Blog Archive

Monday, 2 April 2018

रुद्रहृदयोपनिषत्

॥ रुद्रहृदयोपनिषत् ॥

यद्ब्रह्म रुद्रहृदयमहाविद्याप्रकाशितम् ।
तद्ब्रह्ममात्रावस्थानपदवीमधुना भजे ॥

ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥

तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

हरिः ॐ ॥

हृदयं कुण्डली भस्मरुद्राक्षगणदर्शनम् ।
तारसारं महावाक्यं पञ्चब्रह्माग्निहोत्रकम् ॥ १॥

प्रणम्य शिरसा पादौ शुको व्यासमुवाच ह ।
को देवः सर्वदेवेषु कस्मिन्देवाश्च सर्वशः ॥ २॥

कस्य शुश्रूषणान्नित्यं प्रीता देवा भवन्ति मे ।
तस्य तद्वचनं श्रुत्वा प्रत्युवाच पिता शुकम् ॥ ३॥

सर्वदेवात्मको रुद्रः सर्वे देवाः शिवात्मकाः ।
रुद्रस्य दक्षिणे पार्श्वे रविर्ब्रह्मा त्रयोऽग्नयः ॥ ४॥

वामपार्श्वे उमा देवी विष्णुः सोमोऽपि ते त्रयः ।
या उमा सा स्वयं विष्णुर्यो विष्णुः स हि चन्द्रमाः ॥ ५॥

ये नमस्यन्ति गोविन्दं ते नमस्यन्ति शङ्करम् ।
येऽर्चयन्ति हरिं भक्त्या तेऽर्चयन्ति वृषध्वजम् ॥ ६॥

ये द्विषन्ति विरूपाक्षं ते द्विषन्ति जनार्दनम् ।
ये रुद्रं नाभिजानन्ति ते न जानन्ति केशवम् ॥ ७॥

रुद्रात्प्रवर्तते बीजं बीजयोनिर्जनार्दनः ।
यो रुद्रः स स्वयं ब्रह्मा यो ब्रह्मा स हुताशनः ॥ ८॥

ब्रह्मविष्णुमयो रुद्र अग्नीषोमात्कं जगत् ।
पुंलिङ्गं सर्वमीशानं स्त्रीलिङ्गं भगवत्युमा ॥ ९॥

उमारुद्रात्मिकाः सर्वाः ग्रजाः स्थावरजङ्गमाः ।
व्यक्तं सर्वमुमारूपमव्यक्तं तु महेश्वरम् ॥ १०॥

उमा शङ्करयोगो यः स योगो विष्णुरुच्यते ।
यस्तु तस्मै नमस्कारं कुर्याद्भक्तिसमन्वितः ॥ ११॥

आत्मानं परमात्मानमन्तरात्मानमेव च ।
ज्ञात्वा त्रिविधमात्मानं परमात्मानमाश्रयेत् ॥ १२॥

अन्तरात्मा भवेद्ब्रह्मा परमात्मा महेश्वरः ।
सर्वेषामेव भूतानां विष्णुरात्मा सनातनः ॥ १३॥

अस्य त्रैलोक्यवृक्षस्य भूमौ विटपशाखिनः ।
अग्रं मध्यं तथा मूलं विष्णुब्रह्ममहेश्वराः ॥ १४॥

कार्यं विष्णुः क्रिया ब्रह्मा कारणं तु महेश्वरः ।
प्रयोजनार्थं रुद्रेण मूर्तिरेका त्रिधा कृता ॥ १५॥

धर्मो रुद्रो जगद्विष्णुः सर्वज्ञानं पितामहः ।
श्रीरुद्र रुद्र रुद्रेति यस्तं ब्रूयाद्विचक्षणः ॥ १६॥

कीर्तनात्सर्वदेवस्य सर्वपापैः प्रमुच्यते ।
रुद्रो नर उमा नारी तस्मै तस्यै नमो नमः ॥ १७॥

रुद्रो ब्रह्मा उमा वाणी तस्मै तस्यै नमो नमः ।
रुद्रो विष्णुरुमा लक्ष्मीस्तस्मै तस्यै नमो नमः ॥ १८॥

रुद्रः सूर्य उमा छाया तस्मै तस्यै नमो नमः ।
रुद्रः सोम उमा तारा तस्मै तस्यै नमो नमः ॥ १९॥

रुद्रो दिवा उमा रात्रिस्तस्मै तस्यै नमो नमः ।
रुद्रो यज्ञ उमा वेदिस्तस्मै तस्यै नमो नमः ॥ २०॥

रुद्रो वह्निरुमा स्वाहा तस्मै तस्यै नमो नमः ।
रुद्रो वेद उमा शास्तं तस्मै तस्यै नमो नमः ॥ २१॥

रुद्रो वृक्ष उमा वल्ली तस्मै तस्यै नमो नमः ।
रुद्रो गन्ध उमा पुष्पं तस्मै तस्यै नमो नमः ॥ २२॥

रुद्रोऽर्थ अक्षरः सोमा तस्मै तस्यै नमो नमः ।
रुद्रो लिङ्गमुमा पीठं तस्मै तस्यै नमो नमः ॥ २३॥

सर्वदेवात्मकं रुद्रं नमस्कुर्यात्पृथक्पृथक् ।
एभिर्मन्त्रपदैरेव नमस्यामीशपार्वती ॥ २४॥

यत्र यत्र भवेत्सार्धमिमं मन्त्रमुदीरयेत् ।
ब्रह्महा जलमध्ये तु सर्वपापैः प्रमुच्यते ॥ २५॥

सर्वाधिष्ठानमद्वन्द्वं परं ब्रह्म सनातनम् ।
सच्चिदानन्दरूपं तदवाङ्मनसगोचरम् ॥ २६॥

तस्मिन्सुविदिते सर्वं विज्ञातं स्यादिदं शुक ।
तदात्मकत्वात्सर्वस्य तस्माद्भिन्नं नहि क्वचित् ॥ २७॥

द्वे विद्ये वेदितव्ये हि परा चैवापरा च ते ।
तत्रापरा तु विद्यैषा ऋग्वेदो यजुरेव च ॥ २८॥

सामवेदस्तथाथर्ववेदः शिक्षा मुनीश्वर ।
कल्पो व्याकरणं चैव निरुक्तं छन्द एव च ॥ २९॥

ज्योतिषं च यथा नात्मविषया अपि बुद्धयः ।
अथैषा परमा विद्या ययात्मा परमाक्षरम् ॥ ३०॥

यत्तदद्रेश्यमग्राह्यमगोत्रं रूपवर्जितम् ।
अचक्षुःश्रोत्रमत्यर्थं तदपाणिपदं तथा ॥ ३१॥

नित्यं विभुं सर्वगतं सुसूक्ष्मं च तदव्ययम् ।
तद्भूतयोनिं पश्यन्ति धीरा आत्मानमात्मनि ॥ ३२॥

यः सर्वज्ञः सर्वविद्यो यस्य ज्ञानमयं तपः ।
तस्मादत्रान्नरूपेण जायते जगदावलिः ॥ ३३॥

सत्यवद्भाति तत्सर्वं रज्जुसर्पवदास्थितम् ।
तदेतदक्षरं सत्यं तद्विज्ञाय विमुच्यते ॥ ३४॥

ज्ञानेनैव हि संसारविनाशो नैव कर्मणा ।
श्रोत्रियं ब्रह्मनिष्ठं स्वगुरुं गच्छेद्यथाविधि ॥ ३५॥

गुरुस्तस्मै परां विद्यां दद्याद्ब्रह्मात्मबोधिनीम् ।
गुहायां निहितं साक्षादक्षरं वेद चेन्नरः ॥ ३६॥

छित्वाऽविद्यामहाग्रन्थिं शिवं गच्छेत्सनातनम् ।
तदेतदमृतं सत्यं तद्बोद्धव्यं मुमुक्षिभिः ॥ ३७॥

धनुस्तारं शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते ।
अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥ ३८॥

लक्ष्यं सर्वगतं चैव शरः सर्वगतो मुखः ।
वेद्धा सर्वगतश्चैव शिवलक्ष्यं न संशयः ॥ ३९॥

न तत्र चन्द्रार्कवपुः प्रकाशते
     न वान्ति वाताः सकला देवताश्च ।
स एष देवः कृतभावभूतः
     स्वयं विशुद्धो विरजः प्रकाशते ॥ ४०॥

द्वौ सुपर्णौ शरीरेऽस्मिञ्जीवेशाक्ष्यौ सह स्थितौ ।
तयोर्जीवः फलं भुङ्क्ते कर्मणो न महेश्वरः ॥ ४१॥

केवलं साक्षिरूपेण विना भोगं महेश्वरः ।
प्रकाशते स्वयं भेदः कल्पितो मायया तयोः ॥ ४२॥

घटाकाशमठाकाशौ यथाकाशप्रभेदतः ।
कल्पितौ परमौ जीवशिवरूपेण कल्पितौ ॥ ४३॥

तत्त्वतश्च शिवः साक्षाच्चिज्जीवश्च स्वतः सदा ।
चिच्चिदाकारतो भिन्ना न भिन्ना चित्त्वहानितः ॥ ४४॥

चितश्चिन्न चिदाकारद्भिद्यते जडरूपतः ।
भिद्यते चेज्जडो भेदश्चिदेका सर्वदा खलु ॥ ४५॥

तर्कतश्च प्रमाणाच्च चिदेकत्वव्यवस्थितेः ।
चिदेकत्वपरिज्ञाने न शोचति न मुह्यति ॥ ४६॥

अद्वैतं परमानन्दं शिवं याति तु कैवलम् ॥ ४७॥

अधिष्ठानं समस्तस्य जगतः सत्यचिद्घनम् ।
अहमस्मीति निश्चित्य वीतशोको भवेन्मुनिः ॥ ४८॥

स्वशरीरे स्वयं ज्योतिःस्वरूपं सर्वसाक्षिणम् ।
क्षीणदोषाः प्रपश्यन्ति नेतरे माययावृताः ॥ ४९॥

एवं रूपपरिज्ञानं यस्यास्ति परयोगिनः ।
कुत्रचिद्गमनं नास्ति तस्य पूर्णस्वरूपिणः ॥ ५०॥

आकाशमेकं सम्पूर्णं कुत्रचिन्नैव गच्छति ।
तद्वत्स्वात्मपरिज्ञानी कुत्रचिन्नैव गच्छति ॥ ५१॥

स यो ह वै तत्परमं ब्रह्म यो वेद वै मुनिः ।
ब्रह्मैव भवति स्वस्थः सच्चिदानन्द मातृकः ॥ ५२॥

इत्युपनिषत् ॥

ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥

तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

इति रुद्रहृदयोपनिषत्समाप्ता ॥

गरुड़ोउपनिषद


॥ गरुडोपनिषत् ॥

विषं ब्रह्मातिरिक्तं स्यादमृतं ब्रह्ममात्रकम् ।
ब्रह्मातिरिक्तं विषवद्ब्रह्ममात्रं खगेडहम् ॥

ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥ भद्रं पश्येमाक्षभिर्यजत्राः ॥
स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः ॥ व्यशेम देवहितं यदायुः ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः ॥ स्वस्ति नः पूषा विश्ववेदाः ॥
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥ स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥

हरिः ॐ ॥ गारुडब्रह्मविद्यां प्रवक्ष्यामि यां ब्रह्मा विद्यां
नारदाय प्रोवाच नारदो बृहत्सेनाय बृहत्सेन इन्द्राय इन्द्रो
भरद्वाजाय भरद्वाजो जीवत्कामेभ्यः शिष्येभ्यः प्रायच्छत् ।
अस्याः श्रीमहागरुडब्रह्मविद्याया ब्रह्मा ऋषिः । गायत्री छन्दः ।
श्रीभगवान्महागरुडो देवता । श्रीमहागरुडप्रीत्यर्थे मम
सकलविषविनाशनार्थे जपे विनियोगः । ॐ नमो भगवते
अङ्गुष्ठाभ्यां नमः । श्री महागरुडाय तर्जनीभ्यां स्वाहा ।
पक्षीन्द्राय मध्यमाभ्यां वषट् । श्रीविष्णुवल्लभाय
अनामिकाभ्यां हुम् । त्रैलोक्य परिपूजिताय कनिष्ठिकाभ्यां वौषट् ।
उग्रभयङ्करकालानलरूपाय करतलकरपृष्ठाभ्यां फट् ।
एवं हृदयादिन्यासः । भूर्भुवः सुवरोमिति दिग्बन्धः । ध्यानम् ।
स्वस्तिको दक्षिणं पादं वामपादं तु कुञ्चितम् ।
प्राञ्जलीकृतदोर्युग्मं गरुडं हरिवल्लभम् ॥ १॥

अनन्तो वामकटको यज्ञसूत्रं तु वासुकिः ।
तक्षकाः कटिसूत्रं तु हारः कार्कोट उच्यते ॥ २॥

पद्मो दक्षिणकर्णे तु महापद्मस्तु वामके ।
शङ्खः शिरःप्रदेशे तु गुलिकस्तु भुजान्तरे ॥ ३॥

पौण्ड्रकालिकनागाभ्यां चामराभ्यां स्वीजितम् ।
एलापुत्रकनागाद्यैः सेव्यमानं मुदान्वितम् ॥ ४॥

कपिलाक्षं गरुत्मन्तं सुवर्णसदृशप्रभम् ।
दीर्घबाहुं बृहत्स्कन्धं नादाभरणभूषितम् ॥ ५॥

आजानुतः सुवर्णाभमाकट्योस्तुहिनप्रभम् ।
कुङ्कुमारुणमाकण्ठं शतचन्द्र निभाननम् ॥ ६॥

नीलाग्रनासिकावक्त्रं सुमहच्चारुकुण्डलम् ।
दंष्ट्राकरालवदनं किरीटमुकुटोज्ज्वलम् ॥ ७॥

कुङ्कुमारुणसर्वाङ्गं कुन्देन्दुधवलाननम् ।
विष्णुवाह नमस्तुभ्यं क्षेमं कुरु सदा मम ॥ ८॥

एवं ध्यायेत्त्रिसन्ध्यासु गरुडं नागभूषणम् ।
विषं नाशयते शीघ्रं तूलरशिमिवानलः ॥ ९॥

ओमीमों नमो भगवते श्रीमहागरुडाय पक्षीन्द्राय
विष्णुवल्लभाय त्रैलोक्यपरिपूजिताय उग्रभयंकरकालानलरूपाय
वज्रनखाय वज्रतुण्डाय वज्रदन्ताय वज्रदंष्ट्राय
वज्रपुच्छाय वज्रपक्षालक्षितशरीराय ओमीकेह्येहि
श्रीमहागरुडाप्रतिशासनास्मिन्नाविशाविश दुष्टानां
विषं दूषयदूषय स्पृष्टानां नाशयनाशय
दन्दशूकानां विषं दारयदारय प्रलीनं विषं
प्रणाशयप्रणाशय सर्वविषं नाशयनाशय हनहन
दहदह पचपच भस्मीकुरुभस्मीकुरु हुं फट् स्वाहा ॥

चन्द्रमण्डलसंकाश सूर्यमण्डलमुष्टिक ।
पृथ्वीमण्डलमुद्राङ्ग श्रीमहागरुडाय विषं
हरहर हुं फट् स्वाहा ॥ ॐ क्षिप स्वाहा ॥ ओमीं
सचरति सचरति तत्कारी मत्कारी विषाणां च विषरूपिणी
विषदूषिणी विषशोषणी विषनाशिनी विषहारिणी
हतं विषं नष्टं विषमन्तःप्रलीनं विषं प्रनष्टं
विषं हतं ते ब्रह्मणा विषं हतमिन्द्रस्य वज्रेण स्वाहा ॥

ॐ नमो भगवते महागरुडाय विष्णुवाहनाय
त्रैलोक्यपरिपूजिताय वज्रनखवज्रतुण्डाय वज्रपक्षालंकृत-
शरीराय एह्येहि महागरुड विषं छिन्धिच्छिन्धि
आवेशयावेशय हुं फट् स्वाहा ॥

सुपर्णोऽसि गरुत्मात्त्रिवृत्ते शिरो गायत्रं चक्षुः स्तोम आत्मा
साम ते तनूर्वमदेव्यं बृहद्रथन्तरे पक्षौ यज्ञायज्ञियं
पुच्छं छन्दांस्यङ्गानि धिष्णिया शफा यजूंशि नाम ॥

सुपर्णोऽसि गरुत्मान्दिवं गच्छ सुवः पत ओमीं ब्रह्मविद्या-
ममावास्यायां पौर्णमास्यां पुरोवाच सचरति सचरति
तत्कारी मत्कारी विषनाशिनी विषदूषिणी विषहारिणी हतं
विषं नष्टं विषं प्रनष्टं विषं हतमिन्द्रस्य वज्रेण स्वाहा ॥

तस्र्यम् । यद्यनन्तकदूतोऽसि यदि वानन्तकः स्वयं सचरति सचरति
तत्कारी मत्कारी विषनाशिनी विषदूषिणी हतं विषं नष्टं
विषं हतमिन्द्रस्य वज्रेण विषं हतं ते ब्रह्मणा विषमिन्द्रस्य
वज्रेण स्वाहा ।
यदि वासुकिदूतोऽसि यदि वा वासुकिः स्वयं सचरति सचरति
तत्कारी मत्कारी विषनाशिनी विषदूषिणी हतं विषं
नष्टं विषं हतमिन्द्रस्य वज्रेण विषं हतं ते ब्रह्मणा
विषमिन्द्रस्य वज्रेण स्वाहा यदि वा तक्षकः स्वयं सचरति
सचरति तत्कारी मत्कारी विषनाशिनी विषदूषिणी हतं विषं
नष्टं विषं हतमिन्द्रस्य वज्रेण विषं हतं ब्रह्मणा
विषमिन्द्रस्य वज्रेण स्वाहा ॥

यदि कर्कोटकदूतोऽसि यदि वा कर्कोटकः स्वयं सचरति सचरति
तत्कारी मत्कारी विषनाशिनी विषदूषिणी हतं विषं नष्टं विषं
हतमिन्द्रस्य वज्रेण विषं हतं ते ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा ॥

यदि पद्मकदूतोऽसि यदि वा पद्मकः स्वयं सचरति सचरति
तत्कारी मत्कारी विषनाशिनी विषदूषिणी हतं विषं
नष्टं विषं हतमिन्द्रस्य वज्रेण विषं हतं ते ब्रह्मणा
विषमिन्द्रस्य वज्रेण स्वाहा ॥

यदि महापद्मकदूतोऽसि यदि वा महापद्मकः स्वयं
सचरति सचरति तत्कारी मत्कारी विषनाशिनी विषदूषिणी हतं
विषं नष्टं विषं हतमिन्द्रस्य वज्रेण विषं हतं ते ब्रह्मणा
विषमिन्द्रस्य वज्रेण स्वाहा ॥

यदि शङ्खकदूतोऽसि यदि वा शङ्खकः स्वयं
सचरति सचरति तत्कारी मत्कारी विषनाशिनी विषदूषिणी
हतं विषं नष्टं विषं हतमिन्द्रस्य वज्रेण विषं
हतं ते ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा ॥

यदि गुलिकदूतोऽसि यदि वा गुलिकः स्वयं सचरति सचरति
तत्कारी मत्कारी विषनाशिनी विषदूषिणी विषहारिणी
हतं विषं नष्टं विषं हतमिन्द्रस्य वज्रेण विषं
हतं ते ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा ॥

यदि पौण्ड्रकालिकदूतोऽसि यदि वा पौण्ड्रकालिकः स्वयं
सचरति सचरति तत्कारी मत्कारी विषनाशिनी विषदूषिणी
विषहारिणी हतं विषं नष्टं विषं हतमिन्द्रस्य वज्रेण
विषं हतं ते ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा ॥

यदि नागकदूतोऽसि यदि वा नागकः स्वयं सचरति सचरति
तत्कारी मत्कारी विषनाशिनी विषदूषिणी विषहारिणी हतं
विषं नष्टं विषं हतमिन्द्रस्य वज्रेण विषं हतं ते
ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा ॥

यदि लूतानां प्रलूतानां यदि वृश्चिकानां यदि घोटकानां
यदि स्थावरजङ्गमानां सचरति सचरति तत्कारी मत्कारी
विषनाशिनी विषदूषिणी विषहारिणी हतं विषं नष्टं
विषं हतमिन्द्रस्य वज्रेण विषं हतं ते ब्रह्मणा विषमिन्द्रस्य
वज्रेण स्वाहा । अनन्तवासुकितक्षककर्कोटकपद्मकमहापद्मक-
शङ्खकगुलिकपौण्ड्रकालिकनागक इत्येषां दिव्यानां
महानागानां महानागादिरूपाणां विषतुण्डानां विषदन्तानां
विषदंष्ट्राणां विषाङ्गानां विषपुच्छानां विश्वचाराणां
वृश्चिकानां लूतानां प्रलूतानां मूषिकाणां गृहगौलिकानां
गृहगोधिकानां घ्रणासानां गृहगिरिगह्वरकालानलवल्मीकोद्भूतानां
तार्णानां पार्णानां काष्ठदारुवृक्षकोटरस्थानां
मूलत्वग्दारुनिर्यासपत्रपुष्पफलोद्भूतानां दुष्टकीटकपिश्वान-
मार्जारजंबुकव्याघ्रवराहाणां जरायुजाण्डजोद्भिज्जस्वेदजानां
शस्त्रबाणक्षतस्फोटव्रणमहाव्रणकृतानां कृत्रिमाणामन्येषां
भूतवेतालकूष्माण्डपिशाचप्रेतराक्षसयक्षभयप्रदानां
विषतुण्डदंष्ट्रानां विषाङ्गानां विषपुच्छानां विषाणां
विषरूपिणी विषदूषिणी विषशोषिणी विषनाशिनी विषहारिणी
हतं विषं नष्टं विषमन्तःप्रलीनं विषं प्रनष्टं विषं हतं ते
ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा । य इमां ब्रह्मविद्याममावास्यायां
पठेच्छृणुयाद्वा यावज्जीवं न हिंसन्ति सर्पाः । अष्टौ ब्राह्मणान्ग्राहयित्वा
तृणेन मोचयेत् । शतं ब्राह्मणान्ग्राहयित्वा चक्षुषा मोचयेत् ।
सहस्रं ब्राह्मणान्ग्राहयित्वा मनसा मोचयेत् । सर्पाञ्जले न मुञ्चन्ति ।
तृणे न मुञ्चन्ति । काष्ठे न मुञ्चन्तीत्याह भगवान्ब्रह्मेत्युपनिषत् ॥

ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥ भद्रं पश्येमाक्षभिर्यजत्राः ॥
स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः ॥ व्यशेम देवहितं यदायुः ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः ॥ स्वस्ति नः पूषा विश्ववेदाः ॥
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥ स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥

इति श्रीगारुडोपनिषत्समाप्ता ॥

Sunday, 1 April 2018

॥ एकवीर सूक्त ॥


॥ एकवीर सूक्त ॥ (Become a Hero)

॥ ॐ अस्य: अथर्ववेदस्य, एकवीर: सूक्तस्य अप्रतिरथ: ऋषि:, त्रिष्टुप् भुरिक् त्रिष्टुप् छंद:, इन्द्र देवता:, एकवीर सिद्धि हेत्वे जपे विनियोग:

ओ३म् इन्द्र॑स्य बा॒हू स्थवि॑रौ॒ वृषा॑णौ चि॒त्रा इ॒मा वृ॑ष॒भौ पा॑रयि॒ष्णू । तौ यो॑क्षे प्रथ॒मो योग॒ आग॑ते॒ याभ्यां॑ जि॒तमसु॑राणां॒ स्व॑१र्यत् ॥
ओ३म् आ॒शुः शिशा॑नो वृष॒भो न भी॒मो घ॑नाघ॒नः क्षोभ॑णश्चर्षनीनाम् । सं॒क्रन्द॑नो ऽनिमि॒ष ए॑कवी॒रः श॒तं सेना॑ अजयत्सा॒कमिन्द्रः॑ ॥
ओ३म् स॒म्क्रन्द॑नेनानिमि॒षेण॑ जि॒ष्णुना॑यो॒ध्येन॑ दुश्च्यव॒नेन॑ धृ॒स्नुना॑ । तदिन्द्रे॑ण जयत॒ तत्स॑हध्वं॒ युधो॑ नर॒ इषु॑हस्तेन॒ वृष्णा॑ ॥
ओ३म् स इषु॑हस्तैः॒ स नि॑ष॒ङ्गिभि॑र्व॒शी संस्र॑ष्टा॒ स युध॒ इन्द्रो॑ ग॒णेन॑ । सं॑सृष्ट॒जित्सो॑म॒पा बा॑हुश॒र्ध्यु॒ग्रध॑न्वा॒ प्रति॑हिताभि॒रस्ता॑ ॥
ओ३म् ब॑लविज्ञा॒यः स्थवि॑रः॒ प्रवी॑रः॒ सह॑स्वान्वा॒जी सह॑मान उ॒ग्रः । अ॒भिवी॑रो अ॒भिष॑त्वा सहो॒जिज्जैत्र॑मिन्द्र॒ रथ॒मा ति॑ष्ठ गो॒विद॑म् ॥
ओ३म् इ॒मं वी॒रमनु॑ हर्षध्वमु॒ग्रमिन्द्रं॑ सखायो॒ अनु॒ सं र॑भध्वम् । ग्रा॑म॒जितं॑ गो॒जितं॒ वज्र॑बाहुं॒ जय॑न्त॒मज्म॑ प्रमृ॒णन्त॒मोज॑सा ॥
ओ३म् अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानो ऽदा॒य उ॒ग्रः श॒तम॑न्यु॒रिन्द्रः॑ । दु॑श्च्यव॒नः पृ॑तना॒षाड॑यो॒ध्यो॑३ ऽस्माकं॒ सेना॑ अवतु॒ प्र यु॒त्सु ॥
ओ३म् बृह॑स्पते॒ परि॑ दीया॒ रथे॑न रक्षो॒हामित्रा॑मप॒बाध॑मानः । प्र॑भ॒ञ्जं छत्रू॑न्प्रमृ॒णन्न॒मित्रा॑न॒स्माक॑मेध्यवि॒ता त॒नूना॑म् ॥
ओ३म् इन्द्र॑ एषां ने॒ता बृह॒स्पति॒र्दक्षि॑णा य॒ज्ञः पु॒र ए॑तु॒ सोमः॑ । दे॑वसे॒नाना॑मभिभञ्जती॒नां जय॑न्तीनां म॒रुतो॑ यन्तु॒ मध्ये॑ ॥
ओ३म् इन्द्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञो॑ आदि॒त्यानां॑ म॒रुतां॒ शर्ध॑ उ॒ग्रम् । म॒हाम॑नसां भुवनच्य॒वानां॒ घोषो॑ दे॒वानां॒ जय॑ता॒मुद॑स्थात् ॥
ओ३म् अ॒स्माक॒मिन्द्रः॒ समृ॑तेषु ध्व॒जेष्व॒स्माक॒ष्या इष॑व॒स्ता ज॑यन्तु । अ॒स्माकं॑ वी॒रा उत्त॑रे भवन्त्व॒स्मान्दे॑वासो ऽवता॒ हवे॑षु ॥

॥ आत्मगोपन सूक्त ॥


॥ आत्मगोपन सूक्त



॥ ॐ अस्य: अथर्ववेदस्य आत्मगोपन सूक्तस्य अथर्वा: ऋषि:, जगती पथ्याबृहती संस्तारपङ्क्ति त्रिपदा विराट् गायत्री छंद:, इन्द्र देवता:, आत्मगोपन सिद्धि हेत्वे जपे विनियोग ॥

ओ३म् पा॒तं न॑ इन्द्रापूष॒णादि॑तिः पान्तु म॒रुतः॑ । अपां॑ नपात्सिन्धवः स॒प्त पा॑तन॒ पातु॑ नो॒ विष्णु॑रु॒त द्यौः ॥
ओ३म् पा॒तां नो॒ द्यावा॑पृथि॒वी अ॒भिष्ट॑ये॒ पातु॒ ग्रावा॒ पातु॒ सोमो॑ नो॒ अंह॑सः । पातु॑ नो दे॒वी सु॒भगा॒ सर॑स्वती॒ पात्व॒ग्निः शि॒वा ये अ॑स्य पा॒यवः॑ ॥
ओ३म् पा॒ताम्नो॑ दे॒वाश्विना॑ शु॒भस्पती॑ उ॒षासा॒नक्तो॒त न॑ उरुष्यताम् । अपां॑ नपा॒दभि॑ह्रुती॒ गय॑स्य चि॒द्देव॑ त्वष्टर्व॒र्धय॑ स॒र्वता॑तये ॥
ओ३म् त्वष्टा॑ मे॒ दैव्यं॒ वचः॑ प॒र्जन्यो॒ ब्रह्म॑ण॒स्पतिः॑ । पु॒त्रैर्भ्रातृ॑भि॒रदि॑ति॒र्नु पा॑तु नो दु॒ष्टरं॒ त्राय॑माणं॒ सहः॑ ॥
ओ३म् अंशो॒ भगो॒ वरु॑णो मि॒त्रो अ॑र्य॒मादि॑तिः॒ पान्तु॑ म॒रुतः॑ । अप॒ तस्य॒ द्वेषो॑ गमेदभि॒ह्रुतो॑ यावय॒च्छत्रु॒मन्ति॑तम् ॥
ओ३म् धि॒ये सम॑श्विना॒ प्राव॑तं न उरु॒ष्या ण॑ उरुज्म॒न्नप्र॑युछन् । द्यौ॑३ष्पित॑र्या॒वय॑ दु॒छुना॒ या ॥

Laxmi Dhyan Mantra लक्ष्मी ध्यान मंत्र

॥ विभिन्नरूपलक्ष्मीध्यानप्रकाराः ॥
लक्ष्मीवल्लभ ध्यानम् । क्षीराम्भोनिधिरत्नमण्डपमहासौवर्णसिंहासने । वामाङ्के स्थितया प्रसन्नवदनं कान्तयाऽऽलिङ्गितम् ॥ दोर्दण्डाङ्कितशङ्खपङ्कजगदाचक्रैरुदारश्रियम् । त्वां नित्यं कलयामि जन्मविमुखः लक्ष्मीश नारायण ॥

द्विभुजालक्ष्मी - हेमवर्णा
। हरेः समीपे कर्तव्या लक्ष्मीस्तु द्विभुजा नृप । दिव्यरूपाम्बुजकरा सर्वाभरणभूषिता ॥

 गजलक्ष्मी - स्वर्णवर्णा
। लक्ष्मीः शुक्लाम्बरा देवी रूपेणाप्रतिमा भुवि । पृथक् चतुर्भुजा कार्या देवी सिम्हासने शुभा ॥ सिम्हासनेऽस्या कर्तव्यं कमलं चारुकर्णिकम् । अष्टपत्रं महाभागा कर्णिकायां सुसंस्थिता ॥ विनायकवदासीना देवी कार्या चतुर्भुजा । बृहन्नालङ्करे कार्यं तस्याश्च कमलं शुभम् ॥ दक्षिणे यादवश्रेष्ठं केयूरभ्रान्तसंस्थितम् । वामेऽमृतघटः कार्यस्तदा राजन् मनोहरः ॥ तस्याऽन्यौ च करौ कार्यौ बिल्वशङ्खधरौ द्विज । अवर्जितकरं कार्यं तत्पृष्ठे कुञ्जरद्वयम् ॥ देवाश्च मस्तके कार्यं पद्मं चापि मनोहरम् ॥

महालक्ष्मी - स्वर्णवर्णा ।
 कोल्लापुरं विनाऽन्यत्र महालक्ष्मीर्यथोच्यते । लक्ष्मीवत् सा सदाकार्या सर्वाभरणभूषिता ॥ दक्षिणाधः करे पात्रमूर्ध्वं कौमोदकीं तदा । वामोर्ध्वे खेटकञ्चैव श्रीबलं तदधः करे ॥ बिभ्रती मस्तके पद्मं पूजनीया विभूतये ॥ देवी - हेमवर्णा पाशाक्षमाली काम्भोजमणिभिर्याम्यसौम्ययोः । पद्मासनस्थां कुर्वीथ श्रियं त्रैलोक्यमातरम् ॥ चतुर्भुजा वीरलक्ष्मी - स्वर्णवर्णा । वीरलक्ष्मीरिति ख्याता वरदाभयहस्तिनी । ऊर्ध्वपद्मद्वयकरा तथा पद्मासने स्थिता ॥

द्विभुजा वीरलक्ष्मी - हेमवर्णा ।
 दक्षिणे त्वभयं बिभ्रदुत्तरे वरदं तथा । ऊरू पद्मदलाकारौ वीरश्रीमूर्तिलक्षणम् ॥

अष्टभुजा वीरलक्ष्मी -
हेमवर्णा । पाशाङ्कुशाक्षसूत्रवराभयगदाभद्रहस्ता ॥ प्रसन्नलक्ष्मी - स्वर्णवर्णा । वन्दे लक्ष्मीं वरशशिमयीं शुद्धजाम्बूनदाभां तेजोरूपां कनकवसनां सर्वभूषोज्ज्वलाङ्गीम् । बीजापूरं कनककलशं हेमपद्मे दधानां आद्यां शक्तिं सकलजननीं विष्णुवामाङ्कसंस्थाम् ॥

महालक्ष्मी - प्रवालवर्णा । अक्षस्रक्परशुं गदेषु कुलिशं पद्मं धनुः कुण्डिकां दण्डं शक्तिमसिञ्च चर्मजलजं घण्टां सुराभाजनम् । शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवालप्रभां सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ॥ 

श्रीलक्ष्मी - कनकवर्णा ।
अरुणकमलसंस्था तद्रजःपुञ्जवर्णा करकमलधृतेष्वाभीतियुग्माम्बुजा च । मणिमकुटविचित्रालङ्कृता कल्पजातैः भवतु भुवनमाता सन्ततं श्रीः श्रियै नः ॥

पद्मा - पद्मवर्णा पद्मा पद्मासनासीना पद्माभा पद्मवासिनी । हेमरत्नोज्ज्वलन्नग्रकर्णकुण्डलमण्डिता ॥ चन्द्रबिम्बामलमुखी कर्णपूरायतेक्षणा । सयौवना सुरम्याङ्गी कुञ्चितभ्रूः सुविभ्रमा ॥ रक्तोष्ठी पीनकण्ठा च कञ्चुकाच्छादितस्तनी । शिरसो मण्डनं चक्रं सीमन्तं चैव पद्मकम् ॥ नागहस्तसमौ बाहु केयूरकटकोज्ज्वलौ । पङ्कजं श्रीफलं वामे दक्षिणे बिभ्रती परा ॥ शोभनाम्बरसम्पन्ना विपुलश्रोणिता तथा । मेखलाकटिसूत्राङ्गा लक्ष्मीः लक्ष्मीविवर्धनी ॥

श्रीलक्ष्मी (अपरा) अभयवरदहस्तां रत्नसिम्हासनस्थां जलजकमलवर्णां हेमवर्णोर्ध्वहस्ताम् । कनकमणिविभूषामास्थितां पद्मपादां सकलभुवनभाग्यां भावये वीरलक्ष्मीम् ॥

वागीश्वरी - श्वेतवर्णा । श्वेतपद्मासनारूढा शुक्लवर्णा चतुर्भुजा । जटामकुटसम्युक्ता रत्नकुण्डलमण्डिता ॥ यज्ञोपवीतिनी हारमुक्ताभरणभूषिता । दुकूलवसना देवी नेत्रत्रयसमन्विता ॥ सुदण्डं दक्षिणे हस्ते वामहस्ते तु पुस्तकम् । दक्षिणेऽक्षमालाञ्च कुण्डिकां वामहस्तके ॥

शत्रुविध्वंसिनी - नीलवर्णा । शत्रुविध्वंसिनी रौद्रा त्रिशिरा रक्तलोचना । दिगम्बरा रक्तकेशी रक्तपाणिर्महोदरी ॥ एतैराविष्कृतैर्घोरैः शीघ्रमुच्चाटयेद्द्विषः ॥

मृतसञ्जीविनी - रक्तवर्णा । मृतसञ्जीविनीं देवीं शान्तरूपांश्च बिभ्रतीम् । पाशाहीन्द्राङ्कुशगदाखड्गशूलवराभयान् ॥ रक्तामष्टभुजां वन्दे फुल्लपद्मासने शुभे ॥ अणिमादि अष्टसिद्धिदेवता - रक्तवर्णा । अणिमा महिमा चैव गरिमा लघिमा तथा । प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्टसिद्धयः ॥ मुक्तिसिद्धिः सर्वसिद्धिः दशसिद्धय ईरिताः । एता देव्यश्चतुर्बाहाः जपाकुसुमसन्निभाः ॥ चिन्तामणिं कपालञ्च त्रिशूलं सिद्धकज्जलम् । दधाना दययापूर्णा योगिभिश्च निषेविता ॥ महालक्ष्मीसहित अष्टमातृकाः - रक्तवर्णाः । ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । वाराही चैव माहेन्द्री चामुण्डा चैव सप्तमा ॥ महालक्ष्मीरष्टमा च द्विभुजा शोणविग्रहाः । कपालमुत्पलं चैव बिभ्राणा रक्तवाससः ॥ अथवान्यप्रकारेण केचित्तान् यं प्रचक्षते । ब्रह्मादिसदृशाकाराः ब्रह्मादिसदृशायुताः ॥ ब्रह्मादीनां परं चिह्नं धारयन्त्यः प्रकीर्तिताः ॥

सर्वमङ्गला - कनकवर्णा
। शङ्खं चक्रञ्च चापं सृणिमपि सुमहाखेटखड्गौ सुचापं बाणं कह्लारपुष्पं तदनुकरगतं मातुलङ्गं दधानाम् । उद्यद्बालार्कवर्णां त्रिभुवनविजयां पञ्चवक्त्रां त्रिनेत्रां देवीं पीताम्बराढ्यां कुचभरनमितां सन्ततं भावयामि ॥ हेमाभां करुणाभिपूर्णनयनां माणिक्यभूषोज्ज्वलां द्वात्रिंशद्दलषोडशाष्टदलयुक् पद्मस्थितां सुस्मिताम् ॥ भक्तानां वरदां वरं च दधतीं वामेन हस्तेन तत् दक्षेणाभयमातुलङ्गसुफलं श्रीमङ्गलां भावये ॥ ज्वालामालिनि - कनकवर्णा कल्पान्ताग्निसमप्रभां स्मितमुखैः षड्भिर्भुजद्वादशैः युक्तां पाशकखेटकञ्च सुशरं शूलं वरं वामके । दक्षेत्वङ्कुशखड्गशक्तिसुशरं चापाभये बिभ्रतीं ज्वालामालिनि सञ्चितां मणिमयीभूषान्वितामाश्रये ॥ मित्रा - रक्तवर्णा बालार्ककान्ति च शिलां जितवक्त्रशोभां पाशाङ्कुशौ च वरमप्यभयं दधानाम् । चित्रांशुकां च नवरत्न विभूषिताङ्गीं चित्राम्बिकां त्रिनयनां हृदि भावयामि ॥

गायत्री - रक्तवर्णा देवीं पूर्वाह्नसंध्यायां गायत्रीं वह्निरूपिणीम् । कुमारीं रक्तवस्त्राङ्गीं रक्तस्रगनुलेपनाम् ॥ चतुर्भुजां चतुर्वक्त्रां वरदां चाष्टलोचनाम् । पद्माक्षमालावलयां बिभ्रतीं दक्षिणे करे ॥ वामे कमण्डलुं पाणौ स्रुवं सव्येतरे करे । अभयं वामहस्ते च पद्मपीठे प्रतिष्ठिताम् ॥ ऋग्वेदरूपिणीं प्रातस्सवनां हंसवाहनाम् । रसायनाञ्च प्रहतीं गार्हपत्ये प्रतिष्ठिताम् ॥

 सावित्री - शुक्लवर्णा (मध्याह्नम्) देवीं मध्याह्नसन्ध्यायां सावित्रीं रुद्ररूपिणीम् । युवतीं श्वेतवस्त्राख्यां शुक्लस्रगनुलेपनाम् ॥ चतुर्भुजां चतुर्वक्त्रां वरदां द्वादशेक्षणाम् । रुद्राक्षमालावलयां बिभ्रतीं दक्षिणे करे ॥ वामे करेऽभयं देवीं तथैवार्केन्दुधारिणीम् । स्वर्णपीठे स्थितां सौम्ये यजुर्वेदस्वरूपिणीम् ॥ माध्यन्दिनाख्यसवने सतां गोवृषवाहनाम् । दक्षिणाग्निस्वरूपां तां ध्यायेन्नित्यं विशुद्धधीः ॥

सरस्वती - श्यामवर्णा (सायङ्कालं) सरस्वतीं तु सायाह्ने सन्ध्यायां विष्णुरूपिणीम् । स्थविरेन्दीवरश्यामां नीलकुञ्चितमूर्धजाम् ॥ चतुर्भुजां चैकवक्त्रां पद्मपत्रायतेक्षणाम् । शङ्खं चक्रं गदाञ्चैव तथैवाभयदं पुनः ॥ पीताम्बरं दधानाञ्च दिव्यस्रगनुलेपनाम् । तृतीयसवनाख्याञ्च ध्यायेद्वै विष्णुरूपिणीम् ॥ नीलपीठे स्थितां सौम्ये सामवेदस्वरूपिणीम् । वरदां गरुडारूढां आहवनीये व्यवस्थिताम् ॥

वश्यमुखी - रक्तवर्णा सन्धाय सुमनोबाणं कर्षन्तीमैक्षवं धनुः । जगज्जैत्रीं जपासक्तां देवीं वश्यमुखीं भजे ॥ सप्तमातृकासु - ब्राह्मी - पीतवर्णा तत्र ब्राह्मी चतुर्वक्त्रा षड्भुजा हंससंस्थिता । पिङ्गाभा भूषणोपेता मृगचर्मोत्तरीयका ॥ वरं सूत्रं स्रुवं धत्ते दक्षबाहूत्तरे क्रमात् । वामे तु पुस्तकं कुण्डीं बिभ्रती चाभयङ्करम् ॥

माहेश्वरी - श्वेतवर्णा माहेश्वरी वृषारूढा पञ्चवक्त्रा त्रिलोचना । श्वेतवर्णा दशभुजा चन्द्ररेखाविभूषिता ॥ खड्गं वज्रं त्रिशूलञ्च परशुं चाभयं वरम् । पाशं घण्टां तथा नागमङ्कुशं बिभ्रती करैः ॥

कौमारी - पाटलवर्णा षडानना तु कौमारी पाटलाभा सुशीलका । रविबाहुर्मयूरस्था वरदा शक्तिधारिणी ॥ पताकां बिभ्रती दण्डं पात्रं बाणञ्च दक्षिणे । वामे चापमथो घण्टां कमलं कुक्कुटं तथा ॥ परशुं बिभ्रती चैव दधतस्त्वभयान्विता ॥

वैष्णवी - नीलवर्णा वैष्णवी तार्क्ष्यका श्यामा षड्भुजा वनमालिनी । वरदा गदिनी दक्षे बिभ्रती च करेऽम्बुजम् ॥ शङ्खचक्राभयान्वामे सा चेयं विलसद्भुजा ॥

वाराही - कृष्णवर्णा कृष्णवर्णा तु वाराही महिषस्था महोदरी । वरदा दण्डिनी खड्गं बिभ्रती दक्षिणे करे ॥ खेटपात्राभयान्वामे सूकरास्या लसद्भुजा ॥

ऐन्द्री - कनकवर्णा ऐन्द्री सहस्रदृक् सौम्या हेमाभा गजससस्थिता । वरदा सूत्रिणी वज्रं बिभ्रत्यूर्ध्वं तु दक्षिणे ॥ वामे तु कमलं पात्रं ह्यभयं तदधः करे ॥

चामुण्डा - कृष्णवर्णा चामुण्डा प्रेतका कृष्णा विकृता चाहिभूषणा । दंष्ट्राला क्षीणदेहा च कर्ताक्षी कामरूपिणी ॥ दिग्बाहुः क्षौमकुक्षी च मुसलं चक्रचामरे । अङ्कुशं बिभ्रती खड्गं दक्षिणे चाथ वामके ॥ खेटं पाशं धनुर्दण्डं कुठारं चापि बिभ्रती ॥

सिद्धिदायिनी - श्वेतवर्णा सिद्धगन्धर्वयक्षाद्यैरसुरैरमरैरपि । सेव्यमाना सदा भूयात्सिद्धिदा सिद्धिदायिनी ॥ 

अपराजिता - नीलवर्णा नीलोत्पलनिभां देवीं निद्रामुद्रितलोचनाम् । नीलकुञ्जितकेशाग्नां
 निम्ननाभीवलित्रयाम् ॥ वराभयकराम्भोजां प्रणतार्तिविनाशिनीम् । पीताम्बरवरोपेतां भूषणस्रग्विभूषिताम् ॥ वरशक्त्याकृतिं सौम्यां परसैन्यप्रभञ्जनीम् । शङ्खचक्रगदाऽभीतिरम्यहस्तां त्रिलोचनाम् ॥ सर्वकामप्रदां देवीं ध्यायेत्तामपराजिताम् ॥
 तुलसी - श्यामवर्णा ध्यायेच्च तुलसीं देवीं श्यामां कमललोचनाम् । प्रसन्नां पद्मकल्हार वराभय चतुर्भुजाम् ॥ किरीटहारकेयूरकुण्डलादिविभूषिताम् । धवलांशुकसभ्युक्तां पद्मासननिषेदुषीम् ॥

भूदेवी - स्वर्णवर्णा स्वर्गवर्णा द्विहस्ता च दक्षिणेनाभयप्रदा । दाडिमीफलसम्युक्ता वामे कल्पतरोरधः ॥ वामपादेन संस्पृष्टनिधिकुम्भाधरा तथा । सर्वालङ्कारभूषाढ्या ध्येया सर्वफलप्रदा ॥

नीलादेवी - श्यामवर्णा नीलोत्पलघनश्यामा नीलवस्त्रविभूषिता । चतुर्भुजा सुखासीना वराभयकरान्विता ॥ इतराभ्यां तु हस्ताभ्यां कुमुदद्वयधारिणी । सर्वाभरणसम्युक्ता नीलादेवी समीरिता ॥

 अश्वारूढा राजलक्ष्मी - हिरण्यवर्णा चतुरङ्गबलोपेतां धनधान्यसुखेश्वरीम् । अश्वारूढामहं वन्दे राजलक्ष्मीं हिरण्मयीम् ॥ इति विभिन्नरूपलक्ष्मीध्यानप्रकाराः सम्पूर्णाः ।

Thursday, 29 March 2018

शुक्र अष्टोत्तरशतनामावलिः

||शुक्र अष्टोत्तरशतनामावलिः ||


ॐ शुक्राय नमः ||ॐ शुचये नमः ||ॐ शुभगुणाय नमः ||ॐ शुभदाय नमः ||ॐ शुभलक्षणाय नमः ||ॐ शोभनाक्षाय नमः ||
ॐ शुभ्रवाहाय नमः ||ॐ शुद्धस्फटिकभास्वराय नमः ||ॐ दीनार्तिहरकाय नमः ||ॐ दैत्यगुरवे नमः ||१०ॐ देवाभिवन्दिताय नमः ||ॐ काव्यासक्ताय नमः ||ॐ कामपालाय नमः ||ॐ कवये नमः ||ॐ कल्याणदायकाय नमः ||ॐ भद्रमूर्तये नमः ||
ॐ भद्रगुणाय नमः ||ॐ भार्गवाय नमः ||ॐ भक्तपालनाय नमः ||ॐ भोगदाय नमः ||२०ॐ भुवनाध्यक्षाय नमः ||ॐ भुक्तिमुक्तिफलप्रदाय नमः ||ॐ चारुशीलाय नमः ||ॐ चारुरूपाय नमः ||ॐ चारुचन्द्रनिभाननाय नमः ||ॐ निधये नमः ||
ॐ निखिलशास्त्रज्ञाय नमः ||ॐ नीतिविद्याधुरंधराय नमः ||ॐ सर्वलक्षणसंपन्नाय नमः ||ॐ सर्वापद्गुणवर्जिताय नमः ||३०
ॐ समानाधिकनिर्मुक्ताय नमः ||ॐ सकलागमपारगाय नमः ||ॐ भृगवे नमः ||ॐ भोगकराय नमः ||ॐ भूमिसुरपालनतत्पराय नमः ||ॐ मनस्विने नमः ||ॐ मानदाय नमः ||ॐ मान्याय नमः ||ॐ मायातीताय नमः ||
ॐ महायशसे नमः ||४० ||ॐ बलिप्रसन्नाय नमः ||ॐ अभयदाय नमः ||ॐ बलिने नमः ||ॐ सत्यपराक्रमाय नमः ||
ॐ भवपाशपरित्यागाय नमः ||ॐ बलिबन्धविमोचकाय नमः ||ॐ घनाशयाय नमः ||ॐ घनाध्यक्षाय नमः ||
ॐ कम्बुग्रीवाय नमः ||ॐ कलाधराय नमः ||५०ॐ कारुण्यरससंपूर्णाय नमः ||ॐ कल्याणगुणवर्धनाय नमः ||ॐ श्वेताम्बराय नमः ||ॐ श्वेतवपुषे नमः ||ॐ चतुर्भुजसमन्विताय नमः ||ॐ अक्षमालाधराय नमः ||ॐ अचिन्त्याय नमः ||ॐ अक्षीणगुणभासुराय नमः ||ॐ नक्षत्रगणसंचाराय नमः ||ॐ नयदाय नमः ||६०|| ॐ नीतिमार्गदाय नमः ||ॐ वर्षप्रदाय नमः ||ॐ हृषीकेशाय नमः ||ॐ क्लेशनाशकराय नमः ||ॐ कवये नमः ||ॐ चिन्तितार्थप्रदाय नमः ||ॐ शान्तमतये नमः ||ॐ चित्तसमाधिकृते नमः ||ॐ आधिव्याधिहराय नमः ||ॐ भूरिविक्रमाय नमः ||७०ॐ पुण्यदायकाय नमः ||ॐ पुराणपुरुषाय नमः ||ॐ पूज्याय नमः ||ॐ पुरुहूतादिसन्नुताय नमः ||ॐ अजेयाय नमः ||ॐ विजितारातये नमः ||ॐ विविधाभरणोज्ज्वलाय नमः ||ॐ कुन्दपुष्पप्रतीकाशाय नमः ||ॐ मन्दहासाय नमः ||ॐ महामतये नमः ||८०ॐ मुक्ताफलसमानाभाय नमः ||ॐ मुक्तिदाय नमः ||ॐ मुनिसन्नुताय नमः ||ॐ रत्नसिंहासनारूढाय नमः ||ॐ रथस्थाय नमः ||ॐ रजतप्रभाय नमः ||ॐ सूर्यप्राग्देशसंचाराय नमः ||ॐ सुरशत्रुसुहृदे नमः ||ॐ कवये नमः ||ॐ तुलावृषभराशीशाय नमः ||९०ॐ दुर्धराय नमः ||ॐ धर्मपालकाय नमः ||ॐ भाग्यदाय नमः ||ॐ भव्यचारित्राय नमः ||ॐ भवपाशविमोचकाय नमः ||ॐ गौडदेशेश्वराय नमः ||ॐ गोप्त्रे नमः ||ॐ गुणिने नमः ||ॐ गुणविभूषणाय नमः ||ॐ ज्येष्ठानक्षत्रसंभूताय नमः ||१००ॐ ज्येष्ठाय नमः ||ॐ श्रेष्ठाय नमः ||ॐ शुचिस्मिताय नमः ||ॐ अपवर्गप्रदाय नमः ||ॐ अनन्ताय नमः ||ॐ सन्तानफलदायकाय नमः ||ॐ सर्वैश्वर्यप्रदाय नमः ||ॐ सर्वगीर्वाणगणसन्नुताय नमः ||
||इति शुक्र अष्टोत्तरशतनामावलिः सम्पूर्णम् ||


Wednesday, 28 March 2018

स्वापन सूक्त


ॐ अस्य अर्थवेद मंत्रस्य: ब्रह्मा: ऋषि:, वृषभ, स्वापन देवता:, अनुष्टुप्, भुरिक् अनुष्टुप्, पुरस्तात् ज्योति त्रिष्टुप् छन्द:, सर्व स्वापन सिदधि हेत्वे जपे विनियोग:


मंत्र 

ओ३म् स॒हस्र॑शृङ्गो वृष॒भो यः स॑मु॒द्रादु॒दाच॑रत् । तेना॑ सह॒स्ये॑ना व॒यं नि जना॑न्त्स्वापयामसि ॥
ओ३म् न भूमिं॒ वातो॒ अति॑ वाति॒ नाति॑ पश्यति॒ कश्च॒न । स्त्रिय॑श्च॒ सर्वाः॑ स्वा॒पय॒ शुन॒श्चेन्द्र॑सखा॒ चर॑न् ॥
ओ३म् प्रो॑ष्ठेश॒यास्त॑ल्पेश॒या नारी॒र्या व॑ह्य॒शीव॑रीः । स्त्रियो॒ याः पुण्य॑गन्धय॒स्ताः सर्वाः॑ स्वापयामसि ॥
ओ३म् एज॑देजदजग्रभं॒ चक्षुः॑ प्रा॒णम॑जग्रभम् । अङ्गा॑न्यजग्रभं॒ सर्वा॒ रात्री॑णामतिशर्व॒रे ॥
ओ३म् य आस्ते॒ यश्चर॑ति॒ यश्च॒ तिष्ठ॑न्वि॒पश्य॑ति । तेषां॒ सं द॑ध्मो॒ अक्षी॑णि॒ यथे॒दं ह॒र्म्यं तथा॑ ॥
ओ३म् स्वप्तु॑ मा॒ता स्वप्तु॑ पि॒ता स्वप्तु॒ श्वा स्वप्तु॑ वि॒श्पतिः॑ । स्वप॑न्त्वस्यै ज्ञा॒तयः॒ स्वप्त्व॒यम॒भितो॒ जनः॑ ॥
ओ३म् स्वप्न॑ स्वप्नाभि॒कर॑णेन॒ सर्वं॒ नि स्वा॑पया॒ जन॑म् । ओ॑त्सू॒र्यम॒न्यान्त्स्वा॒पया॑व्यु॒षं जा॑गृताद॒हमिन्द्र॑ इ॒वारि॑ष्टो॒ अक्षि॑तः ॥