ओ३म् अ॑श्मव॒र्म मे॑ ऽसि॒ यो मा॒ प्राच्या॑ दि॒शो ऽघा॒युर॑भि॒दासा॑त् । ए॒तत्स ऋ॑छात् ॥
ओ३म् अ॑श्मव॒र्म मे॑ ऽसि॒ यो मा॒ दक्षि॑णाया दि॒शो ऽघा॒युर॑भि॒दासा॑त् । ए॒तत्स ऋ॑छात् ॥
ओ३म् अ॑श्मव॒र्म मे॑ ऽसि॒ यो मा॑ प्र॒तीच्या॑ दि॒शो ऽघा॒युर॑भि॒दासा॑त् । ए॒तत्स ऋ॑छात् ॥
ओ३म् अ॑श्मव॒र्म मे॑ ऽसि॒ यो मोदी॑च्या दि॒शो ऽघा॒युर॑भि॒दासा॑त् । ए॒तत्स ऋ॑छात् ॥
ओ३म् अ॑श्मव॒र्म मे॑ ऽसि॒ यो मा॑ ध्रु॒वाया॑ दि॒शो ऽघा॒युर॑भि॒दासा॑त् । ए॒तत्स ऋ॑छात् ॥
ओ३म् अ॑श्मव॒र्म मे॑ ऽसि॒ यो मो॒र्ध्वाया॑ दि॒शो ऽघा॒युर॑भि॒दासा॑त् । ए॒तत्स ऋ॑छात् ॥
ओ३म् अ॑श्मव॒र्म मे॑ ऽसि॒ यो मा॑ दि॒शाम॑न्तर्दे॒शेभ्यो॑ ऽघा॒युर॑भि॒दासा॑त् । ए॒तत्स ऋ॑छात् ॥
ओ३म् बृ॑ह॒ता मन॒ उप॑ ह्वये मात॒रिश्व॑ना प्राणापा॒नौ । सूर्या॒च्चक्षु॑र॒न्तरि॑क्षा॒च्छ्रोत्रं॑ पृथि॒व्याः शरी॑रम् । सर॑स्वत्या॒ वाच॒मुप॑ ह्वयामहे मनो॒युजा॑ ॥