विषघ्नसूक्तम्
मा बिभेर्न मरिष्यसि परित्वापामि सर्वतः । घनेन हन्मि वृश्चिकमहिदण्डेनागतं
आदित्यरथवेगेन विष्णुबाहुबलेन च ।गरुडपक्षनिपातेन भूमिं गच्छ महायशाः
गरुडस्य जातमात्रेण त्रयो लोकाः प्रकम्पिताः ।प्रकम्पिता मही सर्वा सशैलवनकानना
गगनं नष्टचन्द्रार्कं ज्योतिषं न प्रकाशते ।
देवताभयभीताश्च मारुतो न प्लवायति मारुतो न प्लवायत्यों नमः
भो सर्पभद्र भद्रं ते दूरं गच्छ महायशाः ।जनमेजयस्य यज्ञान्ते आस्तीकवचनं स्मर
आस्तीकवचनं श्रुत्वा यः सर्पो न निवर्तते ।शतधा भिद्यते मूर्ध्नि शिंशवृक्षफलं यथा
नर्मदायै नमः प्रातर्नर्मदायै नमो निशि ।नमोस्तु नर्मदे तुभ्यं त्राहि मां विषसर्पतः
यो जरत्कारुणा जातो जरत्कन्यां महायशाः ।तस्य सर्पापभद्रं ते दूरं गच्छ महायशाः