र॒भिर्ग॒न्धो अ॑श्नु॒ते ॥
ओ३म् विष्व॑ञ्च॒स्तस्मा॒द्यक्ष्मा॑ मृ॒गा अश्वा॑ इवेरते । यद्गु॑ल्गु॒लु सै॑न्ध॒वं यद्वाप्यसि॑ समु॒द्रिय॑म् ॥
ओ३म् उ॒भयो॑रग्रभं॒ नामा॒स्मा अ॑रि॒ष्टता॑तये ॥
यक्ष्मनाशन सूक्त (1)
यक्ष्मनाशन सूक्त (1)
ऋषि भृग्वङ्गिरा, ब्रह्मा, अथर्वा
देवता हरिण, तारागण, अग्नि, इन्द्र, सूर्य,आयु, त्वष्टा, वनस्पति, द्यावापृथिवी, आपः
अनुष्टुप् आदि नाना छन्दांसि
ओ३म् ह॑रि॒णस्य॑ रघु॒ष्यदो ऽधि॑ शी॒र्षणि॑ भेष॒जम् । स क्षे॑त्रि॒यं वि॒षाण॑या विषू॒चीन॑मनीनशत् ॥
ओ३म् अनु॑ त्वा हरि॒णो वृषा॑ प॒द्भिश्च॒तुर्भि॑रक्रमीत् । विषा॑णे॒ वि ष्य॑ गुष्पि॒तं यद॑स्य क्षेत्रि॒यं हृ॒दि ॥
ओ३म् अ॒दो यद॑व॒रोच॑ते॒ चतु॑ष्पक्षमिव छ॒दिः । तेना॑ ते॒ सर्वं॑ क्षेत्रि॒यमङ्गे॑भ्यो नाशयामसि ॥
ओ३म् अ॒मू ये दि॒वि सु॒भगे॑ वि॒चृतौ॒ नाम॒ तार॑के । वि क्षे॑त्रि॒यस्य॑ मुञ्चतामध॒मं पाश॑मुत्त॒मम् ॥
ओ३म् आप॒ इद्वा उ॑ भेष॒जीरापो॑ अमीव॒चात॑नीः । आपो॒ विश्व॑स्य भेष॒जीस्तास्त्वा॑ मुञ्चन्तु क्षेत्रि॒यात् ॥
ओ३म् यदा॑सु॒तेः क्रि॒यमा॑नायाः क्षेत्रि॒यं त्वा॑ व्यान॒शे । वेदा॒हं तस्य॑ भेष॒जं क्षे॑त्रि॒यं ना॑शयामि॒ त्वत् ॥
ओ३म् अ॑पवा॒से नक्ष॑त्राणामपवा॒स उ॒षसा॑मु॒त । अपा॒स्मत्सर्वं॑ दुर्भू॒तमप॑ क्षेत्रि॒यमु॑छतु ॥
ओ३म् वि दे॒वा ज॒रसा॑वृत॒न्वि त्वम॑ग्ने॒ अरा॑त्या । व्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ॥
ओ३म् व्यार्त्या॒ पव॑मानो॒ वि श॒क्रः पा॑पकृ॒त्यया॑ । व्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ॥
ओ३म् वि ग्रा॒म्याः प॒शव॑ आर॒ण्यैर्व्याप॒स्तृष्ण॑यासरन् । व्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ॥
ओ३म् वी॑३ मे द्यावा॑पृथि॒वी इ॒तो वि पन्था॑नो॒ दिशं॑दिशम् । व्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ॥
ओ३म् त्वष्टा॑ दुहि॒त्रे व॑ह॒तुं यु॑न॒क्तीती॒दं विश्वं॒ भुव॑नं॒ वि या॑ति । व्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ॥
ओ३म् अ॒ग्निः प्रा॒णान्त्सं द॑धाति च॒न्द्रः प्रा॒णेन॒ संहि॑तः । व्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ॥
ओ३म् प्रा॒णेन॑ वि॒श्वतो॑वीर्यं दे॒वाः सूर्यं॒ समै॑रयन् । व्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ॥
ओ३म् आयु॑ष्मतामायु॒ष्कृतां॑ प्रा॒णेन॑ जीव॒ मा मृ॑थाः । व्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ॥
ओ३म् प्रा॒णेन॑ प्राण॒तां प्राणे॒हैव भ॑व॒ मा मृ॑थाः । व्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ॥
ओ३म् उदायु॑षा॒ समायु॒षोदोष॑धीनां॒ रसे॑न । व्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ॥
ओ३म् आ प॒र्जन्य॑स्य वृ॒ष्ट्योद॑स्थामा॒मृता॑ व॒यम् । व्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ॥
ओ३म् अ॒ग्नेरि॒वास्य॒ दह॑त एति शु॒ष्मिण॑ उ॒तेव॑ म॒त्तो वि॒लप॒न्नपा॑यति । अ॒न्यम॒स्मदि॑छतु॒ कं चि॑दव्र॒तस्तपु॑र्वधाय॒ नमो॑ अस्तु त॒क्मने॑ ॥
ओ३म् नमो॑ रु॒द्राय॒ नमो॑ अस्तु त॒क्मने॒ नमो॒ राज्ञे॒ वरु॑णाय॒ त्विषी॑मते । नमो॑ दि॒वे नमः॑ पृथि॒व्यै नम॒ ओष॑धीभ्यः ॥
ओ३म् अ॒यं यो अ॑भिशोचयि॒ष्णुर्विश्वा॑ रू॒पाणि॒ हरि॑ता कृ॒णोषि॑ । तस्मै॑ ते ऽरु॒णाय॑ ब॒भ्रवे॒ नमः॑ कृणोमि॒ वन्या॑य त॒क्मने॑ ॥
ओ३म् व॑र॒णो वा॑रयाता अ॒यं दे॒वो वन॒स्पतिः॑ । यक्ष्मो॒ यो अ॒स्मिन्नावि॑ष्ट॒स्तमु॑ दे॒वा अ॑वीवरन् ॥
ओ३म् इन्द्र॑स्य॒ वच॑सा व॒यं मि॒त्रस्य॒ वरु॑णस्य च । दे॒वानां॒ सर्वे॑षां वा॒चा यक्ष्मं॑ ते वारयामहे ॥
ओ३म् यथा॑ वृ॒त्र इ॒मा आप॑स्त॒स्तम्भ॑ वि॒श्वधा॑ य॒तीः ।ए॒वा ते॑ अ॒ग्निना॒ यक्ष्मं॑ वैश्वान॒रेण॑ वारये ॥
ओ३म् इ॒मं यव॑मष्टायो॒गैः ष॑द्यो॒गेभि॑रचर्कृषुः । तेना॑ ते त॒न्वो॑३ रपो॑ ऽपा॒चीन॒मप॑ व्यये ॥
ओ३म् न्य॑१ग्वातो॑ वाति॒ न्य॑क्तपति॒ सूर्यः॑ । नी॒चीन॑म॒घ्न्या दु॑हे॒ न्य॑ग्भवतु ते॒ रपः॑ ॥
ओ३म् आप॒ इद्वा उ॑ भेष॒जीरापो॑ अमीव॒चात॑नीः । आपो॒ विश्व॑स्य भेष॒जीस्तास्ते॑ कृण्वन्तु भेष॒जम् ॥
ओ३म् वि॑द्र॒धस्य॑ ब॒लास॑स्य॒ लोहि॑तस्य वनस्पते । वि॒सल्प॑कस्योषधे॒ मोच्छि॑षः पिशि॒तं च॒न ॥
ओ३म् यौ ते॑ बलास॒ तिष्ठ॑तः॒ कक्षे॑ मु॒ष्कावप॑श्रितौ । वेदा॒हं तस्य॑ भेष॒जं ची॒पुद्रु॑रभि॒चक्ष॑णम् ॥
ओ३म् यो अङ्ग्यो॒ यः कर्ण्यो॒ यो अ॒क्ष्योर्वि॒सल्प॑कः । वि वृ॑हामो वि॒सल्प॑कं विद्र॒धं हृ॑दयाम॒यम् । परा॒ तमज्ञा॑त॒म्यक्ष्म॑मध॒राञ्चं॑ सुवामसि ॥
यक्ष्माविबर्हण सूक्त
यक्ष्माविबर्हण सूक्त
ऋषि ब्रह्मा
देवता यक्ष्मविबर्हण सूक्त,(पृथक्करण) चन्द्रमा, आयुष्य
अनुष्टुप् आदि नाना छन्दांसि
ओ३म् अ॒क्षीभ्यां॑ ते॒ नासि॑काभ्यां॒ कर्णा॑भ्यां॒ छुबु॑का॒दधि॑ । यक्ष्मं॑ शीर्ष॒ण्यं॑ म॒स्तिष्का॑ज्जि॒ह्वाया॒ वि वृ॑हामि ते ॥
ओ३म् ग्री॒वाभ्य॑स्त उ॒ष्णिहा॑भ्यः॒ कीक॑साभ्यो अनू॒क्या॑त् । यक्ष्मं॑ दोष॒न्य॑१मंसा॑भ्यां बा॒हुभ्यां॒ वि वृ॑हामि ते ॥
ओ३म् हृद॑यात्ते॒ परि॑ क्लो॒म्नो हली॑क्ष्णात्पा॒र्श्वाभ्या॑म् । यक्ष्मं॒ मत॑स्नाभ्यां प्ली॒ह्नो य॒क्नस्ते॒ वि वृ॑हामसि ॥
ओ३म् आ॒न्त्रेभ्य॑स्ते॒ गुदा॑भ्यो वनि॒ष्ठोरु॒दरा॒दधि॑ । यक्ष्मं॑ कु॒क्षिभ्या॑म्प्ला॒शेर्नाभ्या॒ वि वृ॑हामि ते ॥
ओ३म् ऊ॒रुभ्यां॑ ते अष्ठी॒वद्भ्यां॒ पार्ष्णि॑भ्यां॒ प्रप॑दाभ्याम् । यक्ष्मं॑ भस॒द्य॑१ श्रोणि॑भ्यां॒ भास॑दं॒ भंस॑सो॒ वि वृ॑हामि ते ॥
ओ३म् अ॒स्थिभ्य॑स्ते म॒ज्जभ्यः॒ स्नाव॑भ्यो ध॒मनि॑भ्यः । यक्ष्म॑म्पा॒णिभ्या॑म॒ङ्गुलि॑भ्यो न॒खेभ्यो॒ वि वृ॑हामि ते ॥
ओ३म् अङ्गेअ॑ङ्गे॒ लोम्नि॑लोम्नि॒ यस्ते॒ पर्व॑णिपर्वणि । यक्ष्मं॑ त्वच॒स्यं॑ ते व॒यं क॒श्यप॑स्य वीब॒र्हेण॒ विष्व॑ञ्चं॒ वि वृ॑हामसि ॥