Blog Archive

Wednesday, 23 June 2021

जल चिकित्सा सूक्त


जल चिकित्सा सूक्त

 ओ३म् अ॒म्बयो॑ य॒न्त्यध्व॑भिर्जा॒मयो॑ अध्वरीय॒ताम् । पृ॑ञ्च॒तीर्मधु॑ना॒ पयः॑ ॥ 

ओ३म् अ॒मूर्या उप॒ सूर्ये॒ याभि॑र्वा॒ सूर्यः॑ स॒ह ।   ता नो॑ हिन्वन्त्वध्व॒रम् ॥ 

ओ३म् अ॒पो दे॒वीरुप॑ ह्वये॒ यत्र॒ गावः॒ पिब॑न्ति नः ।    सिन्धु॑भ्यः॒ कर्त्वं॑ ह॒विः ॥ 

ओ३म् अ॒प्स्व॑१न्तर॒मृत॑म॒प्सु भे॑ष॒जम् । अ॒पामु॒त प्रश॑स्तिभि॒रश्वा॒ भव॑थ वा॒जिनो॒ गावो॑ भवथ वा॒जिनीः॑ ॥

ओ३म् आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।   म॒हे रणा॑य॒ चक्ष॑से ॥ 

ओ३म् यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ ।    उ॑श॒तीरि॑व मा॒तरः॑ ॥ 

ओ३म् तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।    आपो॑ ज॒नय॑था च नः ॥ 

ओ३म् ईशा॑ना॒ वार्या॑णां॒ क्षय॑न्तीश्चर्षणी॒नाम् ।   अ॒पो या॑चामि भेष॒जम् ॥ 

ओ३म् शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑ । शं योर॒भि स्र॑वन्तु नः ॥ 

ओ३म् अ॒प्सु मे॒ सोमो॑ अब्रवीद॒न्तर्विश्वा॑नि भेष॒जा । अ॒ग्निं च॑ वि॒श्वशं॑भुवम् ॥ 

ओ३म् आपः॑ पृणी॒त भे॑ष॒जं वरू॑थं त॒न्वे॑३ मम॑ । ज्योक्च॒ सूर्यं॑ दृ॒शे ॥ 

ओ३म् शं न॒ आपो॑ धन्व॒न्या॑३ शमु॑ सन्त्वनू॒प्याः॑ । शं नः॑ खनि॒त्रिमा॒ आपः॒ शमु॒ याः कु॒म्भ आभृ॑ताः । शि॒वा नः॑ सन्तु॒ वार्षि॑कीः ॥ 


सप्तऋषय ऋषि (मनोकामना पूर्ति प्रयोग)


 सप्तऋषय ऋषय:

ओ3म् सप्त तेऽअग्ने समिधः सप्त जिह्वाः सप्त ऋषयः सप्त धाम प्रियाणि । सप्त होत्राः सप्तधा त्वा यजन्ति सप्त योनीरापृणस्व घृतेन स्वाहा 

ओ3म् शुक्रज्योतिश्च चित्रज्योतिश्च सत्यज्योतिश्च ज्योतिष्माँश्च । शुक्रश्चऽऋतपाश्चात्यँहाः 

ओ3म् ईदृङ्चान्यदृङ्च सदृङ्च प्रतिसदृङ्च । मितश्च सम्मितश्च सभराः 

ओ3म् ऋतश्च सत्यश्च धु्रवश्च धरुणश्च । धर्ता च विधर्ता च विधारयः 

ओ3म् ऋतजिच्च सत्यजिच्च सेनजिच्च सुषेणश्च । अन्तिमित्रश्च दूरेअमित्रश्च गणः 

ओ3म् ईदृक्षास एतादृक्षासऽऊ षु णः सदृक्षासः प्रतिसदृक्षासऽएतन । मितासश्च सम्मितासो नोऽअद्य सभरसो मरुतो यज्ञे अस्मिन् 

ओ3म् स्वतवाँश्च प्रघासी च सान्तपनश्च गृहमेधी च । क्रीडी च शाकी चोज्जेषी 

ओ3म् इन्द्रन्दैवीर्विशो मरुतोनुवर्त्मानो भवन्यथेन्द्रन्दैवीर्विशो मरुतोनुवर्त्मानोभवन् । एवमिमँयजमानन्दैवीश्च विशो मानुषीश्चानुवर्त्मानो भवन्तु 

ओ3म् इमँ स्तनमूर्जस्वन्तन्धयापाम्प्रपीनमग्ने सरिरस्य मध्ये । उत्सञ्जुषस्व मधुमन्तमर्वन्त्समुद्रियँ सदनमाविशस्व 


वत्स ऋषि (for Easy Life)

 

वत्स ऋषि (for Easy Life)


ओ३म् त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा । त्वँय॒ज्ञेष्वीड्यः॑ । रास्वेय॑त्सो॒मा भूयो॑ भर दे॒वो नः॑ सवि॒ता वसो॑र्दा॒ता वस्व॑दात् ॥ 

ओ३म् ए॒षा ते॑ शुक्र त॒नूरे॒तद्वर्च॒स्तया॒ सम्भ॑व॒ भ्राजङ्गच्छ । जूर॑सि धृ॒ता मन॑सा॒ जुष्टा॒ विष्ण॑वे ॥ 

ओ३म् तस्या॑स्ते स॒त्यस॑वसः प्रस॒वे त॒न्वो॑ य॒न्त्रम॑शीय॒ स्वाहा॑ । शु॒क्रम॑सि च॒न्द्रम॑स्य॒मृत॑मसि वैश्वदे॒वम॑सि ॥ 

ओ३म् चिद॑सि म॒नासि॒ धीर॑सि॒ दक्षि॑णासि क्ष॒त्रिया॑सि य॒ज्ञिया॒स्यदि॑तिरस्युभयतःशी॒र्ष्णी । सा नः॒ सुप्रा॑ची॒ सुप्र॑तीच्येधि मि॒त्रस्त्वा॑ प॒दि ब॑ध्नीताम्पू॒षाध्व॑नस्पा॒त्विन्द्रा॒याधक्षाय ॥ 

ओ३म् अनु॑ त्वा मा॒ता म॑न्यता॒मनु॑ पि॒तानु॒ भ्राता॒ सग॒र्भ्यो नु॒ सखा॒ सयू॑थ्यः । सा दे॑वि दे॒वमच्छे॒हीन्द्रा॑य॒ सोमᳯ रु॒द्रस्त्वा व॑र्तयतु स्व॒स्ति सोमसखा॒ पुन॒रेहि॑ ॥ 

ओ३म् वस्व्य॒स्यदि॑तिरस्यादि॒त्यासि॑ रु॒द्रासि॑ च॒न्द्रासि॑ । बृह॒स्पति॑ष्ट्वा सु॒म्ने र॑म्णातु रु॒द्रो वसु॑भि॒रा च॑के ॥ 

ओ३म् अदि॑त्यास्त्वा मू॒र्धन्ना जि॑घर्मि देव॒यज॑ने पृथि॒व्या इडा॑यास्प॒दम॑सि घृ॒तव॒त्स्वाहा॑ । अ॒स्मे र॑मस्वास्मे ते॒ बन्धुस्त्वे रायो मे रायो मा व॒यᳯ रा॒यस्पोषे॑ण॒ वि यौ॑ष्म तोतो॒ रायः॑ ॥ 

ओ३म् सम॑ख्ये दे॒व्या धि॒या सन्दक्षि॑णयो॒रुच॑क्षसा मा म॒ आयुः॒ प्र मो॑षी॒र्मो अ॒हन्तव॑ वी॒रँवि॑देय॒ तव॑ देवि सन्दृशि॑ ॥ 

ओ३म् ए॒ष ते॑ गाय॒त्रो भा॒ग इति॑ मे॒ सोमा॑य ब्रूतादे॒ष ते त्रैष्टुभो भा॒ग इति॑ मे॒ सोमा॑य ब्रूतादे॒ष ते॒ जाग॑तो भा॒ग इति॑ मे॒ सोमा॑य ब्रूताच्छन्दोना॒माना साम्रा॑ज्यङ्ग॒च्छेति॑ मे॒ सोमा॑य ब्रूतादास्मा॒को॑सि शु॒क्रस्ते॒ ग्रह्यो॑ वि॒चित॑स्त्वा॒ विचि॑न्वन्तु ॥ 

ओ३म् अ॒भि त्यं दे॒वᳯ स॑वि॒तार॑मो॒ण्योः॑ क॒विक्र॑तु॒मर्चा॑मि स॒त्यस॑वᳯ रत्न॒धाम॒भि प्रि॒यम्म॒तिङ्क॒विम् । ऊ॒र्ध्वा यस्या॒मति॒र्भा अदि॑द्युत॒त्सवी॑मनि॒ हिर॑ण्यपाणिरमिमीत सु॒क्रतुः॑ कृ॒पा स्वः॑ । प्र॒जाभ्य॑स्त्वा । प्र॒जास्त्वा॑नु॒प्राण॑न्तु प्र॒जास्त्वम॑नु॒प्राणि॑हि ॥ 

ओ३म् शु॒क्रन्त्वा॑ शु॒क्रेण॑ क्रीणामि च॒न्द्रञ्च॒न्द्रेणा॒मृत॑म॒मृते॑न । स॒ग्मे ते॒ गोर॒स्मे ते॑ च॒न्द्राणि॑  तप॑सस्त॒नूर॑सि प्र॒जाप॑ते॒र्वर्णः॑ पर॒मेण॑ प॒शुना॑ क्रीयसे सहस्रपो॒षम्पु॑षेयम् ॥ 

ओ३म् मि॒त्रो न॒ एहि॒ सुमि॑त्रधः  इन्द्र॑स्यो॒रुमा वि॑श॒ दक्षि॑णमु॒शन्नु॒शन्त स्यो॒नः स्यो॒नम् । स्वान॒ भ्राजा॑ङ्घारे॒ बम्भा॑रे॒ हस्त॒ सुह॑स्त॒ कृशा॑नोवेते वः॑ सोम॒क्रय॑णा॒स्तान्र॑क्षध्वम्मा वो॑ दभन् ॥ 

ओ३म् परि॑ माग्ने॒ दुश्च॑रिताद्बाध॒स्वा मा॒ सुच॑रिते भज । उदायु॑षा स्वा॒युषोद॑स्थाम॒मृताँ॒ अनु॑ ॥ 

ओ३म् प्रति॒ पन्था॑मपद्महि स्वस्ति॒गाम॑ने॒हस॑म् येन॒ विश्वाः॒ परि॒ द्विषो॑ वृ॒णक्ति॑ वि॒न्दते॒ वसु॑ ॥ 

ओ३म् अदि॑त्या॒स्त्वग॑सि अदि॑त्यै॒ सद॒ आ सी॑द । अस्त॑भ्ना॒द्द्याँ वृ॑ष॒भो अ॒न्तरि॑क्ष॒ममि॑मीत वरि॒माणम्पृथि॒व्याः । आसी॑द॒द्विश्वा॒ भुव॑नानि स॒म्राड्विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि॑ ॥ 

ओ३म् वने॑षु॒ व्य॒न्तरि॑क्षन्ततान॒ वाज॒मर्व॑त्सु॒ पय॑ उ॒स्रिया॑सु हृ॒त्सु क्रतुँ वरु॑णो वि॒क्ष्व॒ग्निन्दि॒वि सूर्य॑मदधा॒त्सोम॒मद्रौ॑ ॥ 

ओ३म् सूर्य॑स्य॒ चक्षु॒रारो॑हा॒ग्नेर॒क्ष्णः क॒नीन॑कम् । यत्रै॑त्रशेभि॒रीय॑से॒ भ्राज॑मानो विप॒श्चिता॑ ॥ 

ओ३म् उस्रा॒वेतन्धूर्षाहौ यु॒ज्येथा॑मन॒श्रू अवी॑रहणौ ब्रह्म॒चोद॑नौ । स्व॒स्ति यज॑मानस्य गृ॒हान्ग॑च्छतम् ॥ 

ओ३म् भ॒द्रो मे॑सि॒ प्रच्य॑वस्व भुवस्पते॒ विश्वा॑न्य॒भि धामा॑नि । मा त्वा॑ परिप॒रिणो॑ विद॒न्मा त्वा॑ परिप॒न्थिनो॑ विद॒न्मा वृका॑ अघा॒यवो॑ विदन् । श्ये॒नो भू॒त्वा परा॑ पत॒ यज॑मानस्य गृ॒हान्ग॑च्छ॒ तन्नौ॑ सँस्कृ॒तम् ॥ 

ओ३म् नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑से म॒हो दे॒वाय॒ तदृ॒तᳯ स॑पर्यत । दू॑रे॒दृशे॑ दे॒वजा॑ताय के॒तवे॑ दि॒वस्पु॒त्राय॒ सूर्या॑य शᳯसत ॥ 

ओ३म् वरु॑णस्यो॒त्तम्भ॑नमसि वरु॑णस्य स्कम्भ॒सर्ज॑नी स्थो वरु॑णस्य ऋत॒सद॑न्यसि॒ वरु॑णस्य ऋत॒सद॑नमसि वरु॑णस्य ऋत॒सद॑न॒मा सी॑द ॥ 

ओ३म् म॒हाँऽइन्द्रो॒ य ओज॑सा प॒र्जन्यो॒ वृष्टि॑माँऽइव  स्तोमै॑र्व॒त्सस्य॑ वावृधे । उ॑पया॒मगृ॑हीतो सि महे॒न्द्राय॑ त्वैष ते॒ योनि॑र्महे॒न्द्राय॑ त्वा ॥ 

ओ३म् उ॑पह्व॒रे गि॑री॒णा स॑ङ्ग॒मे च॑ नदी॒नाम् । धि॒या विप्रो॑ऽअजायत॥


वशागौ सूक्त

वशागौ सूक्त

ओ3म् नमस्ते जायमानायै जाताया उत ते नमः । बालेभ्यः शफेभ्यो रूपायाघ्न्ये ते नमः 

ओ3म् यो विद्यात्सप्त प्रवतः सप्त विद्यात्परावतः । शिरो यज्ञस्य यो विद्यात्स वशां प्रति गृह्णीयात्

ओ3म् वेदाहं सप्त प्रवतः सप्त वेद परावतः । शिरो यज्ञस्याहं वेद सोमं चास्यां विचक्षणम् 

ओ3म् यया द्यौर्यया पृथिवी ययापो गुपिता इमाः । वशां सहस्रधारां ब्रह्मणाछावदामसि 

ओ3म् शतं कंसाः शतं दोग्धारः शतं गोप्तारो अधि पृष्ठे अस्याः । ये देवास्तस्यां प्राणन्ति ते वशां विदुरेकधा 

ओ3म् यज्ञपदीराक्षीरा स्वधाप्राणा महीलुका । वशा पर्जन्यपत्नी देवामप्येति ब्रह्मणा 

ओ3म् अनु त्वाग्निः प्राविशदनु सोमो वशे त्वा । ऊधस्ते भद्रे पर्जन्यो विद्युतस्ते स्तना वशे 

ओ3म् अपस्त्वं धुक्षे प्रथमा उर्वरा अपरा वशे । तृतीयं राष्ट्रं धुक्षेऽन्नं क्षीरं वशे त्वम् 

ओ3म् यदादित्यैर्हूयमानोपातिष्ठ ऋतवरि । इन्द्रः सहस्रं पात्रान्त्सोमं त्वापाययद्वशे 

ओ3म् यदनूचीन्द्रमैरात्त्वा ऋषभोऽह्वयत्। तस्मात्ते वृत्रहा पयः क्षीरं क्रुद्धोऽहरद्वशे 

ओ3म् यत्ते क्रुद्धो धनपतिरा क्षीरमहरद्वशे । इदं तदद्य नाकस्त्रिषु पात्रेषु रक्षति 

ओ3म् त्रिषु पात्रेषु तं सोममा देव्यहरद्वशा । अथर्वा यत्र दीक्षितो बर्हिष्यास्त हिरण्यये 

ओ3म् सं हि सोमेनागत समु सर्वेण पद्वता । वशा समुद्रमध्यष्ठद्गन्धर्वैः कलिभिः सह 

ओ3म् सं हि वातेनागत समु सर्वैः पतत्रिभिः । वशा समुद्रे प्रानृत्यदृचः सामानि बिभ्रती 

ओ3म् सं हि सूर्येणागत समु सर्वेण चक्षुषा । वशा समुद्रमत्यख्यद्भद्रा ज्योतींषि बिभ्रती 

ओ3म् अभीवृता हिरण्येन यदतिष्ठ ऋतावरि । अश्वः समुद्रो भूत्वाध्यस्कन्दद्वशे त्वा 

ओ3म् तद्भद्राः समगछन्त वशा देर्ष्ट्यथो स्वधा । अथर्वा यत्र दीक्षितो बर्हिष्यास्त हिरण्यये 

ओ3म् वशा माता राजन्यस्य वशा माता स्वधे तव । वशाया यज्ञ आयुधं ततश्चित्तमजायत 

ओ3म् ऊर्ध्वा बिन्दुरुदचरद्ब्रह्मणः ककुदादधि । ततस्त्वं जज्ञिषे वशे ततो होताजायत 

ओ3म् आस्नस्ते गाथा अभवन्न् उष्णिहाभ्यो बलं वशे । पाजस्याज्जज्ञे यज्ञ स्तनेभ्यो रश्मयस्तव 

ओ3म् ईर्माभ्यामयनं जातं सक्थिभ्यां च वशे तव । आन्त्रेभ्यो जज्ञिरे अत्रा उदरादधि वीरुधः 

ओ3म् यदुदरं वरुणस्यानुप्राविशथा वशे । ततस्त्वा ब्रह्मोदह्वयत्स हि नेत्रमवेत्तव 

ओ3म् सर्वे गर्भादवेपन्त जायमानादसूस्वः । ससूव हि तामाहु वशेति ब्रह्मभिः कॢप्तः स ह्यस्या बन्धुः 

ओ3म् युध एकः सं सृजति यो अस्या एक इद्वशी । तरांसि यज्ञा अभवन् तरसां चक्षुरभवद्वशा 

ओ3म् वशा यज्ञं प्रत्यगृह्णाद्वशा सूर्यमधारयत्। वशायामन्तरविशदोदनो ब्रह्मणा सह 

ओ3म् वशामेवामृतमाहुर्वशां मृत्युमुपासते । वशेदं सर्वमभवद्देवा मनुष्या असुराः पितर ऋषयः 

ओ3म् य एवं विद्यात्स वशां प्रति गृह्णीयात्। तथा हि यज्ञः सर्वपाद्दुहे दात्रेऽनपस्फुरन् 

ओ3म् तिस्रो जिह्वा वरुणस्यान्तर्दीद्यत्यासनि । तासां या मध्ये राजति सा वशा दुष्प्रतिग्रहा 

ओ3म् चतुर्धा रेतो अभवद्वशायाः । आपस्तुरीयममृतं तुरीयं यज्ञस्तुरीयं पशवस्तुरीयम् 

ओ3म् वशा द्यौर्वशा पृथिवी वशा विष्णुः प्रजापतिः । वशाया दुग्धमपिबन्त्साध्या वसवश्च ये 

ओ3म् वशाया दुग्धं पीत्वा साध्या वसवश्च ये । ते वै ब्रध्नस्य विष्टपि पयो अस्या उपासते 

ओ3म् सोममेनामेके दुह्रे घृतमेक उपासते । य एवं विदुषे वशां ददुस्ते गतास्त्रिदिवं दिवः 

ओ3म् ब्राह्मणेभ्यो वशां दत्त्वा सर्वांल्लोकान्त्समश्नुते । ऋतं ह्यस्यामार्पितमपि ब्रह्माथो तपः 

ओ3म् वशां देवा उप जीवन्ति वशां मनुष्या उत । वशेदं सर्वमभवद्यावत्सूर्या विपश्यति

वाग्विद्युतौ देवता सूक्त, वत्स ऋषि



वत्स ऋषि, वाग्विद्युतौ देवते, नाना छन्दांसि

 ओ३म् तस्या॑स्ते स॒त्यस॑वसः प्रस॒वे त॒न्वो॑ य॒न्त्रम॑शीय॒ स्वाहा॑ । शु॒क्रम॑सि च॒न्द्रम॑स्य॒मृत॑मसि वैश्वदे॒वम॑सि ॥ 

ओ३म् चिद॑सि म॒नासि॒ धीर॑सि॒ दक्षि॑णासि क्ष॒त्रिया॑सि य॒ज्ञिया॒स्यदि॑तिरस्युभयतःशी॒र्ष्णी । सा नः॒ सुप्रा॑ची॒ सुप्र॑तीच्येधि मि॒त्रस्त्वा॑ प॒दि ब॑ध्नीताम्पू॒षाध्व॑नस्पा॒त्विन्द्रा॒याधक्षाय ॥ 

ओ३म् अनु॑ त्वा मा॒ता म॑न्यता॒मनु॑ पि॒तानु॒ भ्राता॒ सग॒र्भ्यो नु॒ सखा॒ सयू॑थ्यः । सा दे॑वि दे॒वमच्छे॒हीन्द्रा॑य॒ सोमᳯ रु॒द्रस्त्वा व॑र्तयतु स्व॒स्ति सोमसखा॒ पुन॒रेहि॑ ॥ 

ओ३म् वस्व्य॒स्यदि॑तिरस्यादि॒त्यासि॑ रु॒द्रासि॑ च॒न्द्रासि॑ । बृह॒स्पति॑ष्ट्वा सु॒म्ने र॑म्णातु रु॒द्रो वसु॑भि॒रा च॑के ॥ 

ओ३म् अदि॑त्यास्त्वा मू॒र्धन्ना जि॑घर्मि देव॒यज॑ने पृथि॒व्या इडा॑यास्प॒दम॑सि घृ॒तव॒त्स्वाहा॑ । अ॒स्मे र॑मस्वास्मे ते॒ बन्धुस्त्वे रायो मे रायो मा व॒यᳯ रा॒यस्पोषे॑ण॒ वि यौ॑ष्म तोतो॒ रायः॑ ॥ 

ओ३म् सम॑ख्ये दे॒व्या धि॒या सन्दक्षि॑णयो॒रुच॑क्षसा मा म॒ आयुः॒ प्र मो॑षी॒र्मो अ॒हन्तव॑ वी॒रँवि॑देय॒ तव॑ देवि सन्दृशि॑ ॥ 


Vishnu Sukt (1)

 

Vishnu Sukt (1)  Rigved
ओ३म्  नु । मर्तः॑ । द॒य॒ते॒ । स॒नि॒ष्यन् । यः । विष्ण॑वे । उ॒रु॒ऽगा॒याय॑ । दाश॑त् । प्र । यः । स॒त्राचा॑ । मन॑सा । यजा॑ते । ए॒ताव॑न्तम् । नर्य॑म् । आ॒ऽविवा॑सात् ॥ ७.१००.१
ओ३म्  त्वम् । वि॒ष्णो॒ इति॑ । सु॒ऽम॒तिम् । वि॒श्वऽज॑न्याम् । अप्र॑ऽयुताम् । ए॒व॒ऽया॒वः॒ । म॒तिम् । दाः॒ । पर्चः॑ । यथा॑ । नः॒ । सु॒वि॒तस्य॑ । भूरेः॑ । अश्व॑ऽवतः । पु॒रु॒ऽच॒न्द्रस्य॑ । रा॒यः ॥ ७.१००.२
ओ३म्  त्रिः । दे॒वः । पृ॒थि॒वीम् । ए॒षः । ए॒ताम् । वि । च॒क्र॒मे॒ । श॒तऽअ॑र्चसम् । म॒हि॒ऽत्वा । प्र । विष्णुः॑ । अ॒स्तु॒ । त॒वसः॑ । तवी॑यान् । त्वे॒षम् । हि । अ॒स्य॒ । स्थवि॑रस्य । नाम॑ ॥ ७.१००.३
ओ३म्  वि । च॒क्र॒मे॒ । पृ॒थि॒वीम् । ए॒षः । ए॒ताम् । क्षेत्रा॑य । विष्णुः॑ । मनु॑षे । द॒श॒स्यन् । ध्रु॒वासः॑ । अ॒स्य॒ । की॒रयः॑ । जना॑सः । उ॒रु॒ऽक्षि॒तिम् । सु॒ऽजनि॑मा । च॒का॒र॒ ॥ ७.१००.४
ओ३म्  प्र । तत् । ते॒ । अ॒द्य । शि॒पि॒ऽवि॒ष्ट॒ । नाम॑ । अ॒र्यः । शं॒सा॒मि॒ । व॒युना॑नि । वि॒द्वान् । तम् । त्वा॒ । गृ॒णा॒मि॒ । त॒वस॑म् । अत॑व्यान् । क्षय॑न्तम् । अ॒स्य । रज॑सः । प॒रा॒के ॥ ७.१००.५
ओ३म्  किम् । इत् । ते॒ । वि॒ष्णो॒ इति॑ । प॒रि॒ऽचक्ष्य॑म् । भू॒त् । प्र । यत् । व॒व॒क्षे । शि॒पि॒ऽवि॒ष्टः । अ॒स्मि॒ । मा । वर्पः॑ । अ॒स्मत् । अप॑ । गू॒हः॒ । ए॒तत् । यत् । अ॒न्यऽरू॑पः । स॒मि॒थे । ब॒भूथ॑ ॥ ७.१००.६
ओ३म्  वष॑ट् । ते॒ । वि॒ष्णो॒ इति॑ । आ॒सः । आ । कृ॒णो॒मि॒ । तत् । मे॒ । जु॒ष॒स्व॒ । शि॒पि॒ऽवि॒ष्ट॒ । ह॒व्यम् । वर्ध॑न्तु । त्वा॒ । सु॒ऽस्तु॒तयः॑ । गिरः॑ । मे॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥ ७.१००.७



Vishnu Sukt (2)  Shukla Yajurved

ओ३म् इ॒दँविष्णु॒र्विच॑क्रमे त्रे॒धा नि द॑धे प॒दम् । समू॑ढमस्य पासुरे स्वाहा॑ ॥ 
ओ३म् इरा॑वती धेनु॒मती॒ हि भू॒तᳯ सू॑यव॒सिनी॒ मन॑वे दश॒स्या । व्य॑स्कभ्ना॒ रोद॑सी विष्णवे॒ते दा॒धर्थ॑ पृथि॒वीम॒भितो॑ म॒यूखैः॒ स्वाहा॑ ॥ 
ओ३म् दे॑व॒श्रुतौ॑ दे॒वेष्वा घो॑षतम्प्राची॒ प्रेत॑मध्व॒रङ्क॒ल्पय॑न्तीऽऊ॒र्ध्वं य॒ज्ञन्न॑यतम्मा जि॑ह्वरतम् । स्वङ्गो॒ष्ठमा व॑दतन्देवी दुर्ये॒ऽआयु॒र्मा निर्वा॑दिष्टम्प्र॒जाम्मा निर्वा॑दिष्टमत्र॑ रमेथाँ वर्ष्म॑न्पृथि॒व्याः ॥ 
ओ३म् विष्णो॒र्नु कँवी॒र्या॑णि॒ प्र वो॑चँयः पार्थि॑वानि विम॒मे रजासि । योऽअस्क॑भाय॒दुत्त॑रᳯ स॒धस्थँविचक्रमा॒णस्त्रे॒धोरु॑गा॒यः विष्ण॑वे त्वा ॥ 
ओ३म् दि॒वो वा॑ विष्णऽउ॒त वा॑ पृथि॒व्या म॒हो वा॑ विष्णऽउ॒रोर॒न्तरि॑क्षात् । उ॒भा हि हस्ता॒ वसु॑ना पृ॒णस्वा प्रय॑च्छ॒ दक्षि॑णा॒दोत स॒व्यात् विष्ण॑वे त्वा ॥ 
ओ३म् प्र तद्विष्णु॑ स्तवते वी॒र्ये॑ण मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः । यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेष्वधिक्षि॒यन्ति॒ भुव॑नानि॒ विश्वा॑ ॥ 
ओ३म् विष्णो॑ र॒राट॑मसि विष्णोः॒ श्नप्त्रे॑ स्थो विष्णोः॒ स्यूर॑सि विष्णो॑र्ध्रु॒वो॑सि । वै॑ष्ण॒वम॑सि॒ विष्ण॑वे त्वा ॥ 

Vishnu Sukt (3)  Atharva ved

ओ३म् ययो॒रोज॑सा स्कभि॒ता रजां॑सि॒ यौ वी॒र्यैर्वी॒रत॑मा॒ शवि॑ष्ठा । यौ पत्ये॑ते॒ अप्र॑तीतौ॒ सहो॑भि॒र्विष्णु॑मग॒न्वरु॑णं पू॒र्वहू॑तिः ॥ 
ओ३म् यस्ये॒दं प्र॒दिशि॒ यद्वि॒रोच॑ते॒ प्र चान॑ति॒ वि च॒ चष्टे॒ शची॑भिः । पु॒रा दे॒वस्य॒ धर्म॑णा॒ सहो॑भि॒र्विष्णु॑मग॒न्वरु॑णं पू॒र्वहू॑तिः ॥ 
ओ३म् विष्णो॒र्नु कं॒ प्रा वो॑चं वी॒र्या॑णि॒ यः पार्थि॑वानि विम॒मे रजां॑सि । यो अस्क॑भाय॒दुत्त॑रं स॒धस्थं॑ विचक्रमा॒णस्त्रे॒धोरु॑गा॒यः ॥ 
ओ३म् प्र तद्विष्णु॑ स्तवते वी॒र्या॑णि मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः । प॑रा॒वत॒ आ ज॑गम्या॒त्पर॑स्याः ॥ 
ओ३म् यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑नेष्वधिक्षि॒यन्ति॒ भुव॑नानि॒ विश्वा॑ । उ॒रु वि॑ष्णो॒ वि क्र॑मस्वो॒रु क्षया॑य नस्कृधि । घृ॒तम्घृ॑तयोने पिब॒ प्रप्र॑ य॒ज्ञप॑तिं तिर ॥ 
ओ३म् इ॒दं विष्णु॒र्वि च॑क्रमे त्रे॒धा नि द॑धे प॒दा । समू॑ढमस्य पंसु॒रे ॥ 
ओ३म् त्रीणि॑ प॒दा वि च॑क्रमे॒ विष्णु॑र्गो॒पा अदा॑भ्यः । इ॒तो धर्मा॑णि धा॒रय॑न् ॥ 
ओ३म् विष्णोः॒ कर्मा॑णि पश्यत॒ यतो॑ व्र॒तानि॑ पस्प॒शे । इन्द्र॑स्य॒ युज्यः॒ सखा॑ ॥ 
ओ३म् तद्विष्णोः॑ पर॒मं प॒दं सदा॑ पश्यन्ति सू॒रयः॑ । दि॒वीव॒ चक्षु॒रात॑तम् ॥ 
ओ३म् दि॒वो वि॑ष्ण उ॒त पृ॑थि॒व्या म॒हो वि॑ष्ण उ॒रोर॒न्तरि॑क्षात् । हस्तौ॑ पृणस्व ब॒हुभि॑र्वस॒व्यैरा॒प्रय॑छ॒ दक्षि॑णा॒दोत स॒व्यात् ॥

Saturday, 19 June 2021

क्षेत्रियरोगनाशन सूक्त (वंशानुगत रोग नाशक सूक्त)

                                             

                    क्षेत्रियरोगनाशन सूक्त (वंशानुगत रोग नाशक सूक्त)

ओ३म् उद॑गातां॒ भग॑वती वि॒चृतौ॒ नाम॒ तार॑के । वि क्षे॑त्रि॒यस्य॑ मुञ्चतामध॒मं पाश॑मुत्त॒मम् ॥ 

ओ३म् अपे॒यं रात्र्यु॑छ॒त्वपो॑छन्त्वभि॒कृत्व॑रीः । वी॒रुत्क्षे॑त्रिय॒नाश॒न्यप॑ क्षेत्रि॒यमु॑छतु ॥ 

ओ३म् ब॒भ्रोरर्जु॑नकाण्डस्य॒ यव॑स्य ते पला॒ल्या तिल॑स्य तिलपि॒ञ्ज्या । वी॒रुत्क्षे॑त्रिय॒नाश॒न्यप॑ क्षेत्रि॒यमु॑छतु ॥ 

ओ३म् नम॑स्ते॒ लाङ्ग॑लेभ्यो॒ नम॑ ईषायु॒गेभ्यः॑ । वी॒रुत्क्षे॑त्रिय॒नाश॒न्यप॑ क्षेत्रि॒यमु॑छतु ॥ 

ओ३म् नमः॑ सनिस्रसा॒क्षेभ्यो॒ नमः॑ संदे॒श्ये॑भ्यः । नमः॒ क्षेत्र॑स्य॒ पत॑ये वी॒रुत्क्षे॑त्रिय॒नाश॒न्यप॑ क्षेत्रि॒यमु॑छतु ॥