Tantra ;;;;;;;;;;;;;;;;;;;; --------------------- The Power of Everything :::::::::::::::::::::
प्राचीन और आधुनिक मंत्र तंत्र यन्त्र विधिया, स्तोत्र, और आगे विस्तरित,पाश्चात्य तंत्र, इलेक्ट्रोनिकी.
Blog Archive
Monday, 26 August 2024
Monday, 25 October 2021
Sanjivan Stotra
|| श्री पार्वती उवाच ||
देवेश परमानन्द भक्तनामभयं प्रद |
आगमाः निगमाश्चैव वीजं वीजोदयस्तथा ||
समुदायेन वीजानां मन्त्रो मंत्रस्य संहिता |
ऋषिच्छन्दादिकं भेदो वैदिकं यामलादिकं ||
धर्मोऽधर्मस्तथा ज्ञानं विज्ञानं च विकल्पन |
निर्विकल्प विभागेन तथा षट्कर्म सिद्धये ||
भुक्ति मुक्ति प्रकारश्च सर्वं प्राप्तं प्रसादतः |
कीलनं सर्वमंत्राणां शंसयद हृदये वचः ||
इति श्रुत्वा शिवानाथः पार्वत्या वचनं शुभं |
उवाच परया प्रीत्या मन्त्रोंत्कीलनकं शिवां ||
|| श्री शिवउवाच ||
वरानने हि सर्वस्य व्यक्ताव्यक्तस्य वस्तुनः |
साक्षी भूय त्वमेवासि जगतस्तु मनोस्तथा ||
त्वया पृष्टं वरारोहे तद वक्ष्याम्युतकीलनं |
उद्दीपनं हि मंत्रस्य सर्वस्योंत्कीलनं भवेत् ||
पुरा तव मया भद्रे समाकर्षण वश्यजा |
मंत्राणां कीलिता सिद्धिः सर्वे ते सप्तकोटयः ||
तवानुग्रह प्रीतस्त्वात सिद्धिस्तेषां फलप्रदा |
येनोपायेन भवति तं स्तोत्रं कथयाम्यहं ||
श्रुणु भद्रेऽत्र सततमावाभ्यामखिल जगत |
तस्य सिद्धिभवेत तिष्ठे माया येषां प्रभावकं ||
अन्नं पानं हि सौभाग्यं दत्तं तुभ्यं मया शिवे |
सञ्जीवनं च मंत्राणां तथा दत्तुम पुनर्ध्रुवं ||
यस्य स्मरण मात्रेण पाठेन जपतोऽपि वा |
अकीला अखिला मन्त्राः सत्यं सत्यं न संशयः ||"
|| सर्वयन्त्र मंत्र तन्त्रोंत्कीलन स्तोत्रम ||
|| विनियोगः ||
ॐ अस्य सर्वयन्त्र मन्त्र तंत्राणामुत्कीलन मन्त्र स्तोत्रस्य मूल प्रकृतिः ऋषिः जगतीच्छन्दः निरञ्जनो देवता क्लीं बीजं ह्रीं शक्तिः ह्रः सौं कीलकं सप्तकोटि मन्त्र यन्त्र तन्त्र कीलकानां सञ्जीवन सिद्धयर्थे जपे विनियोगः |
ऋष्यादिन्यासः
ॐ मूलप्रकृति ऋषये नमः शिरसि |
ॐ जगतीच्छन्दसे नमः मुखे |
ॐ निरञ्जन देवतायै नमः हृदि |
ॐ क्लीं बीजाय नमः गुह्ये |
ॐ ह्रीं शक्तये नमः पादयोः |
ॐ ह्रः सौं कीलकाय नमः सर्वाङ्गे |
मंत्राणां सञ्जीवन सिद्ध्यर्थे जपे विनियोगाय नमः अंजलौ |
करन्यास
ॐ ह्रां अङ्गुष्ठाभ्यां नमः |
ॐ ह्रीं तर्जनीभ्यां नमः |
ॐ ह्रूं मध्यमाभ्यां नमः |
ॐ ह्रैं अनामिकाभ्यां नमः |
ॐ ह्रां कनिष्ठिकाभ्यां नमः |
ॐ ह्रः करतलकरपृष्ठाभ्यां नमः |
हृदयादि न्यास
ॐ ह्रां हृदयाय नमः |
ॐ ह्रीं शिरसे स्वाहा |
ॐ ह्रूं शिखायै वौषट |
ॐ ह्रैं कवचाय हुम् |
ॐ ह्रां नेत्रत्रयाय वौषट |
ॐ ह्रः अस्त्राय फट |
अथ ध्यानम
ॐ ब्रह्मस्वरूपममलं च निरंजनं तँ ज्योतिः प्रकाशमनीषं महतो महान्तं |
कारुण्यरुपमति बोधकरं प्रसन्नं दिव्यं स्मरामि सततं मनु जीवनाय ||
एवं ध्यात्वा स्मरेन्नित्यं तस्य सिद्धिस्तु सर्वदा |
वाञ्छितं फलमाप्नोति मन्त्र सञ्जीवनं ध्रुवम ||
ॐ ह्रीं ह्रीं ह्रीं सर्व मन्त्र यन्त्र तंत्रादीनामुत्कीलनं कुरु कुरु स्वाहा ||
( १०८ वारं जपित्वा )
ॐ ह्रीं ह्रीं ह्रीं षट्पञ्चाक्षराणामुत्कीलय उत्कीलय स्वाहा |
ॐ जूँ सर्वमन्त्र यन्त्र तन्त्राणां सञ्जीवनं कुरु कुरु स्वाहा |
ॐ ह्रीं जूं अं आं इं ईं उं ऊं ऋं ॠ लृं लृं एम् ऐं ओं औं अं अः
कं खं गं घं ङ्गं चं छं जं झं ञं टं ठं डं ढं णं
तँ थं दं धं नं पं फं बं भं यं रं लं वं शं षं सं हं लं क्षं |
मात्राऽक्षराणां सर्व उत्कीलनं कुरु कुरु स्वाहा |
ॐ सोऽहं हंसोऽहं ( 11 )
ॐ जूं सोऽहं हंसः ( 11 )
ॐ ॐ ( 11 )
ॐ हं जूं हं सं गं ( 11 )
सोऽहं हंसो यं ( 11 )
लं ( 11 )
ॐ ( 11 )
यं ( 11 )
ॐ ह्रीं जूं सर्वमन्त्र यन्त्र तन्त्र स्तोत्र कवचादिनां सञ्जीवय सञ्जीवय कुरु कुरु स्वाहा |
ॐ सोऽहं हंसः ॐ सञ्जीवनं स्वाहा | ॐ ह्रीं मन्त्राक्षराणामुत्कीलय उत्कीलनं कुरु कुरु स्वाहा |
ॐ ॐ प्रणवरूपाय अं आं परम रूपिणे | इं ईं शक्तिस्वरूपाय |
उं ऊं तेजोमयाय च | ऋं ऋं रञ्जितदीप्ताय स्वाहा |
लृं लृ स्थूलस्वरूपिणे | एम् ऐं वाचां विलासाय |
ओं औं अं अः शिवाय च | कं खं कमलनेत्राय |
गं घं गरुड़गामिने | ङ्गं चं श्रीचन्द्रभालाय |
छं जं जयकराय च | झं ञं टं ठं जयकर्त्रे,डं ढं णं तं पराय च |
थं दं धं नं नमस्तस्मै पं फं यन्त्रमयाय च |
बं भं मं बलवीर्याय यं रं लं यशसे नमः |
वं शं षं बहुवादाय सं हं ळं क्षं स्वरूपिणे |
दिशामादित्य रूपाय तेजसे रुपधारिणे |
अनन्ताय अनन्ताय नमस्तस्मै नमो नमः ||
मातृकायाः प्रकाशायै तुभ्यं तस्मै नमो नमः |
प्राणेशायै क्षीणदायै सं सञ्जीव नमो नमः ||
निरञ्जनस्य देवस्य नामकर्म विधानतः |
त्वया ध्यानं च शक्त्या च तेन सञ्जायते जगत ||
स्तुता महमचिरं ध्यात्वा मायायाँ ध्वंस हेतवे |
संतुष्टा भार्गवायाहं यशस्वी जायते हि सः ||
ब्रह्माणं चेतयन्ती विविधसुर नरास्तर्पयन्ती प्रमोदाद |
ध्यानेनोद्दीपयन्ती निगम जप मनुं षट्पदं प्रेरयन्ती ||
सर्वान्देवाँ जयन्ती दितिसुत दमनी साप्यहँकारमूर्ति |
स्तुभ्यं तस्मै च जाप्यं स्मर रचित मनुं मोचये शाप जाळात ||
इदं श्रीत्रिपुरा स्तोत्रं पठेद भक्त्या तु यो नरः |
सर्वांकामानवाप्नोति सर्वशापाद विमुच्यते ||
|| इति ||
Shanti Path
नश्यन्तु प्रेत कूष्माण्डा नश्यन्तु दूषका नरा:
साधकानां शिवाः सन्तु आम्नाय परिपालिनाम ।
जयन्ति मातरः सर्वा जयन्ति योगिनी गणाः
जयन्ति सिद्ध डाकिन्यो जयन्ति गुरु पन्क्तयः ॥1॥
जयन्ति साधकाः सर्वे विशुद्धाः साधकाश्च ये
समयाचार संपन्ना जयन्ति पूजका नराः।
नन्दन्तु चाणिमासिद्धा नन्दन्तु कुलपालकाः
इन्द्राद्या देवता सर्वे तृप्यन्तु वास्तु देवतः॥2॥
चन्द्रसूर्यादयो देवास्तृप्यन्तु मम भक्तितः
नक्षत्राणि ग्रहाः योगाः करणा राशयश्च ये।
सर्वे ते सुखिनो यान्तु सर्पा नश्यन्तु पक्षिणः
पशवस्तुरगाश्चैव पर्वताः कन्दरा गुहाः॥3॥
ऋषयो ब्राह्मणाः सर्वे शान्तिम कुर्वन्तु सर्वदा
स्तुता मे विदिताःसन्तु सिद्धास्तिष्ठन्तु पूजकाः।
ये ये पापधियस्सुदूषणरतामन्निन्दकाः पूजने
वेदाचार विमर्द नेष्ट हृदया भ्रष्टाश्च ये साधकाः॥4॥
दृष्ट्वा चक्रम्पूर्वमन्दहृदया ये कौलिका दूषकास्ते
ते यान्तु विनाशमत्र समये शिवाज्ञया।
द्वेष्टारः साधकानां च सदैवाम्नाय दूषकाः
डाकिनीनां मुखे यान्तु तृप्तास्तत्पिशितै स्तुताः॥5॥
ये वा शक्तिपरायणाः शिवपरा ये वैष्णवाः साधवः
सर्वस्मादखिले सुराधिपमजं सेव्यं सुरै संततम।
शक्तिं विष्णुधिया शिवंचसुधियाश्रीकृष्णबुद्धयाच ये
सेवन्ते त्रिपुरं त्वभेदमतयो गच्छन्तु मोक्षन्तु ते॥6॥
शत्रवो नाशमायान्तु मम निन्दाकराश्च ये
द्वेष्टारः साधकानां च ते नश्यन्तु शिवाज्ञया।
तत्परं पठेत स्तोत्रमानंदस्तोत्रमुत्तमम
सर्वसिद्धि भवेत्तस्य सर्वलाभो प्रणाश्यति॥7॥
Wednesday, 23 June 2021
जल चिकित्सा सूक्त
जल चिकित्सा सूक्त
ओ३म् अ॒म्बयो॑ य॒न्त्यध्व॑भिर्जा॒मयो॑ अध्वरीय॒ताम् । पृ॑ञ्च॒तीर्मधु॑ना॒ पयः॑ ॥
ओ३म् अ॒मूर्या उप॒ सूर्ये॒ याभि॑र्वा॒ सूर्यः॑ स॒ह । ता नो॑ हिन्वन्त्वध्व॒रम् ॥
ओ३म् अ॒पो दे॒वीरुप॑ ह्वये॒ यत्र॒ गावः॒ पिब॑न्ति नः । सिन्धु॑भ्यः॒ कर्त्वं॑ ह॒विः ॥
ओ३म् अ॒प्स्व॑१न्तर॒मृत॑म॒प्सु भे॑ष॒जम् । अ॒पामु॒त प्रश॑स्तिभि॒रश्वा॒ भव॑थ वा॒जिनो॒ गावो॑ भवथ वा॒जिनीः॑ ॥
ओ३म् आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से ॥
ओ३म् यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ । उ॑श॒तीरि॑व मा॒तरः॑ ॥
ओ३म् तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ॥
ओ३म् ईशा॑ना॒ वार्या॑णां॒ क्षय॑न्तीश्चर्षणी॒नाम् । अ॒पो या॑चामि भेष॒जम् ॥
ओ३म् शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑ । शं योर॒भि स्र॑वन्तु नः ॥
ओ३म् अ॒प्सु मे॒ सोमो॑ अब्रवीद॒न्तर्विश्वा॑नि भेष॒जा । अ॒ग्निं च॑ वि॒श्वशं॑भुवम् ॥
ओ३म् आपः॑ पृणी॒त भे॑ष॒जं वरू॑थं त॒न्वे॑३ मम॑ । ज्योक्च॒ सूर्यं॑ दृ॒शे ॥
ओ३म् शं न॒ आपो॑ धन्व॒न्या॑३ शमु॑ सन्त्वनू॒प्याः॑ । शं नः॑ खनि॒त्रिमा॒ आपः॒ शमु॒ याः कु॒म्भ आभृ॑ताः । शि॒वा नः॑ सन्तु॒ वार्षि॑कीः ॥
सप्तऋषय ऋषि (मनोकामना पूर्ति प्रयोग)
सप्तऋषय ऋषय:
ओ3म् सप्त तेऽअग्ने समिधः सप्त जिह्वाः सप्त ऋषयः सप्त धाम प्रियाणि । सप्त होत्राः सप्तधा त्वा यजन्ति सप्त योनीरापृणस्व घृतेन स्वाहा
ओ3म् शुक्रज्योतिश्च चित्रज्योतिश्च सत्यज्योतिश्च ज्योतिष्माँश्च । शुक्रश्चऽऋतपाश्चात्यँहाः
ओ3म् ईदृङ्चान्यदृङ्च सदृङ्च प्रतिसदृङ्च । मितश्च सम्मितश्च सभराः
ओ3म् ऋतश्च सत्यश्च धु्रवश्च धरुणश्च । धर्ता च विधर्ता च विधारयः
ओ3म् ऋतजिच्च सत्यजिच्च सेनजिच्च सुषेणश्च । अन्तिमित्रश्च दूरेअमित्रश्च गणः
ओ3म् ईदृक्षास एतादृक्षासऽऊ षु णः सदृक्षासः प्रतिसदृक्षासऽएतन । मितासश्च सम्मितासो नोऽअद्य सभरसो मरुतो यज्ञे अस्मिन्
ओ3म् स्वतवाँश्च प्रघासी च सान्तपनश्च गृहमेधी च । क्रीडी च शाकी चोज्जेषी
ओ3म् इन्द्रन्दैवीर्विशो मरुतोनुवर्त्मानो भवन्यथेन्द्रन्दैवीर्विशो मरुतोनुवर्त्मानोभवन् । एवमिमँयजमानन्दैवीश्च विशो मानुषीश्चानुवर्त्मानो भवन्तु
ओ3म् इमँ स्तनमूर्जस्वन्तन्धयापाम्प्रपीनमग्ने सरिरस्य मध्ये । उत्सञ्जुषस्व मधुमन्तमर्वन्त्समुद्रियँ सदनमाविशस्व
वत्स ऋषि (for Easy Life)
वत्स ऋषि (for Easy Life)
ओ३म् त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा । त्वँय॒ज्ञेष्वीड्यः॑ । रास्वेय॑त्सो॒मा भूयो॑ भर दे॒वो नः॑ सवि॒ता वसो॑र्दा॒ता वस्व॑दात् ॥
ओ३म् ए॒षा ते॑ शुक्र त॒नूरे॒तद्वर्च॒स्तया॒ सम्भ॑व॒ भ्राजङ्गच्छ । जूर॑सि धृ॒ता मन॑सा॒ जुष्टा॒ विष्ण॑वे ॥
ओ३म् तस्या॑स्ते स॒त्यस॑वसः प्रस॒वे त॒न्वो॑ य॒न्त्रम॑शीय॒ स्वाहा॑ । शु॒क्रम॑सि च॒न्द्रम॑स्य॒मृत॑मसि वैश्वदे॒वम॑सि ॥
ओ३म् चिद॑सि म॒नासि॒ धीर॑सि॒ दक्षि॑णासि क्ष॒त्रिया॑सि य॒ज्ञिया॒स्यदि॑तिरस्युभयतःशी॒र्ष्णी । सा नः॒ सुप्रा॑ची॒ सुप्र॑तीच्येधि मि॒त्रस्त्वा॑ प॒दि ब॑ध्नीताम्पू॒षाध्व॑नस्पा॒त्विन्द्रा॒याधक्षाय ॥
ओ३म् अनु॑ त्वा मा॒ता म॑न्यता॒मनु॑ पि॒तानु॒ भ्राता॒ सग॒र्भ्यो नु॒ सखा॒ सयू॑थ्यः । सा दे॑वि दे॒वमच्छे॒हीन्द्रा॑य॒ सोमᳯ रु॒द्रस्त्वा व॑र्तयतु स्व॒स्ति सोमसखा॒ पुन॒रेहि॑ ॥
ओ३म् वस्व्य॒स्यदि॑तिरस्यादि॒त्यासि॑ रु॒द्रासि॑ च॒न्द्रासि॑ । बृह॒स्पति॑ष्ट्वा सु॒म्ने र॑म्णातु रु॒द्रो वसु॑भि॒रा च॑के ॥
ओ३म् अदि॑त्यास्त्वा मू॒र्धन्ना जि॑घर्मि देव॒यज॑ने पृथि॒व्या इडा॑यास्प॒दम॑सि घृ॒तव॒त्स्वाहा॑ । अ॒स्मे र॑मस्वास्मे ते॒ बन्धुस्त्वे रायो मे रायो मा व॒यᳯ रा॒यस्पोषे॑ण॒ वि यौ॑ष्म तोतो॒ रायः॑ ॥
ओ३म् सम॑ख्ये दे॒व्या धि॒या सन्दक्षि॑णयो॒रुच॑क्षसा मा म॒ आयुः॒ प्र मो॑षी॒र्मो अ॒हन्तव॑ वी॒रँवि॑देय॒ तव॑ देवि सन्दृशि॑ ॥
ओ३म् ए॒ष ते॑ गाय॒त्रो भा॒ग इति॑ मे॒ सोमा॑य ब्रूतादे॒ष ते त्रैष्टुभो भा॒ग इति॑ मे॒ सोमा॑य ब्रूतादे॒ष ते॒ जाग॑तो भा॒ग इति॑ मे॒ सोमा॑य ब्रूताच्छन्दोना॒माना साम्रा॑ज्यङ्ग॒च्छेति॑ मे॒ सोमा॑य ब्रूतादास्मा॒को॑सि शु॒क्रस्ते॒ ग्रह्यो॑ वि॒चित॑स्त्वा॒ विचि॑न्वन्तु ॥
ओ३म् अ॒भि त्यं दे॒वᳯ स॑वि॒तार॑मो॒ण्योः॑ क॒विक्र॑तु॒मर्चा॑मि स॒त्यस॑वᳯ रत्न॒धाम॒भि प्रि॒यम्म॒तिङ्क॒विम् । ऊ॒र्ध्वा यस्या॒मति॒र्भा अदि॑द्युत॒त्सवी॑मनि॒ हिर॑ण्यपाणिरमिमीत सु॒क्रतुः॑ कृ॒पा स्वः॑ । प्र॒जाभ्य॑स्त्वा । प्र॒जास्त्वा॑नु॒प्राण॑न्तु प्र॒जास्त्वम॑नु॒प्राणि॑हि ॥
ओ३म् शु॒क्रन्त्वा॑ शु॒क्रेण॑ क्रीणामि च॒न्द्रञ्च॒न्द्रेणा॒मृत॑म॒मृते॑न । स॒ग्मे ते॒ गोर॒स्मे ते॑ च॒न्द्राणि॑ तप॑सस्त॒नूर॑सि प्र॒जाप॑ते॒र्वर्णः॑ पर॒मेण॑ प॒शुना॑ क्रीयसे सहस्रपो॒षम्पु॑षेयम् ॥
ओ३म् मि॒त्रो न॒ एहि॒ सुमि॑त्रधः इन्द्र॑स्यो॒रुमा वि॑श॒ दक्षि॑णमु॒शन्नु॒शन्त स्यो॒नः स्यो॒नम् । स्वान॒ भ्राजा॑ङ्घारे॒ बम्भा॑रे॒ हस्त॒ सुह॑स्त॒ कृशा॑नोवेते वः॑ सोम॒क्रय॑णा॒स्तान्र॑क्षध्वम्मा वो॑ दभन् ॥
ओ३म् परि॑ माग्ने॒ दुश्च॑रिताद्बाध॒स्वा मा॒ सुच॑रिते भज । उदायु॑षा स्वा॒युषोद॑स्थाम॒मृताँ॒ अनु॑ ॥
ओ३म् प्रति॒ पन्था॑मपद्महि स्वस्ति॒गाम॑ने॒हस॑म् येन॒ विश्वाः॒ परि॒ द्विषो॑ वृ॒णक्ति॑ वि॒न्दते॒ वसु॑ ॥
ओ३म् अदि॑त्या॒स्त्वग॑सि अदि॑त्यै॒ सद॒ आ सी॑द । अस्त॑भ्ना॒द्द्याँ वृ॑ष॒भो अ॒न्तरि॑क्ष॒ममि॑मीत वरि॒माणम्पृथि॒व्याः । आसी॑द॒द्विश्वा॒ भुव॑नानि स॒म्राड्विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि॑ ॥
ओ३म् वने॑षु॒ व्य॒न्तरि॑क्षन्ततान॒ वाज॒मर्व॑त्सु॒ पय॑ उ॒स्रिया॑सु हृ॒त्सु क्रतुँ वरु॑णो वि॒क्ष्व॒ग्निन्दि॒वि सूर्य॑मदधा॒त्सोम॒मद्रौ॑ ॥
ओ३म् सूर्य॑स्य॒ चक्षु॒रारो॑हा॒ग्नेर॒क्ष्णः क॒नीन॑कम् । यत्रै॑त्रशेभि॒रीय॑से॒ भ्राज॑मानो विप॒श्चिता॑ ॥
ओ३म् उस्रा॒वेतन्धूर्षाहौ यु॒ज्येथा॑मन॒श्रू अवी॑रहणौ ब्रह्म॒चोद॑नौ । स्व॒स्ति यज॑मानस्य गृ॒हान्ग॑च्छतम् ॥
ओ३म् भ॒द्रो मे॑सि॒ प्रच्य॑वस्व भुवस्पते॒ विश्वा॑न्य॒भि धामा॑नि । मा त्वा॑ परिप॒रिणो॑ विद॒न्मा त्वा॑ परिप॒न्थिनो॑ विद॒न्मा वृका॑ अघा॒यवो॑ विदन् । श्ये॒नो भू॒त्वा परा॑ पत॒ यज॑मानस्य गृ॒हान्ग॑च्छ॒ तन्नौ॑ सँस्कृ॒तम् ॥
ओ३म् नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑से म॒हो दे॒वाय॒ तदृ॒तᳯ स॑पर्यत । दू॑रे॒दृशे॑ दे॒वजा॑ताय के॒तवे॑ दि॒वस्पु॒त्राय॒ सूर्या॑य शᳯसत ॥
ओ३म् वरु॑णस्यो॒त्तम्भ॑नमसि वरु॑णस्य स्कम्भ॒सर्ज॑नी स्थो वरु॑णस्य ऋत॒सद॑न्यसि॒ वरु॑णस्य ऋत॒सद॑नमसि वरु॑णस्य ऋत॒सद॑न॒मा सी॑द ॥
ओ३म् म॒हाँऽइन्द्रो॒ य ओज॑सा प॒र्जन्यो॒ वृष्टि॑माँऽइव स्तोमै॑र्व॒त्सस्य॑ वावृधे । उ॑पया॒मगृ॑हीतो सि महे॒न्द्राय॑ त्वैष ते॒ योनि॑र्महे॒न्द्राय॑ त्वा ॥
ओ३म् उ॑पह्व॒रे गि॑री॒णा स॑ङ्ग॒मे च॑ नदी॒नाम् । धि॒या विप्रो॑ऽअजायत॥
वशागौ सूक्त
वशागौ सूक्त
ओ3म् नमस्ते जायमानायै जाताया उत ते नमः । बालेभ्यः शफेभ्यो रूपायाघ्न्ये ते नमः
ओ3म् यो विद्यात्सप्त प्रवतः सप्त विद्यात्परावतः । शिरो यज्ञस्य यो विद्यात्स वशां प्रति गृह्णीयात्
ओ3म् वेदाहं सप्त प्रवतः सप्त वेद परावतः । शिरो यज्ञस्याहं वेद सोमं चास्यां विचक्षणम्
ओ3म् यया द्यौर्यया पृथिवी ययापो गुपिता इमाः । वशां सहस्रधारां ब्रह्मणाछावदामसि
ओ3म् शतं कंसाः शतं दोग्धारः शतं गोप्तारो अधि पृष्ठे अस्याः । ये देवास्तस्यां प्राणन्ति ते वशां विदुरेकधा
ओ3म् यज्ञपदीराक्षीरा स्वधाप्राणा महीलुका । वशा पर्जन्यपत्नी देवामप्येति ब्रह्मणा
ओ3म् अनु त्वाग्निः प्राविशदनु सोमो वशे त्वा । ऊधस्ते भद्रे पर्जन्यो विद्युतस्ते स्तना वशे
ओ3म् अपस्त्वं धुक्षे प्रथमा उर्वरा अपरा वशे । तृतीयं राष्ट्रं धुक्षेऽन्नं क्षीरं वशे त्वम्
ओ3म् यदादित्यैर्हूयमानोपातिष्ठ ऋतवरि । इन्द्रः सहस्रं पात्रान्त्सोमं त्वापाययद्वशे
ओ3म् यदनूचीन्द्रमैरात्त्वा ऋषभोऽह्वयत्। तस्मात्ते वृत्रहा पयः क्षीरं क्रुद्धोऽहरद्वशे
ओ3म् यत्ते क्रुद्धो धनपतिरा क्षीरमहरद्वशे । इदं तदद्य नाकस्त्रिषु पात्रेषु रक्षति
ओ3म् त्रिषु पात्रेषु तं सोममा देव्यहरद्वशा । अथर्वा यत्र दीक्षितो बर्हिष्यास्त हिरण्यये
ओ3म् सं हि सोमेनागत समु सर्वेण पद्वता । वशा समुद्रमध्यष्ठद्गन्धर्वैः कलिभिः सह
ओ3म् सं हि वातेनागत समु सर्वैः पतत्रिभिः । वशा समुद्रे प्रानृत्यदृचः सामानि बिभ्रती
ओ3म् सं हि सूर्येणागत समु सर्वेण चक्षुषा । वशा समुद्रमत्यख्यद्भद्रा ज्योतींषि बिभ्रती
ओ3म् अभीवृता हिरण्येन यदतिष्ठ ऋतावरि । अश्वः समुद्रो भूत्वाध्यस्कन्दद्वशे त्वा
ओ3म् तद्भद्राः समगछन्त वशा देर्ष्ट्यथो स्वधा । अथर्वा यत्र दीक्षितो बर्हिष्यास्त हिरण्यये
ओ3म् वशा माता राजन्यस्य वशा माता स्वधे तव । वशाया यज्ञ आयुधं ततश्चित्तमजायत
ओ3म् ऊर्ध्वा बिन्दुरुदचरद्ब्रह्मणः ककुदादधि । ततस्त्वं जज्ञिषे वशे ततो होताजायत
ओ3म् आस्नस्ते गाथा अभवन्न् उष्णिहाभ्यो बलं वशे । पाजस्याज्जज्ञे यज्ञ स्तनेभ्यो रश्मयस्तव
ओ3म् ईर्माभ्यामयनं जातं सक्थिभ्यां च वशे तव । आन्त्रेभ्यो जज्ञिरे अत्रा उदरादधि वीरुधः
ओ3म् यदुदरं वरुणस्यानुप्राविशथा वशे । ततस्त्वा ब्रह्मोदह्वयत्स हि नेत्रमवेत्तव
ओ3म् सर्वे गर्भादवेपन्त जायमानादसूस्वः । ससूव हि तामाहु वशेति ब्रह्मभिः कॢप्तः स ह्यस्या बन्धुः
ओ3म् युध एकः सं सृजति यो अस्या एक इद्वशी । तरांसि यज्ञा अभवन् तरसां चक्षुरभवद्वशा
ओ3म् वशा यज्ञं प्रत्यगृह्णाद्वशा सूर्यमधारयत्। वशायामन्तरविशदोदनो ब्रह्मणा सह
ओ3म् वशामेवामृतमाहुर्वशां मृत्युमुपासते । वशेदं सर्वमभवद्देवा मनुष्या असुराः पितर ऋषयः
ओ3म् य एवं विद्यात्स वशां प्रति गृह्णीयात्। तथा हि यज्ञः सर्वपाद्दुहे दात्रेऽनपस्फुरन्
ओ3म् तिस्रो जिह्वा वरुणस्यान्तर्दीद्यत्यासनि । तासां या मध्ये राजति सा वशा दुष्प्रतिग्रहा
ओ3म् चतुर्धा रेतो अभवद्वशायाः । आपस्तुरीयममृतं तुरीयं यज्ञस्तुरीयं पशवस्तुरीयम्
ओ3म् वशा द्यौर्वशा पृथिवी वशा विष्णुः प्रजापतिः । वशाया दुग्धमपिबन्त्साध्या वसवश्च ये
ओ3म् वशाया दुग्धं पीत्वा साध्या वसवश्च ये । ते वै ब्रध्नस्य विष्टपि पयो अस्या उपासते
ओ3म् सोममेनामेके दुह्रे घृतमेक उपासते । य एवं विदुषे वशां ददुस्ते गतास्त्रिदिवं दिवः
ओ3म् ब्राह्मणेभ्यो वशां दत्त्वा सर्वांल्लोकान्त्समश्नुते । ऋतं ह्यस्यामार्पितमपि ब्रह्माथो तपः
ओ3म् वशां देवा उप जीवन्ति वशां मनुष्या उत । वशेदं सर्वमभवद्यावत्सूर्या विपश्यति