Blog Archive

Wednesday, 20 May 2020

॥ गरुडोपनिषत् ॥

॥ गरुडोपनिषत् ॥

विषं ब्रह्मातिरिक्तं स्यादमृतं ब्रह्ममात्रकम् ।
ब्रह्मातिरिक्तं विषवद्ब्रह्ममात्रं खगेडहम् ॥

ॐ भद्रं कर्णेभिः श‍ृणुयाम देवाः ॥ भद्रं पश्येमाक्षभिर्यजत्राः ॥

स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः ॥ व्यशेम देवहितं यदायुः ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः ॥ स्वस्ति नः पूषा विश्ववेदाः ॥

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥ स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

हरिः ॐ ॥ गारुडब्रह्मविद्यां प्रवक्ष्यामि यां ब्रह्मा विद्यां
नारदाय प्रोवाच नारदो बृहत्सेनाय बृहत्सेन इन्द्राय इन्द्रो
भरद्वाजाय भरद्वाजो जीवत्कामेभ्यः शिष्येभ्यः प्रायच्छत् ।
अस्याः श्रीमहागरुडब्रह्मविद्याया ब्रह्मा ऋषिः । गायत्री छन्दः ।
श्रीभगवान्महागरुडो देवता । श्रीमहागरुडप्रीत्यर्थे मम
सकलविषविनाशनार्थे जपे विनियोगः । ॐ नमो भगवते
अङ्गुष्ठाभ्यां नमः । श्री महागरुडाय तर्जनीभ्यां स्वाहा ।
पक्षीन्द्राय मध्यमाभ्यां वषट् । श्रीविष्णुवल्लभाय
अनामिकाभ्यां हुम् । त्रैलोक्य परिपूजिताय कनिष्ठिकाभ्यां वौषट् ।
उग्रभयङ्करकालानलरूपाय करतलकरपृष्ठाभ्यां फट् ।
एवं हृदयादिन्यासः । भूर्भुवः सुवरोमिति दिग्बन्धः । ध्यानम् ।
स्वस्तिको दक्षिणं पादं वामपादं तु कुञ्चितम् ।
प्राञ्जलीकृतदोर्युग्मं गरुडं हरिवल्लभम् ॥ १॥

अनन्तो वामकटको यज्ञसूत्रं तु वासुकिः ।
तक्षकाः कटिसूत्रं तु हारः कार्कोट उच्यते ॥ २॥

पद्मो दक्षिणकर्णे तु महापद्मस्तु वामके ।
शङ्खः शिरःप्रदेशे तु गुलिकस्तु भुजान्तरे ॥ ३॥

पौण्ड्रकालिकनागाभ्यां चामराभ्यां स्वीजितम् ।
एलापुत्रकनागाद्यैः सेव्यमानं मुदान्वितम् ॥ ४॥

कपिलाक्षं गरुत्मन्तं सुवर्णसदृशप्रभम् ।
दीर्घबाहुं बृहत्स्कन्धं नादाभरणभूषितम् ॥ ५॥

आजानुतः सुवर्णाभमाकट्योस्तुहिनप्रभम् ।
कुङ्कुमारुणमाकण्ठं शतचन्द्र निभाननम् ॥ ६॥

नीलाग्रनासिकावक्त्रं सुमहच्चारुकुण्डलम् ।
दंष्ट्राकरालवदनं किरीटमुकुटोज्ज्वलम् ॥ ७॥

कुङ्कुमारुणसर्वाङ्गं कुन्देन्दुधवलाननम् ।
विष्णुवाह नमस्तुभ्यं क्षेमं कुरु सदा मम ॥ ८॥

एवं ध्यायेत्त्रिसन्ध्यासु गरुडं नागभूषणम् ।
विषं नाशयते शीघ्रं तूलरशिमिवानलः ॥ ९॥

ओमीमों नमो भगवते श्रीमहागरुडाय पक्षीन्द्राय
विष्णुवल्लभाय त्रैलोक्यपरिपूजिताय उग्रभयंकरकालानलरूपाय
वज्रनखाय वज्रतुण्डाय वज्रदन्ताय वज्रदंष्ट्राय
वज्रपुच्छाय वज्रपक्षालक्षितशरीराय ओमीकेह्येहि
श्रीमहागरुडाप्रतिशासनास्मिन्नाविशाविश दुष्टानां
विषं दूषयदूषय स्पृष्टानां नाशयनाशय
दन्दशूकानां विषं दारयदारय प्रलीनं विषं
प्रणाशयप्रणाशय सर्वविषं नाशयनाशय हनहन
दहदह पचपच भस्मीकुरुभस्मीकुरु हुं फट् स्वाहा ॥

चन्द्रमण्डलसंकाश सूर्यमण्डलमुष्टिक ।
पृथ्वीमण्डलमुद्राङ्ग श्रीमहागरुडाय विषं
हरहर हुं फट् स्वाहा ॥ ॐ क्षिप स्वाहा ॥ ओमीं
सचरति सचरति तत्कारी मत्कारी विषाणां च विषरूपिणी
विषदूषिणी विषशोषणी विषनाशिनी विषहारिणी
हतं विषं नष्टं विषमन्तःप्रलीनं विषं प्रनष्टं
विषं हतं ते ब्रह्मणा विषं हतमिन्द्रस्य वज्रेण स्वाहा ॥

ॐ नमो भगवते महागरुडाय विष्णुवाहनाय
त्रैलोक्यपरिपूजिताय वज्रनखवज्रतुण्डाय वज्रपक्षालंकृत-
शरीराय एह्येहि महागरुड विषं छिन्धिच्छिन्धि
आवेशयावेशय हुं फट् स्वाहा ॥

सुपर्णोऽसि गरुत्मात्त्रिवृत्ते शिरो गायत्रं चक्षुः स्तोम आत्मा
साम ते तनूर्वमदेव्यं बृहद्रथन्तरे पक्षौ यज्ञायज्ञियं
पुच्छं छन्दांस्यङ्गानि धिष्णिया शफा यजूंशि नाम ॥

सुपर्णोऽसि गरुत्मान्दिवं गच्छ सुवः पत ओमीं ब्रह्मविद्या-
ममावास्यायां पौर्णमास्यां पुरोवाच सचरति सचरति
तत्कारी मत्कारी विषनाशिनी विषदूषिणी विषहारिणी हतं
विषं नष्टं विषं प्रनष्टं विषं हतमिन्द्रस्य वज्रेण स्वाहा ॥

तस्र्यम् । यद्यनन्तकदूतोऽसि यदि वानन्तकः स्वयं सचरति सचरति
तत्कारी मत्कारी विषनाशिनी विषदूषिणी हतं विषं नष्टं
विषं हतमिन्द्रस्य वज्रेण विषं हतं ते ब्रह्मणा विषमिन्द्रस्य
वज्रेण स्वाहा ।
यदि वासुकिदूतोऽसि यदि वा वासुकिः स्वयं सचरति सचरति
तत्कारी मत्कारी विषनाशिनी विषदूषिणी हतं विषं
नष्टं विषं हतमिन्द्रस्य वज्रेण विषं हतं ते ब्रह्मणा
विषमिन्द्रस्य वज्रेण स्वाहा यदि वा तक्षकः स्वयं सचरति
सचरति तत्कारी मत्कारी विषनाशिनी विषदूषिणी हतं विषं
नष्टं विषं हतमिन्द्रस्य वज्रेण विषं हतं ब्रह्मणा
विषमिन्द्रस्य वज्रेण स्वाहा ॥

यदि कर्कोटकदूतोऽसि यदि वा कर्कोटकः स्वयं सचरति सचरति
तत्कारी मत्कारी विषनाशिनी विषदूषिणी हतं विषं नष्टं विषं
हतमिन्द्रस्य वज्रेण विषं हतं ते ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा ॥

यदि पद्मकदूतोऽसि यदि वा पद्मकः स्वयं सचरति सचरति
तत्कारी मत्कारी विषनाशिनी विषदूषिणी हतं विषं
नष्टं विषं हतमिन्द्रस्य वज्रेण विषं हतं ते ब्रह्मणा
विषमिन्द्रस्य वज्रेण स्वाहा ॥

यदि महापद्मकदूतोऽसि यदि वा महापद्मकः स्वयं
सचरति सचरति तत्कारी मत्कारी विषनाशिनी विषदूषिणी हतं
विषं नष्टं विषं हतमिन्द्रस्य वज्रेण विषं हतं ते ब्रह्मणा
विषमिन्द्रस्य वज्रेण स्वाहा ॥

यदि शङ्खकदूतोऽसि यदि वा शङ्खकः स्वयं
सचरति सचरति तत्कारी मत्कारी विषनाशिनी विषदूषिणी
हतं विषं नष्टं विषं हतमिन्द्रस्य वज्रेण विषं
हतं ते ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा ॥

यदि गुलिकदूतोऽसि यदि वा गुलिकः स्वयं सचरति सचरति
तत्कारी मत्कारी विषनाशिनी विषदूषिणी विषहारिणी
हतं विषं नष्टं विषं हतमिन्द्रस्य वज्रेण विषं
हतं ते ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा ॥

यदि पौण्ड्रकालिकदूतोऽसि यदि वा पौण्ड्रकालिकः स्वयं
सचरति सचरति तत्कारी मत्कारी विषनाशिनी विषदूषिणी
विषहारिणी हतं विषं नष्टं विषं हतमिन्द्रस्य वज्रेण
विषं हतं ते ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा ॥

यदि नागकदूतोऽसि यदि वा नागकः स्वयं सचरति सचरति
तत्कारी मत्कारी विषनाशिनी विषदूषिणी विषहारिणी हतं
विषं नष्टं विषं हतमिन्द्रस्य वज्रेण विषं हतं ते
ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा ॥

यदि लूतानां प्रलूतानां यदि वृश्चिकानां यदि घोटकानां
यदि स्थावरजङ्गमानां सचरति सचरति तत्कारी मत्कारी
विषनाशिनी विषदूषिणी विषहारिणी हतं विषं नष्टं
विषं हतमिन्द्रस्य वज्रेण विषं हतं ते ब्रह्मणा विषमिन्द्रस्य
वज्रेण स्वाहा । अनन्तवासुकितक्षककर्कोटकपद्मकमहापद्मक-
शङ्खकगुलिकपौण्ड्रकालिकनागक इत्येषां दिव्यानां
महानागानां महानागादिरूपाणां विषतुण्डानां विषदन्तानां
विषदंष्ट्राणां विषाङ्गानां विषपुच्छानां विश्वचाराणां
वृश्चिकानां लूतानां प्रलूतानां मूषिकाणां गृहगौलिकानां
गृहगोधिकानां घ्रणासानां गृहगिरिगह्वरकालानलवल्मीकोद्भूतानां
तार्णानां पार्णानां काष्ठदारुवृक्षकोटरस्थानां
मूलत्वग्दारुनिर्यासपत्रपुष्पफलोद्भूतानां दुष्टकीटकपिश्वान-
मार्जारजंबुकव्याघ्रवराहाणां जरायुजाण्डजोद्भिज्जस्वेदजानां
शस्त्रबाणक्षतस्फोटव्रणमहाव्रणकृतानां कृत्रिमाणामन्येषां
भूतवेतालकूष्माण्डपिशाचप्रेतराक्षसयक्षभयप्रदानां
विषतुण्डदंष्ट्रानां विषाङ्गानां विषपुच्छानां विषाणां
विषरूपिणी विषदूषिणी विषशोषिणी विषनाशिनी विषहारिणी
हतं विषं नष्टं विषमन्तःप्रलीनं विषं प्रनष्टं विषं हतं ते
ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा । य इमां ब्रह्मविद्याममावास्यायां
पठेच्छृणुयाद्वा यावज्जीवं न हिंसन्ति सर्पाः । अष्टौ ब्राह्मणान्ग्राहयित्वा
तृणेन मोचयेत् । शतं ब्राह्मणान्ग्राहयित्वा चक्षुषा मोचयेत् ।
सहस्रं ब्राह्मणान्ग्राहयित्वा मनसा मोचयेत् । सर्पाञ्जले न मुञ्चन्ति ।
तृणे न मुञ्चन्ति । काष्ठे न मुञ्चन्तीत्याह भगवान्ब्रह्मेत्युपनिषत् ॥

ॐ भद्रं कर्णेभिः श‍ृणुयाम देवाः ॥ भद्रं पश्येमाक्षभिर्यजत्राः ॥

स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः ॥ व्यशेम देवहितं यदायुः ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः ॥ स्वस्ति नः पूषा विश्ववेदाः ॥

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥ स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥

इति श्रीगारुडोपनिषत्समाप्ता ॥

।विष्णु सूक्तं।

।विष्णु सूक्तं।

ॐ विष्णोर्नुकं वीर्याणि प्रवोचं यः पार्थिवानि
विममे रजाꣳसि यो अस्कभायदुत्तरꣳ सधस्थं
विचक्रमाणस्त्रेधोरुगायो विष्णोरराटमसि विष्णोः
पृष्ठमसि विष्णोः श्नप्त्रेस्थो विष्णोस्स्यूरसि
विष्णोर्ध्रुवमसि वैष्णवमसि विष्णवे त्वा॥

तदस्य प्रियमभिपाथो अश्याम्। नरो यत्र देवयवो
मदन्ति। उरुक्रमस्य स हि बन्धुरित्था। विष्णोः पदे
परमे मध्व उत्थ्सः। प्रतद्विष्णुस्स्तवते वीर्याय। मृगो
न भीमः कुचरो गिरिष्ठाः। यस्योरुषु त्रिषु
विक्रमणेषु। अधिक्षियन्ति भुवनानि विश्वा। परो मात्रया
तनुवा वृधान। न ते महित्वमन्वश्नुवन्ति॥

उभे ते विद्म रजसि पृथिव्या विष्णो देवत्वम्। परमस्य
विथ्से। विचक्रमे पृथिवीमेष एताम्। क्षेत्राय विष्णुर्मनुषे
दशस्यन्। ध्रुवासो अस्य कीरयो जनासः।  उरुक्षितिꣳ
सुजनिमाचकार । त्रिर्देवः पृथिवीमेष एताम् ।
विचक्रमे शतर्चसं महित्वा। प्रविष्णुरस्तु
तवसस्तवीयान् । त्वेषꣳह्यस्य स्थविरस्य नाम॥

अतो देवा अवन्तुनो यतो विष्णुर्विचक्रमे। पृथिव्यास्सप्त
धामभिः। इदं विष्णुर्विचक्रमे त्रेधा निदधे
पदम्। समूढमस्य पाꣳसुरे। त्रिणि पदा विचक्रमे
विष्णुर्गोपा अदाभ्यः।  ततो धर्माणि धारयन्। विष्णोः
कर्माणि पश्यत यतो व्रतानि पस्पशे। इन्द्रस्य
युज्यस्सका॥

तद्विष्णोः परमं पदꣳ सदा पश्यन्ति सूरयः। दिवीव
चक्षुराततम्। तद्विप्रासो विपन्यवो जागृवाꣳ
सस्समिन्धते। विष्णोर्यत्परमं पदम्। पर्याप्त्या
अनन्तरायाय सर्वस्तोमोऽति रात्र उत्तम महर्भवति
सर्वस्याप्त्यै सर्वस्य जित्यै सर्वमेव तेनाप्नोति सर्वं
जयति॥

॥ ॐ शान्तिः शान्तिः शान्तिः ॥

॥ श्रीलक्ष्मीसूक्त ॥

॥ श्रीलक्ष्मीसूक्त ॥

श्री गणेशाय नमः ।
ॐ पद्मानने पद्मिनि पद्मपत्रे पद्मप्रिये पद्मदलायताक्षि ।
विश्वप्रिये विश्वमनोऽनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व ॥

पद्मानने पद्मऊरु पद्माश्री पद्मसम्भवे ।
तन्मे भजसिं पद्माक्षि येन सौख्यं लभाम्यहम् ॥

अश्वदायै गोदायै धनदायै महाधने ।
धनं मे जुषतां देवि सर्वकामांश्च देहि मे ॥

पुत्रपौत्रं धनं धान्यं हस्त्यश्वादिगवेरथम् ।
प्रजानां भवसि माता आयुष्मन्तं करोतु मे ॥

धनमग्निर्धनं वायुर्धनं सूर्योधनं वसुः ।
धनमिन्द्रो बृहस्पतिर्वरुणो धनमस्तु मे ॥

वैनतेय सोमं पिब सोमं पिबतु वृत्रहा ।
सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः ॥

न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः ।
भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जापिनाम् ॥

सरसिजनिलये सरोजहस्ते धवलतरांशुक गन्धमाल्यशोभे ।
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥

श्रीर्वर्चस्वमायुष्यमारोग्यमाविधाच्छोभमानं महीयते ।
धान्य धनं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ॥

ॐ महादेव्यै च विद्महे विष्णुपत्न्यै च धीमहि ।
तन्नो लक्ष्मीः प्रचोदयात् ॥

ॐ महालक्ष्म्यै च विद्महे महश्रियै च धीमहि ।
तन्नः श्रीः प्रचोदयात् ॥

विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम् ।
लक्ष्मीं प्रियसखीं देवीं नमाम्यच्युतवल्लभाम् ॥

चन्द्रप्रभां लक्ष्मीमैशानीं सूर्याभांलक्ष्मीमैश्वरीम् ।
चन्द्र सूर्याग्निसङ्काशां श्रियं देवीमुपास्महे ॥

॥ इति श्रीलक्ष्मी सूक्तम् सम्पूर्णम् ॥

सिद्धिलक्ष्मीस्तोत्रम्

सिद्धिलक्ष्मीस्तोत्रम् 

श्री गणेशाय नमः ।
ॐ अस्य श्रीसिद्धिलक्ष्मीस्तोत्रस्य हिरण्यगर्भ ऋषिः,
अनुष्टुप् छन्दः, सिद्धिलक्ष्मीर्देवता, मम समस्त
दुःखक्लेशपीडादारिद्र्यविनाशार्थं
सर्वलक्ष्मीप्रसन्नकरणार्थं
महाकालीमहालक्ष्मीमहासरस्वतीदेवताप्रीत्यर्थं च
सिद्धिलक्ष्मीस्तोत्रजपे विनियोगः ।
ॐ सिद्धिलक्ष्मी अङ्गुष्ठाभ्यां नमः ।
ॐ ह्रीं विष्णुहृदये तर्जनीभ्यां नमः ।
ॐ क्लीं अमृतानन्दे मध्यमाभ्यां नमः ।
ॐ श्रीं दैत्यमालिनी अनामिकाभ्यां नमः ।
ॐ तं तेजःप्रकाशिनी कनिष्ठिकाभ्यां नमः ।
ॐ ह्रीं क्लीं श्रीं ब्राह्मी वैष्णवी माहेश्वरी
करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः ।
ॐ सिद्धिलक्ष्मी हृदयाय नमः ।
ॐ ह्रीं वैष्णवी शिरसे स्वाहा ।
ॐ क्लीं अमृतानन्दे शिखायै वौषट् ।
ॐ श्रीं दैत्यमालिनी कवचाय हुम् ।
ॐ तं तेजःप्रकाशिनी नेत्रद्वयाय वौषट् ।
ॐ ह्रीं क्लीं श्रीं ब्राह्मीं वैष्णवीं फट् ॥ अथ ध्यानम् ॥

ब्राह्मीं च वैष्णवीं भद्रां षड्भुजां च चतुर्मुखाम् ।
त्रिनेत्रां च त्रिशूलां च पद्मचक्रगदाधराम् ॥ १॥

पीताम्बरधरां देवीं नानालङ्कारभूषिताम् ।
तेजःपुञ्जधरां श्रेष्ठां ध्यायेद्बालकुमारिकाम् ॥ २॥

ॐकारलक्ष्मीरूपेण विष्णोर्हृदयमव्ययम् ।
विष्णुमानन्दमध्यस्थं ह्रींकारबीजरूपिणी ॥ ३॥

ॐ क्लीं अमृतानन्दभद्रे सद्य आनन्ददायिनी ।
ॐ श्रीं दैत्यभक्षरदां शक्तिमालिनी शत्रुमर्दिनी ॥ ४॥

तेजःप्रकाशिनी देवी वरदा शुभकारिणी ।
ब्राह्मी च वैष्णवी भद्रा कालिका रक्तशाम्भवी ॥ ५॥

आकारब्रह्मरूपेण ॐकारं विष्णुमव्ययम् ।
सिद्धिलक्ष्मि परालक्ष्मि लक्ष्यलक्ष्मि नमोऽस्तुते ॥ ६॥

सूर्यकोटिप्रतीकाशं चन्द्रकोटिसमप्रभम् ।
तन्मध्ये निकरे सूक्ष्मं ब्रह्मरूपव्यवस्थितम् ॥ ७॥

ॐकारपरमानन्दं क्रियते सुखसम्पदा ।
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ॥ ८॥

प्रथमे त्र्यम्बका गौरी द्वितीये वैष्णवी तथा ।
तृतीये कमला प्रोक्ता चतुर्थे सुरसुन्दरी ॥ ९॥

पञ्चमे विष्णुपत्नी च षष्ठे च वैएष्णवी तथा ।
सप्तमे च वरारोहा अष्टमे वरदायिनी ॥ १०॥

नवमे खड्गत्रिशूला दशमे देवदेवता ।
एकादशे सिद्धिलक्ष्मीर्द्वादशे ललितात्मिका ॥ ११॥

एतत्स्तोत्रं पठन्तस्त्वां स्तुवन्ति भुवि मानवाः ।
सर्वोपद्रवमुक्तास्ते नात्र कार्या विचारणा ॥ १२॥

एकमासं द्विमासं वा त्रिमासं च चतुर्थकम् ।
पञ्चमासं च षण्मासं त्रिकालं यः पठेन्नरः ॥ १३॥

ब्राह्मणाः क्लेशतो दुःखदरिद्रा भयपीडिअताः ।
जन्मान्तरसहस्रेषु मुच्यन्ते सर्वक्लेशतः ॥ १४॥

अलक्ष्मीर्लभते लक्ष्मीमपुत्रः पुत्रमुत्तमम् ।
धन्यं यशस्यमायुष्यं वह्निचौरभयेषु च ॥ १५॥

शाकिनीभूतवेतालसर्वव्याधिनिपातके ।
राजद्वारे महाघोरे सङ्ग्रामे रिपुसङ्कटे ॥ १६॥

सभास्थाने श्मशाने च कारागेहारिबन्धने ।
अशेषभयसम्प्राप्तौ सिद्धिलक्ष्मीं जपेन्नरः ॥ १७॥

ईश्वरेण कृतं स्तोत्रं प्राणिनां हितकारणम् ।
स्तुवन्ति ब्राह्मणा नित्यं दारिद्र्यं न च वर्धते ॥ १८॥

या श्रीः पद्मवने कदम्बशिखरे राजगृहे कुञ्जरे
श्वेते चाश्वयुते वृषे च युगले यज्ञे च यूपस्थिते ।
शङ्खे देवकुले नरेन्द्रभवनी गङ्गातटे गोकुले
सा श्रीस्तिष्ठतु सर्वदा मम गृहे भूयात्सदा निश्चला ॥ १९॥

॥ इति श्रीब्रह्माण्डपुराणे ईश्वरविष्णुसंवादे दारिद्र्यनाशनं
सिद्धिलक्ष्मीस्तोत्रं सम्पूर्णम् ॥

॥ विभिन्नरूपलक्ष्मीध्यानप्रकाराः ॥

॥ विभिन्नरूपलक्ष्मीध्यानप्रकाराः ॥

श्रीलक्ष्मीनारायण ध्यानम् ।
क्षीराम्भोनिधिरत्नमण्डपमहासौवर्णसिंहासने ।
वामाङ्के स्थितया प्रसन्नवदनं श्रीकान्तयाऽऽलिङ्गितम् ॥

दोर्दण्डाङ्कितशङ्खपङ्कजगदाचक्रैरुदारश्रियम् ।
त्वां नित्यं कलयामि जन्मविमुखः लक्ष्मीश नारायण ॥

द्विभुजालक्ष्मी - हेमवर्णा ।
हरेः समीपे कर्तव्या लक्ष्मीस्तु द्विभुजा नृप ।
दिव्यरूपाम्बुजकरा सर्वाभरणभूषिता ॥

गजलक्ष्मी - स्वर्णवर्णा ।
लक्ष्मीः शुक्लाम्बरा देवी रूपेणाप्रतिमा भुवि ।
पृथक् चतुर्भुजा कार्या देवी सिम्हासने शुभा ॥

सिम्हासनेऽस्या कर्तव्यं कमलं चारुकर्णिकम् ।
अष्टपत्रं महाभागा कर्णिकायां सुसंस्थिता ॥

विनायकवदासीना देवी कार्या चतुर्भुजा ।
बृहन्नालङ्करे कार्यं तस्याश्च कमलं शुभम् ॥

दक्षिणे यादवश्रेष्ठं केयूरभ्रान्तसंस्थितम् ।
वामेऽमृतघटः कार्यस्तदा राजन् मनोहरः ॥

तस्याऽन्यौ च करौ कार्यौ बिल्वशङ्खधरौ द्विज ।
अवर्जितकरं कार्यं तत्पृष्ठे कुञ्जरद्वयम् ॥

देवाश्च मस्तके कार्यं पद्मं चापि मनोहरम् ॥

महालक्ष्मी - स्वर्णवर्णा ।
कोल्लापुरं विनाऽन्यत्र महालक्ष्मीर्यथोच्यते ।
लक्ष्मीवत् सा सदाकार्या सर्वाभरणभूषिता ॥

दक्षिणाधः करे पात्रमूर्ध्वं कौमोदकीं तदा ।
वामोर्ध्वे खेटकञ्चैव श्रीबलं तदधः करे ॥

बिभ्रती मस्तके पद्मं पूजनीया विभूतये ॥

श्रीदेवी - हेमवर्णा
पाशाक्षमाली काम्भोजमणिभिर्याम्यसौम्ययोः ।
पद्मासनस्थां कुर्वीथ श्रियं त्रैलोक्यमातरम् ॥

चतुर्भुजा वीरलक्ष्मी - स्वर्णवर्णा ।
वीरलक्ष्मीरिति ख्याता वरदाभयहस्तिनी ।
ऊर्ध्वपद्मद्वयकरा तथा पद्मासने स्थिता ॥

द्विभुजा वीरलक्ष्मी - हेमवर्णा ।
दक्षिणे त्वभयं बिभ्रदुत्तरे वरदं तथा ।
ऊरू पद्मदलाकारौ वीरश्रीमूर्तिलक्षणम् ॥

अष्टभुजा वीरलक्ष्मी - हेमवर्णा ।
पाशाङ्कुशाक्षसूत्रवराभयगदाभद्रहस्ता ॥

प्रसन्नलक्ष्मी - स्वर्णवर्णा ।
वन्दे लक्ष्मीं वरशशिमयीं शुद्धजाम्बूनदाभां
तेजोरूपां कनकवसनां सर्वभूषोज्ज्वलाङ्गीम् ।
बीजापूरं कनककलशं हेमपद्मे दधानां
आद्यां शक्तिं सकलजननीं विष्णुवामाङ्कसंस्थाम् ॥

महालक्ष्मी - प्रवालवर्णा ।
अक्षस्रक्परशुं गदेषु कुलिशं पद्मं धनुः कुण्डिकां
दण्डं शक्तिमसिञ्च चर्मजलजं घण्टां सुराभाजनम् ।
शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवालप्रभां
सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ॥

श्रीलक्ष्मी - कनकवर्णा ।
अरुणकमलसंस्था तद्रजःपुञ्जवर्णा
करकमलधृतेष्वाभीतियुग्माम्बुजा च ।
मणिमकुटविचित्रालङ्कृता कल्पजातैः
भवतु भुवनमाता सन्ततं श्रीः श्रियै नः ॥

पद्मा - पद्मवर्णा
पद्मा पद्मासनासीना पद्माभा पद्मवासिनी ।
हेमरत्नोज्ज्वलन्नग्रकर्णकुण्डलमण्डिता ॥

चन्द्रबिम्बामलमुखी कर्णपूरायतेक्षणा ।
सयौवना सुरम्याङ्गी कुञ्चितभ्रूः सुविभ्रमा ॥

रक्तोष्ठी पीनकण्ठा च कञ्चुकाच्छादितस्तनी ।
शिरसो मण्डनं चक्रं सीमन्तं चैव पद्मकम् ॥

नागहस्तसमौ बाहु केयूरकटकोज्ज्वलौ ।
पङ्कजं श्रीफलं वामे दक्षिणे बिभ्रती परा ॥

शोभनाम्बरसम्पन्ना विपुलश्रोणिता तथा ।
मेखलाकटिसूत्राङ्गा लक्ष्मीः लक्ष्मीविवर्धनी ॥

श्रीलक्ष्मी (अपरा)
अभयवरदहस्तां रत्नसिम्हासनस्थां
जलजकमलवर्णां हेमवर्णोर्ध्वहस्ताम् ।
कनकमणिविभूषामास्थितां पद्मपादां
सकलभुवनभाग्यां भावये वीरलक्ष्मीम् ॥

वागीश्वरी - श्वेतवर्णा ।
श्वेतपद्मासनारूढा शुक्लवर्णा चतुर्भुजा ।
जटामकुटसम्युक्ता रत्नकुण्डलमण्डिता ॥

यज्ञोपवीतिनी हारमुक्ताभरणभूषिता ।
दुकूलवसना देवी नेत्रत्रयसमन्विता ॥

सुदण्डं दक्षिणे हस्ते वामहस्ते तु पुस्तकम् ।
दक्षिणेऽक्षमालाञ्च कुण्डिकां वामहस्तके ॥

शत्रुविध्वंसिनी - नीलवर्णा ।
शत्रुविध्वंसिनी रौद्रा त्रिशिरा रक्तलोचना ।
दिगम्बरा रक्तकेशी रक्तपाणिर्महोदरी ॥

एतैराविष्कृतैर्घोरैः शीघ्रमुच्चाटयेद्द्विषः ॥

मृतसञ्जीविनी - रक्तवर्णा ।
मृतसञ्जीविनीं देवीं शान्तरूपांश्च बिभ्रतीम् ।
पाशाहीन्द्राङ्कुशगदाखड्गशूलवराभयान् ॥

रक्तामष्टभुजां वन्दे फुल्लपद्मासने शुभे ॥

अणिमादि अष्टसिद्धिदेवता - रक्तवर्णा ।
अणिमा महिमा चैव गरिमा लघिमा तथा ।
प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्टसिद्धयः ॥

मुक्तिसिद्धिः सर्वसिद्धिः दशसिद्धय ईरिताः ।
एता देव्यश्चतुर्बाहाः जपाकुसुमसन्निभाः ॥

चिन्तामणिं कपालञ्च त्रिशूलं सिद्धकज्जलम् ।
दधाना दययापूर्णा योगिभिश्च निषेविता ॥

महालक्ष्मीसहित अष्टमातृकाः - रक्तवर्णाः ।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराही चैव माहेन्द्री चामुण्डा चैव सप्तमा ॥

महालक्ष्मीरष्टमा च द्विभुजा शोणविग्रहाः ।
कपालमुत्पलं चैव बिभ्राणा रक्तवाससः ॥

अथवान्यप्रकारेण केचित्तान् यं प्रचक्षते ।
ब्रह्मादिसदृशाकाराः ब्रह्मादिसदृशायुताः ॥

ब्रह्मादीनां परं चिह्नं धारयन्त्यः प्रकीर्तिताः ॥

सर्वमङ्गला - कनकवर्णा ।
शङ्खं चक्रञ्च चापं सृणिमपि सुमहाखेटखड्गौ सुचापं
बाणं कह्लारपुष्पं तदनुकरगतं मातुलङ्गं दधानाम् ।
उद्यद्बालार्कवर्णां त्रिभुवनविजयां पञ्चवक्त्रां त्रिनेत्रां
देवीं पीताम्बराढ्यां कुचभरनमितां सन्ततं भावयामि ॥

हेमाभां करुणाभिपूर्णनयनां माणिक्यभूषोज्ज्वलां
द्वात्रिंशद्दलषोडशाष्टदलयुक् पद्मस्थितां सुस्मिताम् ॥

भक्तानां वरदां वरं च दधतीं वामेन हस्तेन तत्
दक्षेणाभयमातुलङ्गसुफलं श्रीमङ्गलां भावये ॥

ज्वालामालिनि - कनकवर्णा
कल्पान्ताग्निसमप्रभां स्मितमुखैः षड्भिर्भुजद्वादशैः
युक्तां पाशकखेटकञ्च सुशरं शूलं वरं वामके ।
दक्षेत्वङ्कुशखड्गशक्तिसुशरं चापाभये बिभ्रतीं
ज्वालामालिनि सञ्चितां मणिमयीभूषान्वितामाश्रये ॥

मित्रा - रक्तवर्णा
बालार्ककान्ति च शिलां जितवक्त्रशोभां
पाशाङ्कुशौ च वरमप्यभयं दधानाम् ।
चित्रांशुकां च नवरत्न विभूषिताङ्गीं
चित्राम्बिकां त्रिनयनां हृदि भावयामि ॥

गायत्री - रक्तवर्णा
देवीं पूर्वाह्नसंध्यायां गायत्रीं वह्निरूपिणीम् ।
कुमारीं रक्तवस्त्राङ्गीं रक्तस्रगनुलेपनाम् ॥

चतुर्भुजां चतुर्वक्त्रां वरदां चाष्टलोचनाम् ।
पद्माक्षमालावलयां बिभ्रतीं दक्षिणे करे ॥

वामे कमण्डलुं पाणौ स्रुवं सव्येतरे करे ।
अभयं वामहस्ते च पद्मपीठे प्रतिष्ठिताम् ॥

ऋग्वेदरूपिणीं प्रातस्सवनां हंसवाहनाम् ।
रसायनाञ्च प्रहतीं गार्हपत्ये प्रतिष्ठिताम् ॥

सावित्री - शुक्लवर्णा (मध्याह्नम्)
देवीं मध्याह्नसन्ध्यायां सावित्रीं रुद्ररूपिणीम् ।
युवतीं श्वेतवस्त्राख्यां शुक्लस्रगनुलेपनाम् ॥

चतुर्भुजां चतुर्वक्त्रां वरदां द्वादशेक्षणाम् ।
रुद्राक्षमालावलयां बिभ्रतीं दक्षिणे करे ॥

वामे करेऽभयं देवीं तथैवार्केन्दुधारिणीम् ।
स्वर्णपीठे स्थितां सौम्ये यजुर्वेदस्वरूपिणीम् ॥

माध्यन्दिनाख्यसवने सतां गोवृषवाहनाम् ।
दक्षिणाग्निस्वरूपां तां ध्यायेन्नित्यं विशुद्धधीः ॥

सरस्वती - श्यामवर्णा (सायङ्कालं)
सरस्वतीं तु सायाह्ने सन्ध्यायां विष्णुरूपिणीम् ।
स्थविरेन्दीवरश्यामां नीलकुञ्चितमूर्धजाम् ॥

चतुर्भुजां चैकवक्त्रां पद्मपत्रायतेक्षणाम् ।
शङ्खं चक्रं गदाञ्चैव तथैवाभयदं पुनः ॥

पीताम्बरं दधानाञ्च दिव्यस्रगनुलेपनाम् ।
तृतीयसवनाख्याञ्च ध्यायेद्वै विष्णुरूपिणीम् ॥

नीलपीठे स्थितां सौम्ये सामवेदस्वरूपिणीम् ।
वरदां गरुडारूढां आहवनीये व्यवस्थिताम् ॥

वश्यमुखी - रक्तवर्णा
सन्धाय सुमनोबाणं कर्षन्तीमैक्षवं धनुः ।
जगज्जैत्रीं जपासक्तां देवीं वश्यमुखीं भजे ॥

सप्तमातृकासु -

ब्राह्मी - पीतवर्णा
तत्र ब्राह्मी चतुर्वक्त्रा षड्भुजा हंससंस्थिता ।
पिङ्गाभा भूषणोपेता मृगचर्मोत्तरीयका ॥

वरं सूत्रं स्रुवं धत्ते दक्षबाहूत्तरे क्रमात् ।
वामे तु पुस्तकं कुण्डीं बिभ्रती चाभयङ्करम् ॥

माहेश्वरी - श्वेतवर्णा
माहेश्वरी वृषारूढा पञ्चवक्त्रा त्रिलोचना ।
श्वेतवर्णा दशभुजा चन्द्ररेखाविभूषिता ॥

खड्गं वज्रं त्रिशूलञ्च परशुं चाभयं वरम् ।
पाशं घण्टां तथा नागमङ्कुशं बिभ्रती करैः ॥

कौमारी - पाटलवर्णा
षडानना तु कौमारी पाटलाभा सुशीलका ।
रविबाहुर्मयूरस्था वरदा शक्तिधारिणी ॥

पताकां बिभ्रती दण्डं पात्रं बाणञ्च दक्षिणे ।
वामे चापमथो घण्टां कमलं कुक्कुटं तथा ॥

परशुं बिभ्रती चैव दधतस्त्वभयान्विता ॥

वैष्णवी - नीलवर्णा
वैष्णवी तार्क्ष्यका श्यामा षड्भुजा वनमालिनी ।
वरदा गदिनी दक्षे बिभ्रती च करेऽम्बुजम् ॥

शङ्खचक्राभयान्वामे सा चेयं विलसद्भुजा ॥

वाराही - कृष्णवर्णा
कृष्णवर्णा तु वाराही महिषस्था महोदरी ।
वरदा दण्डिनी खड्गं बिभ्रती दक्षिणे करे ॥

खेटपात्राभयान्वामे सूकरास्या लसद्भुजा ॥

ऐन्द्री - कनकवर्णा
ऐन्द्री सहस्रदृक् सौम्या हेमाभा गजससस्थिता ।
वरदा सूत्रिणी वज्रं बिभ्रत्यूर्ध्वं तु दक्षिणे ॥

वामे तु कमलं पात्रं ह्यभयं तदधः करे ॥

चामुण्डा - कृष्णवर्णा
चामुण्डा प्रेतका कृष्णा विकृता चाहिभूषणा ।
दंष्ट्राला क्षीणदेहा च कर्ताक्षी कामरूपिणी ॥

दिग्बाहुः क्षौमकुक्षी च मुसलं चक्रचामरे ।
अङ्कुशं बिभ्रती खड्गं दक्षिणे चाथ वामके ॥

खेटं पाशं धनुर्दण्डं कुठारं चापि बिभ्रती ॥

सिद्धिदायिनी - श्वेतवर्णा
सिद्धगन्धर्वयक्षाद्यैरसुरैरमरैरपि ।
सेव्यमाना सदा भूयात्सिद्धिदा सिद्धिदायिनी ॥

अपराजिता - नीलवर्णा
नीलोत्पलनिभां देवीं निद्रामुद्रितलोचनाम् ।
नीलकुञ्जितकेशाग्नां निम्ननाभीवलित्रयाम् ॥

वराभयकराम्भोजां प्रणतार्तिविनाशिनीम् ।
पीताम्बरवरोपेतां भूषणस्रग्विभूषिताम् ॥

वरशक्त्याकृतिं सौम्यां परसैन्यप्रभञ्जनीम् ।
शङ्खचक्रगदाऽभीतिरम्यहस्तां त्रिलोचनाम् ॥

सर्वकामप्रदां देवीं ध्यायेत्तामपराजिताम् ॥

तुलसी - श्यामवर्णा
ध्यायेच्च तुलसीं देवीं श्यामां कमललोचनाम् ।
प्रसन्नां पद्मकल्हार वराभय चतुर्भुजाम् ॥

किरीटहारकेयूरकुण्डलादिविभूषिताम् ।
धवलांशुकसभ्युक्तां पद्मासननिषेदुषीम् ॥

भूदेवी - स्वर्णवर्णा
स्वर्गवर्णा द्विहस्ता च दक्षिणेनाभयप्रदा ।
दाडिमीफलसम्युक्ता वामे कल्पतरोरधः ॥

वामपादेन संस्पृष्टनिधिकुम्भाधरा तथा ।
सर्वालङ्कारभूषाढ्या ध्येया सर्वफलप्रदा ॥

नीलादेवी - श्यामवर्णा
नीलोत्पलघनश्यामा नीलवस्त्रविभूषिता ।
चतुर्भुजा सुखासीना वराभयकरान्विता ॥

इतराभ्यां तु हस्ताभ्यां कुमुदद्वयधारिणी ।
सर्वाभरणसम्युक्ता नीलादेवी समीरिता ॥

अश्वारूढा राजलक्ष्मी - हिरण्यवर्णा
चतुरङ्गबलोपेतां धनधान्यसुखेश्वरीम् ।
अश्वारूढामहं वन्दे राजलक्ष्मीं हिरण्मयीम् ॥

इति विभिन्नरूपलक्ष्मीध्यानप्रकाराः सम्पूर्णाः ।

श्रीलक्ष्म्यष्टोत्तरशतनामावलिः -1

श्रीलक्ष्म्यष्टोत्तरशतनामावलिः 

एषा नामावलिः महालक्ष्म्यै नमः इत्यारब्धायाः सहस्रनामावल्या
अङ्गभूता ।

ॐ ब्रह्मज्ञायै नमः । ब्रह्मसुखदायै । ब्रह्मण्यायै । ब्रह्मरूपिण्यै ।
सुमत्यै । सुभगायै । सुन्दायै । प्रयत्यै । नियत्यै । यत्यै ।
सर्वप्राणस्वरूपायै । सर्वेन्द्रियसुखप्रदायै । संविन्मय्यै ।
सदाचारायै । सदातुष्टायै । सदानतायै । कौमुद्यै । कुमुदानन्दायै ।
क्वै नमः । कुत्सिततमोहर्यै नमः ॥ २०

हृदयार्तिहर्यै नमः । हारशोभिन्यै । हानिवारिण्यै । सम्भाज्यायै ।
संविभाज्यायै । आज्ञायै । ज्यायस्यै । जनिहारिण्यै । महाक्रोधायै ।
महातर्षायै । महर्षिजनसेवितायै । कैटभारिप्रियायै । कीर्त्यै ।
कीर्तितायै । कैतवोज्झितायै । कौमुद्यै । शीतलमनसे ।
कौसल्यासुतभामिन्यै । कासारनाभ्यै । कस्यै नमः ॥ ४०

तस्यै नमः । यस्यै । एतस्यै । इयत्ताविवर्जितायै । अन्तिकस्थायै ।
अतिदूरस्थायै । हृदयस्थायै । अम्बुजस्थितायै ।
मुनिचित्तस्थितायै । मौनिगम्यायै । मान्धातृपूजितायै ।
मतिस्थिरीकर्तृकार्यनित्यनिर्वहणोत्सुकायै । महीस्थितायै ।
मध्यस्थायै । द्युस्थितायै । अधःस्थितायै । ऊर्ध्वगायै । भूत्यै ।
वीभूत्यै । सुरभ्यै नमः ॥ ६०

सुरसिद्धार्तिहारिण्यै नमः । अतिभोगायै । अतिदानायै । अतिरूपायै ।
अतिकरुणायै । अतिभासे । विज्वरायै । वियदाभोगायै । वितन्द्रायै ।
विरहासहायै । शूर्पकारातिजनन्यै । शून्यदोषायै । शुचिप्रियायै ।
निःस्पृहायै । सस्पृहायै । नीलासपत्न्यै । निधिदायिन्यै ।
कुम्भस्तन्यै । कुन्दरदायै । कुङ्कुमालेपितायै नमः ॥ ८०

कुजायै नमः । शास्त्रज्ञायै । शास्त्रजनन्यै । शास्त्रज्ञेयायै ।
शरीरगायै । सत्यभासे । सत्यसङ्कल्पायै । सत्यकामायै । सरोजिन्यै ।
चन्द्रप्रियायै । चन्द्रगतायै । चन्द्रायै । चन्द्रसहोदर्यै ।
औदर्यै । औपयिक्यै । प्रीतायै । गीतायै । ओतायै । गिरिस्थितायै ।
अनन्वितायै नमः ॥ १००

अमूलायै नमः । आर्तिध्वान्तपुञ्जरविप्रभायै । मङ्गलायै ।
मङ्गलपरायै । मृग्यायै । मङ्गलदेवतायै । कोमलायै ।
महालक्ष्म्यै नमः ॥ १०८

इति श्रीलक्ष्म्यष्टोत्तरशतनामावलिः समाप्ता ।

Tuesday, 19 May 2020

श्रीमहालक्ष्मी ललितास्तोत्रम्

श्रीमहालक्ष्मी ललितास्तोत्रम् 

          ॥ ध्यानम् ॥

चक्राकारं महत्तेजः तन्मध्ये परमेश्वरी ।
जगन्माता जीवदात्री नारायणी परमेश्वरी ॥ १ ॥

व्यूहतेजोमयी ब्रह्मानन्दिनी हरिसुन्दरी ।
पाशांकुशेक्षुकोदण्ड पद्ममालालसत्करा ॥ २ ॥

दृष्ट्वा तां मुमुहुर्देवाः प्रणेमुर्विगतज्वराः ।
तुष्टुवुः श्रीमहालक्ष्मीं ललितां वैष्णवीं पराम् ॥ ३ ॥

         ॥ श्रीदेवाः ऊचुः ॥

जय लक्ष्मि जगन्मातः जय लक्ष्मि परात्परे ।
जय कल्याणनिलये जय सर्वकलात्मिके ॥ १ ॥

जय ब्राह्मि महालक्ष्मि ब्रहात्मिके परात्मिके ।
जय नारायणि शान्ते जय श्रीललिते रमे ॥ २ ॥

जय श्रीविजये देवीश्वरि श्रीदे जयर्द्धिदे ।
नमः सहस्र शीर्षायै सहस्रानन लोचने ॥ ३ ॥

नमः सहस्रहस्ताब्जपादपङ्कजशोभिते । 
अणोरणुतरे लक्ष्मि महतोऽपि महीयसि ॥ ४ ॥

अतलं ते स्मृतौ पादौ वितलं जानुनी तव ।
रसातलं कटिस्ते च कुक्षिस्ते पृथिवी मता ॥ ५ ॥

हृदयं भुवः स्वस्तेऽस्तु मुखं सत्यं शिरो मतम् ।
दृशश्चन्द्रार्कदहना दिशः कर्णा भुजः सुराः ॥ ६ ॥

मरुतस्तु तवोच्छ्वासा वाचस्ते श्रुतयो मताः ।
क्रिडा ते लोकरचना सखा ते परमेश्वरः ॥ ७ ॥

आहारस्ते सदानन्दो वासस्ते हृदयो हरेः ।
दृश्यादृश्यस्वरूपाणि रूपाणि भुवनानि ते ॥ ८ ॥

शिरोरुहा घनास्ते वै तारकाः कुसुमानि ते ।
धर्माद्या बाहवस्ते च कालाद्या हेतयस्तव ॥ ९ ॥

यमाश्च नियमाश्चापि करपादनखास्तव ।
स्तनौ स्वाहास्वधाकारौ सर्वजीवनदुग्धदौ ॥ १० ॥

प्राणायामस्तव श्वासो रसना ते सरस्वती ।
महीरुहास्तेऽङ्गरुहाः प्रभातं वसनं तव ॥ ११ ॥

आदौ दया धर्मपत्नी ससर्ज निखिलाः प्रजाः ।
हृत्स्था त्वं व्यापिनी लक्ष्मीः मोहिनी त्वं तथा परा ॥ १२ ॥

इदानीं दृश्यसे ब्राह्मी नारायणी प्रियशङ्करी ।
नमस्तस्यै महालक्ष्म्यै गजमुख्यै नमो नमः ॥ १३ ॥

सर्वशक्त्यै सर्वधात्र्यै महालक्ष्म्यै नमो नमः । 
या ससर्ज विराजं च ततोऽजं विष्णुमीश्वरम् ॥ १४ ॥

रुदं तथा सुराग्रयाँश्च तस्यै लक्ष्म्यै नमो नमः ।
त्रिगुणायै निर्गुणायै हरिण्यै ते नमो नमः ॥ १५ ॥

यन्त्रतन्त्रात्मिकायै ते जगन्मात्रे नमो नमः ।
वाग्विभूत्यै गुरुतन्व्यै महालक्ष्म्यै नमो नमः ॥ १६ ॥

कम्भरायै सर्वविद्याभरायै ते नमो नमः ।
जयाललितापाञ्चाली रमातन्वै नमो नमः ॥ १७ ॥

पद्मावतीरमाहंसी सुगुणाऽऽज्ञाश्रियै नमः ।
नमः स्तुता प्रसनैवंछन्दयामास सव्दरैः ॥ १८ ॥

॥ फल श्रुति श्री लक्ष्मी उवाच ॥ 

स्तावका मे भविश्यन्ति श्रीयशोधर्मसम्भृताः ।
विद्याविनयसम्पन्ना निरोगा दीर्घजीविनः ॥ १ ॥

पुत्रमित्रकलत्राढ्या भविष्यन्ति सुसम्पदः ।
पठनाच्छ्रवणादस्य शत्रुभीतिर्विनश्यति ॥ २ ॥

राजभीतिः कदनानि विनश्यन्ति न संशयः ।
भुक्तिं मुक्तिं भाग्यमृद्धिमुत्तमां च लभेन्नरः ॥ ३ ॥

॥ श्रीलक्ष्मीनारायणसंहितायां देवसङ्घकृता श्रीमहालक्ष्मीललितास्तोत्र