वशागौ सूक्त
ओ3म् नमस्ते जायमानायै जाताया उत ते नमः । बालेभ्यः शफेभ्यो रूपायाघ्न्ये ते नमः
ओ3म् यो विद्यात्सप्त प्रवतः सप्त विद्यात्परावतः । शिरो यज्ञस्य यो विद्यात्स वशां प्रति गृह्णीयात्
ओ3म् वेदाहं सप्त प्रवतः सप्त वेद परावतः । शिरो यज्ञस्याहं वेद सोमं चास्यां विचक्षणम्
ओ3म् यया द्यौर्यया पृथिवी ययापो गुपिता इमाः । वशां सहस्रधारां ब्रह्मणाछावदामसि
ओ3म् शतं कंसाः शतं दोग्धारः शतं गोप्तारो अधि पृष्ठे अस्याः । ये देवास्तस्यां प्राणन्ति ते वशां विदुरेकधा
ओ3म् यज्ञपदीराक्षीरा स्वधाप्राणा महीलुका । वशा पर्जन्यपत्नी देवामप्येति ब्रह्मणा
ओ3म् अनु त्वाग्निः प्राविशदनु सोमो वशे त्वा । ऊधस्ते भद्रे पर्जन्यो विद्युतस्ते स्तना वशे
ओ3म् अपस्त्वं धुक्षे प्रथमा उर्वरा अपरा वशे । तृतीयं राष्ट्रं धुक्षेऽन्नं क्षीरं वशे त्वम्
ओ3म् यदादित्यैर्हूयमानोपातिष्ठ ऋतवरि । इन्द्रः सहस्रं पात्रान्त्सोमं त्वापाययद्वशे
ओ3म् यदनूचीन्द्रमैरात्त्वा ऋषभोऽह्वयत्। तस्मात्ते वृत्रहा पयः क्षीरं क्रुद्धोऽहरद्वशे
ओ3म् यत्ते क्रुद्धो धनपतिरा क्षीरमहरद्वशे । इदं तदद्य नाकस्त्रिषु पात्रेषु रक्षति
ओ3म् त्रिषु पात्रेषु तं सोममा देव्यहरद्वशा । अथर्वा यत्र दीक्षितो बर्हिष्यास्त हिरण्यये
ओ3म् सं हि सोमेनागत समु सर्वेण पद्वता । वशा समुद्रमध्यष्ठद्गन्धर्वैः कलिभिः सह
ओ3म् सं हि वातेनागत समु सर्वैः पतत्रिभिः । वशा समुद्रे प्रानृत्यदृचः सामानि बिभ्रती
ओ3म् सं हि सूर्येणागत समु सर्वेण चक्षुषा । वशा समुद्रमत्यख्यद्भद्रा ज्योतींषि बिभ्रती
ओ3म् अभीवृता हिरण्येन यदतिष्ठ ऋतावरि । अश्वः समुद्रो भूत्वाध्यस्कन्दद्वशे त्वा
ओ3म् तद्भद्राः समगछन्त वशा देर्ष्ट्यथो स्वधा । अथर्वा यत्र दीक्षितो बर्हिष्यास्त हिरण्यये
ओ3म् वशा माता राजन्यस्य वशा माता स्वधे तव । वशाया यज्ञ आयुधं ततश्चित्तमजायत
ओ3म् ऊर्ध्वा बिन्दुरुदचरद्ब्रह्मणः ककुदादधि । ततस्त्वं जज्ञिषे वशे ततो होताजायत
ओ3म् आस्नस्ते गाथा अभवन्न् उष्णिहाभ्यो बलं वशे । पाजस्याज्जज्ञे यज्ञ स्तनेभ्यो रश्मयस्तव
ओ3म् ईर्माभ्यामयनं जातं सक्थिभ्यां च वशे तव । आन्त्रेभ्यो जज्ञिरे अत्रा उदरादधि वीरुधः
ओ3म् यदुदरं वरुणस्यानुप्राविशथा वशे । ततस्त्वा ब्रह्मोदह्वयत्स हि नेत्रमवेत्तव
ओ3म् सर्वे गर्भादवेपन्त जायमानादसूस्वः । ससूव हि तामाहु वशेति ब्रह्मभिः कॢप्तः स ह्यस्या बन्धुः
ओ3म् युध एकः सं सृजति यो अस्या एक इद्वशी । तरांसि यज्ञा अभवन् तरसां चक्षुरभवद्वशा
ओ3म् वशा यज्ञं प्रत्यगृह्णाद्वशा सूर्यमधारयत्। वशायामन्तरविशदोदनो ब्रह्मणा सह
ओ3म् वशामेवामृतमाहुर्वशां मृत्युमुपासते । वशेदं सर्वमभवद्देवा मनुष्या असुराः पितर ऋषयः
ओ3म् य एवं विद्यात्स वशां प्रति गृह्णीयात्। तथा हि यज्ञः सर्वपाद्दुहे दात्रेऽनपस्फुरन्
ओ3म् तिस्रो जिह्वा वरुणस्यान्तर्दीद्यत्यासनि । तासां या मध्ये राजति सा वशा दुष्प्रतिग्रहा
ओ3म् चतुर्धा रेतो अभवद्वशायाः । आपस्तुरीयममृतं तुरीयं यज्ञस्तुरीयं पशवस्तुरीयम्
ओ3म् वशा द्यौर्वशा पृथिवी वशा विष्णुः प्रजापतिः । वशाया दुग्धमपिबन्त्साध्या वसवश्च ये
ओ3म् वशाया दुग्धं पीत्वा साध्या वसवश्च ये । ते वै ब्रध्नस्य विष्टपि पयो अस्या उपासते
ओ3म् सोममेनामेके दुह्रे घृतमेक उपासते । य एवं विदुषे वशां ददुस्ते गतास्त्रिदिवं दिवः
ओ3म् ब्राह्मणेभ्यो वशां दत्त्वा सर्वांल्लोकान्त्समश्नुते । ऋतं ह्यस्यामार्पितमपि ब्रह्माथो तपः
ओ3म् वशां देवा उप जीवन्ति वशां मनुष्या उत । वशेदं सर्वमभवद्यावत्सूर्या विपश्यति