Blog Archive

Thursday, 24 May 2018

शरभनाथ मंत्र



 ॥ कालकृत शरभमंत्रराज ॥

॥ ॐ आंं ह्रीं क्रों एहि एहि शरभ-शाल्वाय स्फुर स्फुर पक्षिराजाय प्रस्फुर प्रस्फुर् शत्रुणा शोणित पिव पिव ओं ऐंं ग्लौं ग्लौं ग्लौं ॐ ह्रीं ह्रीं ह्रीं ओंं ऐंं ग्लौं ग्लौं ग्लौं ग्लौं ग्लौं अावेशय अावेशय आगच्छ आगच्छ स्थिरोभव स्थिरोभव रोगान्नाशय नाशय कृत्रिमान् खाहि खाहि। चटकान् खादय खादय ॐ ह्रीं क्षीं क्रौं (अमुकस्य) रोगान् सुशीघ्रेेण छेदय छेदय खेदय खेदय खड्न छेदय छेदय आ पाशेन वन्धय बन्धय ह्रीं वंं आरोग्यं कुरू कुरू रंं खें शत्रुणां रक्त पिव पिव शीघ्र शीघ्र कृत्रिमान् खादय खादय ॐ ह्रीं क्रौं खेंं खां खं फट् प्राणग्रहासि प्राणग्रहासि हुँ। फट् सर्वशत्रुसंहारणाय शरभ-शाल्वाय पक्षिराजाय हुं फट् स्वाहा–ओं नमो भगवते अष्टपादाय सहस्रबाहवे द्विशीषय द्विनेत्राय द्विपक्षीय रुद्ररूपाय रौद्रमृगविहङ्ग-वेषधारिणे योगनृसिंह-वेष-संहारणाय उद्दण्डखण्डनाय ज्वाला-नृसिंह हताय-शमनाय लक्ष्मी नृृसिंह -मथनकराय जगदनृृसिंह सुदर्शनाय अनेक विघ्नरूपछेदनाय अखिलदेवता वन्दनाय निखिलदेवता परिपालनाय क्षयरोगादि सकल-रोग-निवारणाय ह्रीं ह्रीं महाचित्ररथादि गन्धर्व प्रतिष्ठिताय अन्तरिक्षग्रह आकाशग्रह वसुन्धराग्रह क्षिप्रप्रग्रह मंत्रग्रह। यक्षग्रह कामिनीग्रह मोहिनीग्रहोच्चाटनाय सकल-ब्रह्मराक्षस-वेताल कूष्माण्डादि महाप्रबलग्रहोच्चाटनाय सकलदुष्ट ग्रहनिवारणाय महावीरभद्राय परमंत्र-परयंत्र-परतंत्रादिकाना मूलछेदनाय शिष्यपरिपालनाय महापशुरूपिणे शरभ-शाल्वाथ पक्षिराजाय हुं फट् स्वाहा ॥

Wednesday, 25 April 2018

मधुमति मंत्र

ॐ अस्य मधुमति मंत्रस्य:, मधुवनस्पति देवता:, अथर्वा: ऋषये , अनुष्टुप छंद:, मधुरवाणीं प्राप्ति हेत्वे जपे विनियोग:

ओ३म् इ॒यं वी॒रुन्मधु॑जाता॒ मधु॑ना त्वा खनामसि । मधो॒रधि॒ प्रजा॑तासि॒ सा नो॒ मधु॑मतस्कृधि ॥
ओ३म् जि॒ह्वाया॒ अग्रे॒ मधु॑ मे जिह्वामू॒ले म॒धूल॑कम् । ममेदह॒ क्रता॒वसो॒ मम॑ चि॒त्तमु॒पाय॑सि ॥
ओ३म् मधु॑मन्मे नि॒क्रम॑णं॒ मधु॑मन्मे प॒राय॑णम् । वा॒चा व॑दामि॒ मधु॑मद्भू॒यासं॒ मधु॑संदृशः ॥
ओ३म् मधो॑रस्मि॒ मधु॑तरो म॒दुघा॒न्मधु॑मत्तरः । मामित्किल॒ त्वं वनाः॒ शाखां॒ मधु॑मतीमिव ॥
ओ३म् परि॑ त्वा परित॒त्नुने॒क्षुणा॑गा॒मवि॑द्विषे । यथा॒ मां क॒मिन्यसो॒ यथा॒ मन्नाप॑गा॒ असः॑ ॥

दुःख मोचन सूक्त



। ॐ अस्य दुःख मोचन सूक्तस्य, यम ऋषि:, दुःस्वप्ननाशन देवता:, यजुर्ब्राह्मी एकपदा अनुष्टुप्,त्रिपदा निचृत गायत्री,त्रिपदा प्राजापत्या छंद:, दुःख मोचन हेत्वे जपे विनियोग: ।

। ओ३म् जि॒तम॑स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॑स्माकं वी॒रा अ॒स्माक॑म् । तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः । स सर्व देवस्य: पाशा॒न्मा मो॑चि । तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमधराञ्चं पादयामि ॥

Thursday, 19 April 2018

गायत्र्यथर्वशीर्षम्

॥ गायत्र्यथर्वशीर्षम् ॥


श्रीगणेशाय नमः ॥


नमस्कृत्य भगवान् याज्ञवल्क्यः स्वयं परिपृच्छति
त्वं ब्रूहि भगवन् गायत्र्या उत्पत्तिं श्रोतुमिच्छामि ॥ १॥


ब्रह्मोवाच ।
प्रणवेन व्याहृतयः प्रवर्तन्ते तमसस्तु परं ज्योतिष्कः पुरुषः स्वयम् ।
भूर्विष्णुरिति ह ताः साङ्गुल्या मथेत् ॥ २॥


मथ्यमानात्फेनो भवति फेनाद्बुद्बुदो भवति बुद्बुदादण्डं भवति
अण्डवानात्मा भवति आत्मन आकाशो भवति आकाशाद्वायुर्भवति
वायोरग्निर्भवति अग्नेरोङ्कारो भवति ओङ्काराद्व्याहृतिर्भवति
व्याहृत्या गायत्री भवति गायत्र्याः सावित्री भवति सावित्र्याः
सरस्वती भवति सरस्वत्या वेदा भवन्ति वेदेभ्यो ब्रह्मा भवति
ब्रह्मणो लोका भवन्ति तस्माल्लोकाः प्रवर्तन्ते चत्वारो वेदाः साङ्गाः
सोपनिषदः सेतिहासास्ते सर्वे गायत्र्याः प्रवर्तन्ते यथाऽग्निर्देवानां
ब्राह्मणो मनुष्याणां मेरुः शिखरिणां गङ्गा नदीनां वसन्त ऋतूनां
ब्रह्मा प्रजापतीनामेवासौ मुख्यो गायत्र्या गायत्री छन्दो भवति ॥ ३॥


किं भूः किं भुवः किं स्वः किं महः किं जनः किं तपः किं सत्यं
किं तत् किं सवितुः किं वरेण्यं किं भर्गः किं देवस्य किं धीमहि
किं धियः किं यः किं नः किं प्रचोदयात् ॥ ४॥


भूरिति भूर्लोकः भुव इत्यन्तरिक्षलोकः ।
स्वरिति स्वर्लोको मह इति महर्लोको जन इति जनो लोकस्तप
इति तपोलोकः सत्यमिति सत्यलोकः ।
भूर्भुवःस्वरोमिति त्रैलोक्यम् ॥ ५॥


तदसौ तेजो यत्तेजसोऽग्निर्देवता सवितुरित्यादित्यस्य वरेण्यमित्यन्नम् ।
अन्नमेव प्रजापतिर्भर्ग इत्यापः ।
आपो वै भर्ग एतावत्सर्वा देवता देवस्येन्द्रो वै देवयद्दिवं
तदिन्द्रस्तस्मात्सर्वकृत् पुरुषो नाम विष्णुः ॥ ६॥


धीमहि किमध्यात्मं तत्परमं पदमित्यध्यात्मं यो न इति पृथिवी वै
यो नः प्रचोदयात् काम इमाँल्लोकान् प्रच्यावयन् यो नृशंस्योऽस्तो-
ष्यस्तत्परमो धर्म इत्येषा गायत्री किङ्गोत्रा कत्यक्षरा कतिपदा
कतिकुक्षिः कतिशीर्षा च ॥ ७॥


साङ्ख्यायनसगोत्रा गायत्री चतुर्विंशत्यक्षरा त्रिपदा
षट्कुक्षिः सावित्री कशास्त्रयः पादा भवन्ति ॥ ८॥


काऽस्याः कुक्षिः कानि पञ्च शीर्षाणि ।
ऋग्वेदोऽस्याः प्रथमः पादो भवति यजुर्वेदो द्वितीयः
सामवेदस्तृतीयः पूर्वा दिक् प्रथमा कुक्षिर्भवति दक्षिणा द्वितीया
पश्चिमा तृतीया उदीची चतुर्था ऊर्ध्वा पञ्चमी अधरा षष्ठी
कुक्षिः । व्याकरणमस्याः प्रथमं शीर्षं भवति शिक्षा द्वितीयं
कल्पस्तृतीयं निरुक्तः ज्योतिषामयनं पञ्चमम् ॥ ९॥


किं लक्षणं किमु चेष्टितं किमुदाहृतं किमक्षरं दैवत्यम् ॥ १०॥


लक्षणं मीमांसा अथर्ववेदो विचेष्टितम् ।
छन्दोविधिरित्युदाहृतम् ॥ ११॥


को वर्णः कः स्वरः ।
श्वेतो वर्णः षट् स्वराणि इमान्यक्षराणि दैवतानि भवन्ति
पूर्वा भवति गायत्री मध्यमा सावित्री पश्चिमा सन्ध्या सरस्वती ॥ १२॥


प्रातः सन्ध्या रक्ता रक्तपद्मासनस्था रक्ताम्बरधरा
रक्तवर्णा रक्तगन्धानुलेपना चतुर्मुखा अष्टभुजा द्विनेत्रा
दण्डाक्षमालाकमण्डलुस्रुक्स्रुवधारिणी सर्वाभरणभूषिता कौमारी
ब्राह्मी हंसवाहिनी ऋग्वेदसंहिता ब्रह्मदैवत्या त्रिपदा गायत्री
षट्क्रुक्षिः पञ्चशीर्षा अग्निमुखा रुद्रशिवविष्णुहृदया
ब्रह्मकवचा साङ्ख्यायनसगोत्रा भूर्लोकव्यापिनी अग्निस्तत्त्वं
उदात्तानुदात्तस्वरितस्वरमकार आत्मज्ञाने विनियोगः ।
इत्येषा गायत्री ॥ १३॥


मध्याह्नसन्ध्या श्वेता श्वेतपद्मासनस्था श्वेताम्बरधरा
श्वेतगन्धानुलेपना पञ्चमुखी दशभुजा त्रिनेत्रा शूलाक्षमाला
कमण्डलुकपालधारिणी सर्वाभरणभूषिता सावित्री युवती माहेश्वरी
वृषभवाहिनी यजुर्वेदसंहिता रुद्रदैवत्या त्रिपदा सावित्री षट्कुक्षिः
पञ्चशीर्षा अग्निमुखा रुद्रशिखा ब्रह्मकवचा भारद्वाजसगोत्रा
भुवर्लोकव्यापिनी वायुस्तत्त्वं उदात्तानुदात्तस्वरितस्वरमकारः
श्वेतवर्ण आत्मज्ञाने विनियोगः । इत्येषा सावित्री ॥ १४॥


सायंसन्ध्या कृष्णा कृष्णपद्मासनस्था कृष्णाम्बरधरा
कृष्णवर्णा कृष्णगन्धानुलेपना कृष्णमाल्याम्बरधरा
एकमुखी चतुर्भुजा द्विनेत्रा शङ्खचक्रगदापद्मधारिणी
सर्वाभरणभूषिता सरस्वती वृद्धा वैष्णवी गरुडवाहिनी
सामवेदसंहिता विष्णुदैवत्या त्रिपदा षट्कुक्षिः पञ्चशीर्षा
अग्निमुखा विष्णुहृदया रुद्रशिखा ब्रह्मकवचा काश्यपसगोत्रा
स्वर्लोकव्यापिनी सूर्यस्तत्त्वमुदात्तानुदात्तस्वरितमकारः कृष्णवर्णो
मोक्षज्ञाने विनियोगः । इत्येषा सरस्वती ॥ १५॥


रक्ता गायत्री श्वेता सावित्री कृष्णवर्णा सरस्वती ।
प्रणवो नित्ययुक्तश्च व्याहृतीषु च सप्तसु ॥ १६॥


सर्वेषामेव पापानां सङ्करे समुपस्थिते ।
दश शतं समभ्यर्च्य गायत्री पावनी महत् ॥ १७॥


प्रह्रादोऽत्रिर्वसिष्ठश्च शुकः कण्वः पराशरः ।
विश्वामित्रो महातेजाः कपिलः शौनको महान् ॥ १८॥


याज्ञवल्क्यो भरद्वाजो जमदग्निस्तपोनिधिः ।
गौतमो मुद्गलः श्रेष्ठो वेदव्यासश्च लोमशः ॥ १९॥


अगस्त्यः कौशिको वत्सः पुलस्त्यो माण्डुकस्तथा ।
दुर्वासास्तपसा श्रेष्ठो नारदः कश्यपस्तथा ॥ २०॥


उक्तात्युक्ता तथा मध्या प्रतिष्ठान्यासु पूर्विका ।
गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च ॥ २१॥


त्रिष्टुप् च जगती चैव तथातिजगती मता ।
शक्वरी सातिपूर्वा यादष्ट्यत्यष्टी तथैव च ।
धृतिश्चातिधृतिश्चैव प्रकृतिः कृतिराकृतिः ॥ २२॥


विकृतिः सङ्कृतिश्चैव तथातिकृतिरुत्कृतिः ।
इत्येताश्छन्दसां संज्ञाः क्रमशो वच्मि साम्प्रतम् ॥ २३॥


भूरिति छेन्दो भुव इति छन्दः स्वरिति छन्दो
भूर्भुवःस्वरोमिति देवी गायत्री इत्येतानि छन्दांसि प्रथममाग्नेयं
द्वितीयं प्राजापत्यं तृतीयं सौम्यं चतुर्थमैशानं
पञ्चममादित्यं षष्ठं बार्हस्पत्यं सप्तमं पितृदैवत्यमष्टमं
भगदैवत्यं नवममार्यमं दशमं सावित्रमेकादशं त्वाष्ट्रं
द्वादशं पौष्णं त्रयोदशमैन्द्राग्नं चतुर्दशं वायव्यं पञ्चदशं
वामदैवत्यं षोडशं मैत्रावरुणं सप्तदशमाङ्गिरसमष्टादशं
वैश्वदेव्यमेकोनविंशं वैष्णवं विंशं वासवमेकविंशं रौद्रं
द्वाविंशमाश्विनं त्रयोविंशं ब्राह्मं चतुर्विशं सावित्रम् ॥ २४॥


दीर्घान्स्वरेण संयुक्तान् बिन्दुनादसमन्वितान् ।
व्यापकान्विन्यसेत्पश्चाद्दशपङ्क्त्यक्षराणि च ।
द्रवुपुंस इति प्रत्यक्षबीजानि ।
प्रह्लादिनी प्रभा सत्या विश्वा भद्रा विलासिनी ।
प्रभावती जया कान्ता शान्ता पद्मा सरस्वती ॥ २५॥


विद्रुमस्फटिकाकारं पद्मरागसमप्रभम् ।
इन्द्रनीलमणिप्रख्यं मौक्तिकं कुङ्कुमप्रभम् ॥ २६॥


अञ्जनाभं च गाङ्गेयं वैडूर्यं चन्द्रसन्निभम् ।
हारिद्रं कृष्णदुग्धाभं रविकान्तिसमं भवम् ॥ २७॥


शुकपिच्छसमाकारं क्रमेण परिकल्पयेत् ।
पृथिव्यापस्तथा तेजो वायुराकाश एव च ॥ २८॥


गन्धो रसश्च रूपं च शब्दः स्पर्शस्तथैव च ॥ २९॥


घ्राणं जिह्वा च चक्षुश्च त्वक् श्रोत्रं च तथापरम् ।
उपस्थपायुपादादि पाणिर्वागपि च क्रमात् ॥ ३०॥


मनो बुद्धिरहङ्कारमव्यक्तं च यथाक्रमम् ।
सुमुखं सम्पुटं चैव विततं विस्तृतं तथा ।
एकमुखं च द्विमुखं त्रिमुखं च चतुर्मुखम् ॥ ३१॥


पञ्चमुखं षण्मुखं चाधोमुखं चैव व्यापकम् ।
अञ्जलीकं ततः प्रोक्तं मुद्रितं तु त्रयोदशम् ॥ ३२॥


शकटं यमपाशं च ग्रथितं सम्मुखोन्मुखम् ।
प्रलम्बं मुष्टिकं चैव मत्स्यः कूर्मो वराहकम् ॥ ३३॥


सिंहाक्रान्तं महाक्रान्तं मुद्गरं पल्लवं तथा ।
एता मुद्राश्चतुर्विशद्गायत्र्याः सुप्रतिष्ठिताः ॥ ३४॥


ॐ मूर्घ्नि सङ्घाते ब्रह्मा विष्णुर्ललाटे रुद्रो भ्रूमध्ये
चक्षुश्चन्द्रादित्यौ कर्णयोः शुक्रबृहस्पती नासिके वायुदैवत्यं
प्रभातं दोषा उभे सन्ध्ये मुखमग्निर्जिह्वा सरस्वती ग्रीवा स्वाध्यायाः
स्तनयोर्वसवो बाह्वोर्मरुतः हृदयं पर्जन्यमाकाशमपरं
नाभिरन्तरिक्षं कटिरिन्द्रियाणि जघनं प्राजापत्यं कैलासमलयौ
ऊरू विश्वेदेवा जानुभ्यां जान्वोः कुशिकौ जङ्घयोरयनद्वयं सुराः
पितरः पादौ पृथिवी वनस्पतिर्गुल्फौ रोमाणि मुहूर्तास्ते विग्रहाः
केतुमासा ऋतवः सन्ध्याकालत्रयमाच्छादनं संवत्सरो निमिषः
अहोरात्रावादित्यचन्द्रमसौ सहस्रपरमां देवीं शतमध्यां
दशापराम् । सहस्रनेत्रीं देवीं गायत्रीं शरणमहं प्रपद्ये ॥ ३५॥


तत्सवितुर्वरदाय नमः तत्प्रातरादित्याय नमः ।
सायमधीयानो रात्रिकृतं पापं नाशयति ॥ ३६॥


प्रातरधीयानो रात्रिकृतं पापं नाशयति ।
तत्सायम्प्रातः प्रयुञ्जानोऽपापो भवति ।
य इदं गायत्र्यथर्वशीर्षं ब्राह्मणः प्रयतः पठेत् ।
चत्वारो वेदा अधीता भवन्ति ।
सर्वेषु तीर्थेषु स्नातो भवति सर्वैदेवैर्ज्ञातो भवति ।
सर्वप्रत्यूहात्पूतो भवति ॥ ३७॥


अपेयपानात्पूतो भवति ॥ ३८॥


अभक्ष्यभक्षणात्पूतो भवति ।
अलेह्यलेहनात्पूतो भवति ।
अचोष्यचोषणात्पूतो भवति ।
सुरापानात्पूतो भवति ॥ ३९॥


सुवर्णस्तेयात्पूतो भवति ।
पङ्क्तिभेदनात्पूतो भवति ।
पतितसम्भाषणात्पूतो भवति ।
अनृतवचनात्पूतो भवति ।
गुरुतल्पगमनात्पूतो भवति ।
अगम्यागमनात्पूतो भवति ।
वृषलीगमनात्पूतो भवति ॥ ४०॥


ब्रह्महत्यायाः पूतो भवति ।
भ्रूणहत्यायाः पूतो भवति ।
वीरहत्यायाः पूतो भवति ।
अब्रह्मचारी सुब्रह्मचारी भवति ॥ ४१॥


अनेनाथर्वर्शार्षेणाधीतेन क्रतुशतेनेष्टं भवति ।
षष्टिसहस्रं गायत्री जप्ता भवति ।
अष्टौ ब्राह्मणान् ग्राहयेदर्थसिद्धिर्भवति ।
य इदं गायत्र्यथर्वशीर्षं ब्राह्मणः प्रयतः पठेत् ।
स सर्वपापैः प्रमुच्यते ब्रह्मलोके महीयते ब्रह्मलोके महीयते ॥ ४२॥


इति गायत्र्यथर्वशीर्षं सम्पूर्णम् ॥

Monday, 2 April 2018

शरभोपनिषत्

॥ शरभोपनिषत् ॥

सर्वं सन्त्यज्य मुनयो यद्भजन्त्यात्मरूपतः ।
तच्छारभं त्रिपाद्ब्रह्म स्वमात्रमवशिष्यते ॥

ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।
भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः ।
व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्वदेवाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

अथ हैनं पैप्पलादो ब्रह्माणमुवाच भो भगवन्
ब्रह्मविष्णुरुद्राणां मध्ये को वा अधिकतरो ध्येयः
स्यात्तत्त्वमेव नो ब्रूहीति ।
तस्मै स होवाच पितामहश्च
     हे पैप्पलाद शृणु वाक्यमेतत् ।
बहूनि पुण्यानि कृतानि येन
     तेनैव लभ्यः परमेश्वरोऽसौ ।
यस्याङ्गजोऽहं हरिरिन्द्रमुख्या
     मोहान्न जानन्ति सुरेन्द्रमुख्याः ॥ १॥

प्रभुं वरेण्यं पितरं महेशं
     यो ब्रह्माणं विदधाति तस्मै ।
वेदांश्च सर्वान्प्रहिणोति चाग्र्यं
     तं वै प्रभुं पितरं देवतानाम् ॥ २॥

ममापि विष्णोर्जनकं देवमीड्यं
     योऽन्तकाले सर्वलोकान्संजहार ॥ ३॥

स एकः श्रेष्ठश्च सर्वशास्ता स एव वरिष्ठश्च ।
यो घोरं वेषमास्थाय शरभाख्यं महेश्वरः ।
नृसिंहं लोकहन्तारं संजघान महाबलः ॥ ४॥

हरिं हरन्तं पादाभ्यामनुयान्ति सुरेश्वराः ।
मावधीः पुरुषं विष्णुं विक्रमस्व महानसि ॥ ५॥

कृपया भगवान्विष्णुं विददार नखैः खरैः ।
चर्माम्बरो महावीरो वीरभद्रो बभूव ह ॥ ६॥

स एको रुद्रो ध्येयः सर्वेषां सर्वसिद्धये । यो ब्रह्मणः पञ्चवक्रहन्ता
तस्मै रुद्राय नमो अस्तु ॥ ७॥

यो विस्फुलिङ्गेन ललाटजेन सर्वं जगद्भस्मसात्संकरोति ।
पुनश्च सृष्ट्वा पुनरप्यरक्षदेवं स्वतन्त्रं प्रकटीकरोति ।
तस्मै रुद्राय नमो अस्तु ॥ ८॥

यो वामपादेन जघान कालं घोरं पपेऽथो हालहलं दहन्तम् ।
तस्मै रुद्राय नमो अस्तु ॥ ९॥

यो वामपादार्चितविष्णुनेत्रस्तस्मै ददौ चक्रमतीव हृष्टः ।
तस्मै रुद्राय नमो अस्तु ॥ १०॥

यो दक्षयज्ञे सुरसङ्घान्विजित्य
     विष्णुं बबन्धोरगपाशेन वीरः ।
तस्मै रुद्राय नमो अस्तु ॥ ११॥

यो लीलयैव त्रिपुरं ददाह
     विष्णुं कविं सोमसूर्याग्निनेत्रः ।
सर्वे देवाः पशुतामवापुः
    स्वयं तस्मात्पशुपतिर्बभूव ।
तस्मै रुद्राय नमो अस्तु ॥ १२॥

यो मत्स्यकूर्मादिवराहसिंहा-
     न्विष्णुं क्रमन्तं वामनमादिविष्णुम् ।
विविक्लवं पीड्यमानं सुरेशं
     भस्मीचकार मन्मथं यमं च ।
तस्मै रुद्राय नमो अस्तु ॥ १३॥

एवं प्रकारेण बहुधा प्रतुष्ट्वा
     क्षमापयामासुर्नीलकण्ठं महेश्वरम् ।
तापत्रयसमुद्भूतजन्ममृत्युजरादिभिः ।
नाविधानि दुःखानि जहार परमेश्वरः ॥१४॥

एवं मन्त्रैः प्रार्थ्यमान आत्मा वै सर्वदेहिनाम् ।
शङ्करो भगवानाद्यो ररक्ष सकलाः प्रजाः ॥ १५॥

यत्पादाम्भोरुहद्वन्द्वं मृग्यते विष्णुना सह ।
स्तुत्वा स्तुत्यं महेशानमवाङ्मनसगोचरम् ॥ १६॥

भक्त्या नम्रतनोर्विष्णोः प्रसादमकरोद्विभुः ।
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ।
आनन्दं ब्रह्मणो विद्वान्न बिभेति कदाचनेति ॥ १७॥

अणोरणीयान्महतो महीया-
     नात्मास्यजन्तोर्निहितो गुहायाम् ।
तमक्रतुं पश्यति वीतशोको
     धातुःप्रसादान्महिमानमीशम् ॥ १८॥

वसिष्ठवैयासकिवामदेव-
     विरिञ्चिमुख्यैर्हृदि भाव्यमानः ।
सनत्सुजातादिसनातनाद्यै-
     रीड्यो महेशो भगवानादिदेवः ॥ १९॥

सत्यो नित्यः सर्वसाक्षी महेशो
     नित्यानन्दो निर्विकल्पो निराख्यः ।
अचिन्त्यशक्तिर्भगवान्गिरीशः
     स्वाविद्यया कल्पितमानभूमिः ॥ २०॥

अतिमोहकरी माया मम विष्णोश्च सुव्रत ।
तस्य पादाम्बुजध्यानाद्दुस्तरा सुतरा भवेत् ॥ २१॥

विष्णुर्विश्वजगद्योनिः स्वांशभूतैः स्वकैः सह ।
ममांशसंभवो भूत्वा पालयत्यखिलं जगत् ॥ २२॥

विनाशं कालतो याति ततोऽन्यत्सकलं मृषा ।
ॐ तस्मै महाग्रासाय महादेवाय शूलिने ।
महेश्वराय मृडाय तस्मै रुद्राय नमो अस्तु ॥ २३॥

एको विष्णुर्महद्भूतं पृथग्भूतायनेकशः ।
त्रींल्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ॥ २४॥

चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चमिरेव च ।
हूयते च पुनर्द्वाभ्यां स मे विष्णुः प्रसीदतु ॥ २५॥

ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ २६॥

शरा जीवास्तदङ्गेषु भाति नित्यं हरिः स्वयम् ।
ब्रह्मैव शरभः साक्षान्मोक्षदोऽयं महामुने ॥ २७॥

मायावशादेव देवा मोहिता ममतादिभिः ।
तस्य माहात्म्यलेशांशं वक्तुं केनाप्य शक्यते ॥ २८॥

परात्परतरं ब्रह्म यत्परात्परतो हरिः ।
परात्परतरो हीशस्तस्मात्तुल्योऽधिको न हि ॥ २९॥

एक एव शिवो नित्यस्ततोऽन्यत्सकलं मृषा ।
तस्मात्सर्वान्परित्यज्य ध्येयान्विष्ण्वादिकान्सुरान् ॥ ३०॥

शिव एव सदा ध्येयः सर्वसंसारमोचकः ।
तस्मै महाग्रासाय महेश्वराय नमः ॥ ३१॥

पैप्पलादं महाशास्त्रं न देयं यस्य कस्यचित् ।
नास्तिकाय कृतघ्नाय दुर्वृत्ताय दुरात्मने ॥ ३२॥

दांभिकाय नृशंसाय शठायानृतभाषिणे ।
सुव्रताय सुभक्ताय सुवृत्ताय सुशीलिने ॥ ३३॥

गुरुभक्ताय दान्ताय शान्ताय ऋजुचेतसे ।
शिवभक्ताय दातव्यं ब्रह्मकर्मोक्तधीमते ॥ ३४॥

स्वभक्तायैव दातव्यमकृतघ्नाय सुव्रतम् ।
न दातव्यं सदा गोप्यं यत्नेनैव द्विजोत्तम ॥ ३५॥

एतत्पैप्पलादं महाशास्त्रं योऽधीते श्रावयेद्द्विजः
स जन्ममरणेभ्यो मुक्तो भवति । यो जानीते सोऽमृतत्वं
च गच्छति । गर्भवासाद्विमुक्तो भवति । सुरापानात्पूतो
भवति । स्वर्णस्तेयात्पूतो भवति । ब्रह्महत्यात्पूतो
भवति । गुरुतल्पगमनात्पूतो भवति । स सर्वान्वेदानधीतो
भवति । स सर्वान्देवान्ध्यातो भवति । स समस्तमहापातको-
पपातकात्पूतो भवति । तस्मादविमुक्तमाश्रितो भवति ।
स सततं शिवप्रियो भवति । स शिवसायुज्यमेति । न स
पुनरावर्तते न स पुनरावर्तते । ब्रह्मैव भवति । इत्याह
भगवान्ब्रह्मेत्युपनिषत् ॥

ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।
भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः ।
व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ।
ॐ शान्तिः शान्तिः शान्तिः ॥

इति शरभोपनिषत्समाप्ता ॥

विश्वाकर्मोपनिषत्

॥ विश्वाकर्मोपनिषत् ॥

अथ विश्वाकर्मोपनिषत् ।

ज्योतिर्मयं शान्तमयं प्रदीप्तं,  विश्वात्मकं विश्वजितन्निरीशम् ।
अद्यन्तशून्यं सकलैकनाथं,  श्रीविश्वकर्माणमहं नमामि ॥

ॐ विश्वकर्मा दिशां पतिः स नः पशून्पातु सोऽस्मान्पातु तस्मै नमः ।
प्रजापतिकद्रो वरुणोऽग्निर्दिशाम्पतिः स नः
पशून्पातु सोऽस्मान्पातु तस्मै नमः ॥

अथ पुरुषो ह वै विश्वकर्मणो कामयत प्रजाः सृजेयेति ।
विश्वकर्मणः प्राणो जायते मनः सर्वेन्द्रियाणि च ।
खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥

विश्वकर्मणो ब्रह्मा जायते । विश्वकर्मणो रुद्रो जायते ।
विश्वकर्मणो नारायणो जायते । विश्वकर्मणः प्रजापतयः प्रजायन्ते ।

विश्वकर्मणो द्वादशादित्या रुद्रा वसवः सर्वे देवताः सर्वे
ऋषयः सर्वाणि छन्दांसि सर्वाणि भूतानि वा समुत्पद्यन्ते ।
विश्चकर्मणि प्रवर्धन्ते । विश्वकर्मणि प्रलीयन्ते ।

ॐ अथ नित्यो देवो एको विश्वकर्मा । यो देवानां नामधारी
एक एव विश्वकर्मा । विराट विश्वकर्मा । स्वराड्विश्वकर्मा ।
सम्राड्विश्वकर्मा ।

अथ रुद्रो विश्वकर्मा । ब्रह्मा विश्वकर्मा । शिवश्च
विश्वकर्मा । विष्णुश्च विश्वकर्मा । शक्रश्च विश्वकर्मा ।
द्यावापृथिव्यौ च विश्वकर्मा । कालश्च विश्वकर्मा ।
दिशश्च विश्वकर्मा । दिक्चक्रश्च  विश्वकर्मा । अग्निश्च विश्वकर्मा ।
ऊर्ध्वश्च विश्वकर्मा । अधश्च विश्वकर्मा । अवान्तरश्च विश्वकर्मा ।
अन्तर्बहिश्च विश्वकर्मा । विश्वकर्मणो निराकृतिः ।
विश्वकर्मण एवेदं सर्वं यद्भूतं यच्च भव्यम् ।
निष्कलङ्को निरञ्जनो निर्विकल्पो निराख्यातः ॥

शुद्धाद्वैतैको विश्वकर्मा, न द्वितीयोऽस्ति कश्चित् ।
य एवं वेद स विश्वकर्मारो भवति  ॥

ॐ इत्यग्रे व्याहरेत् । नमेति पश्चात् । विश्वकर्मणेः इति उपरिष्ठात् ।
ॐ इत्येकाक्षरं नम इति द्वे अक्षरे विश्वकर्मण इति पञ्चाक्षराणि ॥ ॐ॥

विश्वकर्मण इति षडक्षराणि ।
ॐ नमो विश्वकर्मण इत्यष्टाक्षरं पदं ध्यायेति ।
अन प्रब्रवस्सर्व आयुरोत  ।
विन्दते प्राजापत्यं रायस्पोषकं  गौपत्यम् ॥

ततो अमृतत्त्वमश्नुते । इति एवं वेद ।

प्रत्यगानन्द ब्रह्म पुरुषं प्रणवस्वरूपम् ।
अकार, उकारो,  मकार इति । तानेकधारममरत्तदेतद्गोमिति ।
यमुक्त्वा मुच्यते योगी जन्मसंसारबन्धनात् ॥

ॐ नमो विश्वकर्मण इति ममोपासकः सायुज्ये गमिष्यति ।
तदिदं परं पुण्डरीकं विज्ञान धनम् ।
तस्मात् तदिदावन्मात्रं  ब्रह्मण्यो विश्वकर्मोम् ।
सर्वभूतस्थमेकं विश्वकर्माणं कारणरूपं मकार
परविश्वब्रह्मोम् । पदं विष्टावाख्यमिति तेऽपि
विश्वकर्माख्योपनिषदम् । यो ह वै विश्वकर्मण्योपनिषदमधीते ।
सर्वेभ्यो पापेभ्यो विमुक्तो भवति । स सर्वेभ्यः विमुक्तः
सर्वान्कामानवाप्नोति । ब्रह्मत्वं च गच्छति । इत्युपनिषत् ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

रुद्रहृदयोपनिषत्

॥ रुद्रहृदयोपनिषत् ॥

यद्ब्रह्म रुद्रहृदयमहाविद्याप्रकाशितम् ।
तद्ब्रह्ममात्रावस्थानपदवीमधुना भजे ॥

ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥

तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

हरिः ॐ ॥

हृदयं कुण्डली भस्मरुद्राक्षगणदर्शनम् ।
तारसारं महावाक्यं पञ्चब्रह्माग्निहोत्रकम् ॥ १॥

प्रणम्य शिरसा पादौ शुको व्यासमुवाच ह ।
को देवः सर्वदेवेषु कस्मिन्देवाश्च सर्वशः ॥ २॥

कस्य शुश्रूषणान्नित्यं प्रीता देवा भवन्ति मे ।
तस्य तद्वचनं श्रुत्वा प्रत्युवाच पिता शुकम् ॥ ३॥

सर्वदेवात्मको रुद्रः सर्वे देवाः शिवात्मकाः ।
रुद्रस्य दक्षिणे पार्श्वे रविर्ब्रह्मा त्रयोऽग्नयः ॥ ४॥

वामपार्श्वे उमा देवी विष्णुः सोमोऽपि ते त्रयः ।
या उमा सा स्वयं विष्णुर्यो विष्णुः स हि चन्द्रमाः ॥ ५॥

ये नमस्यन्ति गोविन्दं ते नमस्यन्ति शङ्करम् ।
येऽर्चयन्ति हरिं भक्त्या तेऽर्चयन्ति वृषध्वजम् ॥ ६॥

ये द्विषन्ति विरूपाक्षं ते द्विषन्ति जनार्दनम् ।
ये रुद्रं नाभिजानन्ति ते न जानन्ति केशवम् ॥ ७॥

रुद्रात्प्रवर्तते बीजं बीजयोनिर्जनार्दनः ।
यो रुद्रः स स्वयं ब्रह्मा यो ब्रह्मा स हुताशनः ॥ ८॥

ब्रह्मविष्णुमयो रुद्र अग्नीषोमात्कं जगत् ।
पुंलिङ्गं सर्वमीशानं स्त्रीलिङ्गं भगवत्युमा ॥ ९॥

उमारुद्रात्मिकाः सर्वाः ग्रजाः स्थावरजङ्गमाः ।
व्यक्तं सर्वमुमारूपमव्यक्तं तु महेश्वरम् ॥ १०॥

उमा शङ्करयोगो यः स योगो विष्णुरुच्यते ।
यस्तु तस्मै नमस्कारं कुर्याद्भक्तिसमन्वितः ॥ ११॥

आत्मानं परमात्मानमन्तरात्मानमेव च ।
ज्ञात्वा त्रिविधमात्मानं परमात्मानमाश्रयेत् ॥ १२॥

अन्तरात्मा भवेद्ब्रह्मा परमात्मा महेश्वरः ।
सर्वेषामेव भूतानां विष्णुरात्मा सनातनः ॥ १३॥

अस्य त्रैलोक्यवृक्षस्य भूमौ विटपशाखिनः ।
अग्रं मध्यं तथा मूलं विष्णुब्रह्ममहेश्वराः ॥ १४॥

कार्यं विष्णुः क्रिया ब्रह्मा कारणं तु महेश्वरः ।
प्रयोजनार्थं रुद्रेण मूर्तिरेका त्रिधा कृता ॥ १५॥

धर्मो रुद्रो जगद्विष्णुः सर्वज्ञानं पितामहः ।
श्रीरुद्र रुद्र रुद्रेति यस्तं ब्रूयाद्विचक्षणः ॥ १६॥

कीर्तनात्सर्वदेवस्य सर्वपापैः प्रमुच्यते ।
रुद्रो नर उमा नारी तस्मै तस्यै नमो नमः ॥ १७॥

रुद्रो ब्रह्मा उमा वाणी तस्मै तस्यै नमो नमः ।
रुद्रो विष्णुरुमा लक्ष्मीस्तस्मै तस्यै नमो नमः ॥ १८॥

रुद्रः सूर्य उमा छाया तस्मै तस्यै नमो नमः ।
रुद्रः सोम उमा तारा तस्मै तस्यै नमो नमः ॥ १९॥

रुद्रो दिवा उमा रात्रिस्तस्मै तस्यै नमो नमः ।
रुद्रो यज्ञ उमा वेदिस्तस्मै तस्यै नमो नमः ॥ २०॥

रुद्रो वह्निरुमा स्वाहा तस्मै तस्यै नमो नमः ।
रुद्रो वेद उमा शास्तं तस्मै तस्यै नमो नमः ॥ २१॥

रुद्रो वृक्ष उमा वल्ली तस्मै तस्यै नमो नमः ।
रुद्रो गन्ध उमा पुष्पं तस्मै तस्यै नमो नमः ॥ २२॥

रुद्रोऽर्थ अक्षरः सोमा तस्मै तस्यै नमो नमः ।
रुद्रो लिङ्गमुमा पीठं तस्मै तस्यै नमो नमः ॥ २३॥

सर्वदेवात्मकं रुद्रं नमस्कुर्यात्पृथक्पृथक् ।
एभिर्मन्त्रपदैरेव नमस्यामीशपार्वती ॥ २४॥

यत्र यत्र भवेत्सार्धमिमं मन्त्रमुदीरयेत् ।
ब्रह्महा जलमध्ये तु सर्वपापैः प्रमुच्यते ॥ २५॥

सर्वाधिष्ठानमद्वन्द्वं परं ब्रह्म सनातनम् ।
सच्चिदानन्दरूपं तदवाङ्मनसगोचरम् ॥ २६॥

तस्मिन्सुविदिते सर्वं विज्ञातं स्यादिदं शुक ।
तदात्मकत्वात्सर्वस्य तस्माद्भिन्नं नहि क्वचित् ॥ २७॥

द्वे विद्ये वेदितव्ये हि परा चैवापरा च ते ।
तत्रापरा तु विद्यैषा ऋग्वेदो यजुरेव च ॥ २८॥

सामवेदस्तथाथर्ववेदः शिक्षा मुनीश्वर ।
कल्पो व्याकरणं चैव निरुक्तं छन्द एव च ॥ २९॥

ज्योतिषं च यथा नात्मविषया अपि बुद्धयः ।
अथैषा परमा विद्या ययात्मा परमाक्षरम् ॥ ३०॥

यत्तदद्रेश्यमग्राह्यमगोत्रं रूपवर्जितम् ।
अचक्षुःश्रोत्रमत्यर्थं तदपाणिपदं तथा ॥ ३१॥

नित्यं विभुं सर्वगतं सुसूक्ष्मं च तदव्ययम् ।
तद्भूतयोनिं पश्यन्ति धीरा आत्मानमात्मनि ॥ ३२॥

यः सर्वज्ञः सर्वविद्यो यस्य ज्ञानमयं तपः ।
तस्मादत्रान्नरूपेण जायते जगदावलिः ॥ ३३॥

सत्यवद्भाति तत्सर्वं रज्जुसर्पवदास्थितम् ।
तदेतदक्षरं सत्यं तद्विज्ञाय विमुच्यते ॥ ३४॥

ज्ञानेनैव हि संसारविनाशो नैव कर्मणा ।
श्रोत्रियं ब्रह्मनिष्ठं स्वगुरुं गच्छेद्यथाविधि ॥ ३५॥

गुरुस्तस्मै परां विद्यां दद्याद्ब्रह्मात्मबोधिनीम् ।
गुहायां निहितं साक्षादक्षरं वेद चेन्नरः ॥ ३६॥

छित्वाऽविद्यामहाग्रन्थिं शिवं गच्छेत्सनातनम् ।
तदेतदमृतं सत्यं तद्बोद्धव्यं मुमुक्षिभिः ॥ ३७॥

धनुस्तारं शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते ।
अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥ ३८॥

लक्ष्यं सर्वगतं चैव शरः सर्वगतो मुखः ।
वेद्धा सर्वगतश्चैव शिवलक्ष्यं न संशयः ॥ ३९॥

न तत्र चन्द्रार्कवपुः प्रकाशते
     न वान्ति वाताः सकला देवताश्च ।
स एष देवः कृतभावभूतः
     स्वयं विशुद्धो विरजः प्रकाशते ॥ ४०॥

द्वौ सुपर्णौ शरीरेऽस्मिञ्जीवेशाक्ष्यौ सह स्थितौ ।
तयोर्जीवः फलं भुङ्क्ते कर्मणो न महेश्वरः ॥ ४१॥

केवलं साक्षिरूपेण विना भोगं महेश्वरः ।
प्रकाशते स्वयं भेदः कल्पितो मायया तयोः ॥ ४२॥

घटाकाशमठाकाशौ यथाकाशप्रभेदतः ।
कल्पितौ परमौ जीवशिवरूपेण कल्पितौ ॥ ४३॥

तत्त्वतश्च शिवः साक्षाच्चिज्जीवश्च स्वतः सदा ।
चिच्चिदाकारतो भिन्ना न भिन्ना चित्त्वहानितः ॥ ४४॥

चितश्चिन्न चिदाकारद्भिद्यते जडरूपतः ।
भिद्यते चेज्जडो भेदश्चिदेका सर्वदा खलु ॥ ४५॥

तर्कतश्च प्रमाणाच्च चिदेकत्वव्यवस्थितेः ।
चिदेकत्वपरिज्ञाने न शोचति न मुह्यति ॥ ४६॥

अद्वैतं परमानन्दं शिवं याति तु कैवलम् ॥ ४७॥

अधिष्ठानं समस्तस्य जगतः सत्यचिद्घनम् ।
अहमस्मीति निश्चित्य वीतशोको भवेन्मुनिः ॥ ४८॥

स्वशरीरे स्वयं ज्योतिःस्वरूपं सर्वसाक्षिणम् ।
क्षीणदोषाः प्रपश्यन्ति नेतरे माययावृताः ॥ ४९॥

एवं रूपपरिज्ञानं यस्यास्ति परयोगिनः ।
कुत्रचिद्गमनं नास्ति तस्य पूर्णस्वरूपिणः ॥ ५०॥

आकाशमेकं सम्पूर्णं कुत्रचिन्नैव गच्छति ।
तद्वत्स्वात्मपरिज्ञानी कुत्रचिन्नैव गच्छति ॥ ५१॥

स यो ह वै तत्परमं ब्रह्म यो वेद वै मुनिः ।
ब्रह्मैव भवति स्वस्थः सच्चिदानन्द मातृकः ॥ ५२॥

इत्युपनिषत् ॥

ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥

तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

इति रुद्रहृदयोपनिषत्समाप्ता ॥