Blog Archive

Wednesday, 20 May 2020

॥ विभिन्नरूपलक्ष्मीध्यानप्रकाराः ॥

॥ विभिन्नरूपलक्ष्मीध्यानप्रकाराः ॥

श्रीलक्ष्मीनारायण ध्यानम् ।
क्षीराम्भोनिधिरत्नमण्डपमहासौवर्णसिंहासने ।
वामाङ्के स्थितया प्रसन्नवदनं श्रीकान्तयाऽऽलिङ्गितम् ॥

दोर्दण्डाङ्कितशङ्खपङ्कजगदाचक्रैरुदारश्रियम् ।
त्वां नित्यं कलयामि जन्मविमुखः लक्ष्मीश नारायण ॥

द्विभुजालक्ष्मी - हेमवर्णा ।
हरेः समीपे कर्तव्या लक्ष्मीस्तु द्विभुजा नृप ।
दिव्यरूपाम्बुजकरा सर्वाभरणभूषिता ॥

गजलक्ष्मी - स्वर्णवर्णा ।
लक्ष्मीः शुक्लाम्बरा देवी रूपेणाप्रतिमा भुवि ।
पृथक् चतुर्भुजा कार्या देवी सिम्हासने शुभा ॥

सिम्हासनेऽस्या कर्तव्यं कमलं चारुकर्णिकम् ।
अष्टपत्रं महाभागा कर्णिकायां सुसंस्थिता ॥

विनायकवदासीना देवी कार्या चतुर्भुजा ।
बृहन्नालङ्करे कार्यं तस्याश्च कमलं शुभम् ॥

दक्षिणे यादवश्रेष्ठं केयूरभ्रान्तसंस्थितम् ।
वामेऽमृतघटः कार्यस्तदा राजन् मनोहरः ॥

तस्याऽन्यौ च करौ कार्यौ बिल्वशङ्खधरौ द्विज ।
अवर्जितकरं कार्यं तत्पृष्ठे कुञ्जरद्वयम् ॥

देवाश्च मस्तके कार्यं पद्मं चापि मनोहरम् ॥

महालक्ष्मी - स्वर्णवर्णा ।
कोल्लापुरं विनाऽन्यत्र महालक्ष्मीर्यथोच्यते ।
लक्ष्मीवत् सा सदाकार्या सर्वाभरणभूषिता ॥

दक्षिणाधः करे पात्रमूर्ध्वं कौमोदकीं तदा ।
वामोर्ध्वे खेटकञ्चैव श्रीबलं तदधः करे ॥

बिभ्रती मस्तके पद्मं पूजनीया विभूतये ॥

श्रीदेवी - हेमवर्णा
पाशाक्षमाली काम्भोजमणिभिर्याम्यसौम्ययोः ।
पद्मासनस्थां कुर्वीथ श्रियं त्रैलोक्यमातरम् ॥

चतुर्भुजा वीरलक्ष्मी - स्वर्णवर्णा ।
वीरलक्ष्मीरिति ख्याता वरदाभयहस्तिनी ।
ऊर्ध्वपद्मद्वयकरा तथा पद्मासने स्थिता ॥

द्विभुजा वीरलक्ष्मी - हेमवर्णा ।
दक्षिणे त्वभयं बिभ्रदुत्तरे वरदं तथा ।
ऊरू पद्मदलाकारौ वीरश्रीमूर्तिलक्षणम् ॥

अष्टभुजा वीरलक्ष्मी - हेमवर्णा ।
पाशाङ्कुशाक्षसूत्रवराभयगदाभद्रहस्ता ॥

प्रसन्नलक्ष्मी - स्वर्णवर्णा ।
वन्दे लक्ष्मीं वरशशिमयीं शुद्धजाम्बूनदाभां
तेजोरूपां कनकवसनां सर्वभूषोज्ज्वलाङ्गीम् ।
बीजापूरं कनककलशं हेमपद्मे दधानां
आद्यां शक्तिं सकलजननीं विष्णुवामाङ्कसंस्थाम् ॥

महालक्ष्मी - प्रवालवर्णा ।
अक्षस्रक्परशुं गदेषु कुलिशं पद्मं धनुः कुण्डिकां
दण्डं शक्तिमसिञ्च चर्मजलजं घण्टां सुराभाजनम् ।
शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवालप्रभां
सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ॥

श्रीलक्ष्मी - कनकवर्णा ।
अरुणकमलसंस्था तद्रजःपुञ्जवर्णा
करकमलधृतेष्वाभीतियुग्माम्बुजा च ।
मणिमकुटविचित्रालङ्कृता कल्पजातैः
भवतु भुवनमाता सन्ततं श्रीः श्रियै नः ॥

पद्मा - पद्मवर्णा
पद्मा पद्मासनासीना पद्माभा पद्मवासिनी ।
हेमरत्नोज्ज्वलन्नग्रकर्णकुण्डलमण्डिता ॥

चन्द्रबिम्बामलमुखी कर्णपूरायतेक्षणा ।
सयौवना सुरम्याङ्गी कुञ्चितभ्रूः सुविभ्रमा ॥

रक्तोष्ठी पीनकण्ठा च कञ्चुकाच्छादितस्तनी ।
शिरसो मण्डनं चक्रं सीमन्तं चैव पद्मकम् ॥

नागहस्तसमौ बाहु केयूरकटकोज्ज्वलौ ।
पङ्कजं श्रीफलं वामे दक्षिणे बिभ्रती परा ॥

शोभनाम्बरसम्पन्ना विपुलश्रोणिता तथा ।
मेखलाकटिसूत्राङ्गा लक्ष्मीः लक्ष्मीविवर्धनी ॥

श्रीलक्ष्मी (अपरा)
अभयवरदहस्तां रत्नसिम्हासनस्थां
जलजकमलवर्णां हेमवर्णोर्ध्वहस्ताम् ।
कनकमणिविभूषामास्थितां पद्मपादां
सकलभुवनभाग्यां भावये वीरलक्ष्मीम् ॥

वागीश्वरी - श्वेतवर्णा ।
श्वेतपद्मासनारूढा शुक्लवर्णा चतुर्भुजा ।
जटामकुटसम्युक्ता रत्नकुण्डलमण्डिता ॥

यज्ञोपवीतिनी हारमुक्ताभरणभूषिता ।
दुकूलवसना देवी नेत्रत्रयसमन्विता ॥

सुदण्डं दक्षिणे हस्ते वामहस्ते तु पुस्तकम् ।
दक्षिणेऽक्षमालाञ्च कुण्डिकां वामहस्तके ॥

शत्रुविध्वंसिनी - नीलवर्णा ।
शत्रुविध्वंसिनी रौद्रा त्रिशिरा रक्तलोचना ।
दिगम्बरा रक्तकेशी रक्तपाणिर्महोदरी ॥

एतैराविष्कृतैर्घोरैः शीघ्रमुच्चाटयेद्द्विषः ॥

मृतसञ्जीविनी - रक्तवर्णा ।
मृतसञ्जीविनीं देवीं शान्तरूपांश्च बिभ्रतीम् ।
पाशाहीन्द्राङ्कुशगदाखड्गशूलवराभयान् ॥

रक्तामष्टभुजां वन्दे फुल्लपद्मासने शुभे ॥

अणिमादि अष्टसिद्धिदेवता - रक्तवर्णा ।
अणिमा महिमा चैव गरिमा लघिमा तथा ।
प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्टसिद्धयः ॥

मुक्तिसिद्धिः सर्वसिद्धिः दशसिद्धय ईरिताः ।
एता देव्यश्चतुर्बाहाः जपाकुसुमसन्निभाः ॥

चिन्तामणिं कपालञ्च त्रिशूलं सिद्धकज्जलम् ।
दधाना दययापूर्णा योगिभिश्च निषेविता ॥

महालक्ष्मीसहित अष्टमातृकाः - रक्तवर्णाः ।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराही चैव माहेन्द्री चामुण्डा चैव सप्तमा ॥

महालक्ष्मीरष्टमा च द्विभुजा शोणविग्रहाः ।
कपालमुत्पलं चैव बिभ्राणा रक्तवाससः ॥

अथवान्यप्रकारेण केचित्तान् यं प्रचक्षते ।
ब्रह्मादिसदृशाकाराः ब्रह्मादिसदृशायुताः ॥

ब्रह्मादीनां परं चिह्नं धारयन्त्यः प्रकीर्तिताः ॥

सर्वमङ्गला - कनकवर्णा ।
शङ्खं चक्रञ्च चापं सृणिमपि सुमहाखेटखड्गौ सुचापं
बाणं कह्लारपुष्पं तदनुकरगतं मातुलङ्गं दधानाम् ।
उद्यद्बालार्कवर्णां त्रिभुवनविजयां पञ्चवक्त्रां त्रिनेत्रां
देवीं पीताम्बराढ्यां कुचभरनमितां सन्ततं भावयामि ॥

हेमाभां करुणाभिपूर्णनयनां माणिक्यभूषोज्ज्वलां
द्वात्रिंशद्दलषोडशाष्टदलयुक् पद्मस्थितां सुस्मिताम् ॥

भक्तानां वरदां वरं च दधतीं वामेन हस्तेन तत्
दक्षेणाभयमातुलङ्गसुफलं श्रीमङ्गलां भावये ॥

ज्वालामालिनि - कनकवर्णा
कल्पान्ताग्निसमप्रभां स्मितमुखैः षड्भिर्भुजद्वादशैः
युक्तां पाशकखेटकञ्च सुशरं शूलं वरं वामके ।
दक्षेत्वङ्कुशखड्गशक्तिसुशरं चापाभये बिभ्रतीं
ज्वालामालिनि सञ्चितां मणिमयीभूषान्वितामाश्रये ॥

मित्रा - रक्तवर्णा
बालार्ककान्ति च शिलां जितवक्त्रशोभां
पाशाङ्कुशौ च वरमप्यभयं दधानाम् ।
चित्रांशुकां च नवरत्न विभूषिताङ्गीं
चित्राम्बिकां त्रिनयनां हृदि भावयामि ॥

गायत्री - रक्तवर्णा
देवीं पूर्वाह्नसंध्यायां गायत्रीं वह्निरूपिणीम् ।
कुमारीं रक्तवस्त्राङ्गीं रक्तस्रगनुलेपनाम् ॥

चतुर्भुजां चतुर्वक्त्रां वरदां चाष्टलोचनाम् ।
पद्माक्षमालावलयां बिभ्रतीं दक्षिणे करे ॥

वामे कमण्डलुं पाणौ स्रुवं सव्येतरे करे ।
अभयं वामहस्ते च पद्मपीठे प्रतिष्ठिताम् ॥

ऋग्वेदरूपिणीं प्रातस्सवनां हंसवाहनाम् ।
रसायनाञ्च प्रहतीं गार्हपत्ये प्रतिष्ठिताम् ॥

सावित्री - शुक्लवर्णा (मध्याह्नम्)
देवीं मध्याह्नसन्ध्यायां सावित्रीं रुद्ररूपिणीम् ।
युवतीं श्वेतवस्त्राख्यां शुक्लस्रगनुलेपनाम् ॥

चतुर्भुजां चतुर्वक्त्रां वरदां द्वादशेक्षणाम् ।
रुद्राक्षमालावलयां बिभ्रतीं दक्षिणे करे ॥

वामे करेऽभयं देवीं तथैवार्केन्दुधारिणीम् ।
स्वर्णपीठे स्थितां सौम्ये यजुर्वेदस्वरूपिणीम् ॥

माध्यन्दिनाख्यसवने सतां गोवृषवाहनाम् ।
दक्षिणाग्निस्वरूपां तां ध्यायेन्नित्यं विशुद्धधीः ॥

सरस्वती - श्यामवर्णा (सायङ्कालं)
सरस्वतीं तु सायाह्ने सन्ध्यायां विष्णुरूपिणीम् ।
स्थविरेन्दीवरश्यामां नीलकुञ्चितमूर्धजाम् ॥

चतुर्भुजां चैकवक्त्रां पद्मपत्रायतेक्षणाम् ।
शङ्खं चक्रं गदाञ्चैव तथैवाभयदं पुनः ॥

पीताम्बरं दधानाञ्च दिव्यस्रगनुलेपनाम् ।
तृतीयसवनाख्याञ्च ध्यायेद्वै विष्णुरूपिणीम् ॥

नीलपीठे स्थितां सौम्ये सामवेदस्वरूपिणीम् ।
वरदां गरुडारूढां आहवनीये व्यवस्थिताम् ॥

वश्यमुखी - रक्तवर्णा
सन्धाय सुमनोबाणं कर्षन्तीमैक्षवं धनुः ।
जगज्जैत्रीं जपासक्तां देवीं वश्यमुखीं भजे ॥

सप्तमातृकासु -

ब्राह्मी - पीतवर्णा
तत्र ब्राह्मी चतुर्वक्त्रा षड्भुजा हंससंस्थिता ।
पिङ्गाभा भूषणोपेता मृगचर्मोत्तरीयका ॥

वरं सूत्रं स्रुवं धत्ते दक्षबाहूत्तरे क्रमात् ।
वामे तु पुस्तकं कुण्डीं बिभ्रती चाभयङ्करम् ॥

माहेश्वरी - श्वेतवर्णा
माहेश्वरी वृषारूढा पञ्चवक्त्रा त्रिलोचना ।
श्वेतवर्णा दशभुजा चन्द्ररेखाविभूषिता ॥

खड्गं वज्रं त्रिशूलञ्च परशुं चाभयं वरम् ।
पाशं घण्टां तथा नागमङ्कुशं बिभ्रती करैः ॥

कौमारी - पाटलवर्णा
षडानना तु कौमारी पाटलाभा सुशीलका ।
रविबाहुर्मयूरस्था वरदा शक्तिधारिणी ॥

पताकां बिभ्रती दण्डं पात्रं बाणञ्च दक्षिणे ।
वामे चापमथो घण्टां कमलं कुक्कुटं तथा ॥

परशुं बिभ्रती चैव दधतस्त्वभयान्विता ॥

वैष्णवी - नीलवर्णा
वैष्णवी तार्क्ष्यका श्यामा षड्भुजा वनमालिनी ।
वरदा गदिनी दक्षे बिभ्रती च करेऽम्बुजम् ॥

शङ्खचक्राभयान्वामे सा चेयं विलसद्भुजा ॥

वाराही - कृष्णवर्णा
कृष्णवर्णा तु वाराही महिषस्था महोदरी ।
वरदा दण्डिनी खड्गं बिभ्रती दक्षिणे करे ॥

खेटपात्राभयान्वामे सूकरास्या लसद्भुजा ॥

ऐन्द्री - कनकवर्णा
ऐन्द्री सहस्रदृक् सौम्या हेमाभा गजससस्थिता ।
वरदा सूत्रिणी वज्रं बिभ्रत्यूर्ध्वं तु दक्षिणे ॥

वामे तु कमलं पात्रं ह्यभयं तदधः करे ॥

चामुण्डा - कृष्णवर्णा
चामुण्डा प्रेतका कृष्णा विकृता चाहिभूषणा ।
दंष्ट्राला क्षीणदेहा च कर्ताक्षी कामरूपिणी ॥

दिग्बाहुः क्षौमकुक्षी च मुसलं चक्रचामरे ।
अङ्कुशं बिभ्रती खड्गं दक्षिणे चाथ वामके ॥

खेटं पाशं धनुर्दण्डं कुठारं चापि बिभ्रती ॥

सिद्धिदायिनी - श्वेतवर्णा
सिद्धगन्धर्वयक्षाद्यैरसुरैरमरैरपि ।
सेव्यमाना सदा भूयात्सिद्धिदा सिद्धिदायिनी ॥

अपराजिता - नीलवर्णा
नीलोत्पलनिभां देवीं निद्रामुद्रितलोचनाम् ।
नीलकुञ्जितकेशाग्नां निम्ननाभीवलित्रयाम् ॥

वराभयकराम्भोजां प्रणतार्तिविनाशिनीम् ।
पीताम्बरवरोपेतां भूषणस्रग्विभूषिताम् ॥

वरशक्त्याकृतिं सौम्यां परसैन्यप्रभञ्जनीम् ।
शङ्खचक्रगदाऽभीतिरम्यहस्तां त्रिलोचनाम् ॥

सर्वकामप्रदां देवीं ध्यायेत्तामपराजिताम् ॥

तुलसी - श्यामवर्णा
ध्यायेच्च तुलसीं देवीं श्यामां कमललोचनाम् ।
प्रसन्नां पद्मकल्हार वराभय चतुर्भुजाम् ॥

किरीटहारकेयूरकुण्डलादिविभूषिताम् ।
धवलांशुकसभ्युक्तां पद्मासननिषेदुषीम् ॥

भूदेवी - स्वर्णवर्णा
स्वर्गवर्णा द्विहस्ता च दक्षिणेनाभयप्रदा ।
दाडिमीफलसम्युक्ता वामे कल्पतरोरधः ॥

वामपादेन संस्पृष्टनिधिकुम्भाधरा तथा ।
सर्वालङ्कारभूषाढ्या ध्येया सर्वफलप्रदा ॥

नीलादेवी - श्यामवर्णा
नीलोत्पलघनश्यामा नीलवस्त्रविभूषिता ।
चतुर्भुजा सुखासीना वराभयकरान्विता ॥

इतराभ्यां तु हस्ताभ्यां कुमुदद्वयधारिणी ।
सर्वाभरणसम्युक्ता नीलादेवी समीरिता ॥

अश्वारूढा राजलक्ष्मी - हिरण्यवर्णा
चतुरङ्गबलोपेतां धनधान्यसुखेश्वरीम् ।
अश्वारूढामहं वन्दे राजलक्ष्मीं हिरण्मयीम् ॥

इति विभिन्नरूपलक्ष्मीध्यानप्रकाराः सम्पूर्णाः ।

श्रीलक्ष्म्यष्टोत्तरशतनामावलिः -1

श्रीलक्ष्म्यष्टोत्तरशतनामावलिः 

एषा नामावलिः महालक्ष्म्यै नमः इत्यारब्धायाः सहस्रनामावल्या
अङ्गभूता ।

ॐ ब्रह्मज्ञायै नमः । ब्रह्मसुखदायै । ब्रह्मण्यायै । ब्रह्मरूपिण्यै ।
सुमत्यै । सुभगायै । सुन्दायै । प्रयत्यै । नियत्यै । यत्यै ।
सर्वप्राणस्वरूपायै । सर्वेन्द्रियसुखप्रदायै । संविन्मय्यै ।
सदाचारायै । सदातुष्टायै । सदानतायै । कौमुद्यै । कुमुदानन्दायै ।
क्वै नमः । कुत्सिततमोहर्यै नमः ॥ २०

हृदयार्तिहर्यै नमः । हारशोभिन्यै । हानिवारिण्यै । सम्भाज्यायै ।
संविभाज्यायै । आज्ञायै । ज्यायस्यै । जनिहारिण्यै । महाक्रोधायै ।
महातर्षायै । महर्षिजनसेवितायै । कैटभारिप्रियायै । कीर्त्यै ।
कीर्तितायै । कैतवोज्झितायै । कौमुद्यै । शीतलमनसे ।
कौसल्यासुतभामिन्यै । कासारनाभ्यै । कस्यै नमः ॥ ४०

तस्यै नमः । यस्यै । एतस्यै । इयत्ताविवर्जितायै । अन्तिकस्थायै ।
अतिदूरस्थायै । हृदयस्थायै । अम्बुजस्थितायै ।
मुनिचित्तस्थितायै । मौनिगम्यायै । मान्धातृपूजितायै ।
मतिस्थिरीकर्तृकार्यनित्यनिर्वहणोत्सुकायै । महीस्थितायै ।
मध्यस्थायै । द्युस्थितायै । अधःस्थितायै । ऊर्ध्वगायै । भूत्यै ।
वीभूत्यै । सुरभ्यै नमः ॥ ६०

सुरसिद्धार्तिहारिण्यै नमः । अतिभोगायै । अतिदानायै । अतिरूपायै ।
अतिकरुणायै । अतिभासे । विज्वरायै । वियदाभोगायै । वितन्द्रायै ।
विरहासहायै । शूर्पकारातिजनन्यै । शून्यदोषायै । शुचिप्रियायै ।
निःस्पृहायै । सस्पृहायै । नीलासपत्न्यै । निधिदायिन्यै ।
कुम्भस्तन्यै । कुन्दरदायै । कुङ्कुमालेपितायै नमः ॥ ८०

कुजायै नमः । शास्त्रज्ञायै । शास्त्रजनन्यै । शास्त्रज्ञेयायै ।
शरीरगायै । सत्यभासे । सत्यसङ्कल्पायै । सत्यकामायै । सरोजिन्यै ।
चन्द्रप्रियायै । चन्द्रगतायै । चन्द्रायै । चन्द्रसहोदर्यै ।
औदर्यै । औपयिक्यै । प्रीतायै । गीतायै । ओतायै । गिरिस्थितायै ।
अनन्वितायै नमः ॥ १००

अमूलायै नमः । आर्तिध्वान्तपुञ्जरविप्रभायै । मङ्गलायै ।
मङ्गलपरायै । मृग्यायै । मङ्गलदेवतायै । कोमलायै ।
महालक्ष्म्यै नमः ॥ १०८

इति श्रीलक्ष्म्यष्टोत्तरशतनामावलिः समाप्ता ।

Tuesday, 19 May 2020

श्रीमहालक्ष्मी ललितास्तोत्रम्

श्रीमहालक्ष्मी ललितास्तोत्रम् 

          ॥ ध्यानम् ॥

चक्राकारं महत्तेजः तन्मध्ये परमेश्वरी ।
जगन्माता जीवदात्री नारायणी परमेश्वरी ॥ १ ॥

व्यूहतेजोमयी ब्रह्मानन्दिनी हरिसुन्दरी ।
पाशांकुशेक्षुकोदण्ड पद्ममालालसत्करा ॥ २ ॥

दृष्ट्वा तां मुमुहुर्देवाः प्रणेमुर्विगतज्वराः ।
तुष्टुवुः श्रीमहालक्ष्मीं ललितां वैष्णवीं पराम् ॥ ३ ॥

         ॥ श्रीदेवाः ऊचुः ॥

जय लक्ष्मि जगन्मातः जय लक्ष्मि परात्परे ।
जय कल्याणनिलये जय सर्वकलात्मिके ॥ १ ॥

जय ब्राह्मि महालक्ष्मि ब्रहात्मिके परात्मिके ।
जय नारायणि शान्ते जय श्रीललिते रमे ॥ २ ॥

जय श्रीविजये देवीश्वरि श्रीदे जयर्द्धिदे ।
नमः सहस्र शीर्षायै सहस्रानन लोचने ॥ ३ ॥

नमः सहस्रहस्ताब्जपादपङ्कजशोभिते । 
अणोरणुतरे लक्ष्मि महतोऽपि महीयसि ॥ ४ ॥

अतलं ते स्मृतौ पादौ वितलं जानुनी तव ।
रसातलं कटिस्ते च कुक्षिस्ते पृथिवी मता ॥ ५ ॥

हृदयं भुवः स्वस्तेऽस्तु मुखं सत्यं शिरो मतम् ।
दृशश्चन्द्रार्कदहना दिशः कर्णा भुजः सुराः ॥ ६ ॥

मरुतस्तु तवोच्छ्वासा वाचस्ते श्रुतयो मताः ।
क्रिडा ते लोकरचना सखा ते परमेश्वरः ॥ ७ ॥

आहारस्ते सदानन्दो वासस्ते हृदयो हरेः ।
दृश्यादृश्यस्वरूपाणि रूपाणि भुवनानि ते ॥ ८ ॥

शिरोरुहा घनास्ते वै तारकाः कुसुमानि ते ।
धर्माद्या बाहवस्ते च कालाद्या हेतयस्तव ॥ ९ ॥

यमाश्च नियमाश्चापि करपादनखास्तव ।
स्तनौ स्वाहास्वधाकारौ सर्वजीवनदुग्धदौ ॥ १० ॥

प्राणायामस्तव श्वासो रसना ते सरस्वती ।
महीरुहास्तेऽङ्गरुहाः प्रभातं वसनं तव ॥ ११ ॥

आदौ दया धर्मपत्नी ससर्ज निखिलाः प्रजाः ।
हृत्स्था त्वं व्यापिनी लक्ष्मीः मोहिनी त्वं तथा परा ॥ १२ ॥

इदानीं दृश्यसे ब्राह्मी नारायणी प्रियशङ्करी ।
नमस्तस्यै महालक्ष्म्यै गजमुख्यै नमो नमः ॥ १३ ॥

सर्वशक्त्यै सर्वधात्र्यै महालक्ष्म्यै नमो नमः । 
या ससर्ज विराजं च ततोऽजं विष्णुमीश्वरम् ॥ १४ ॥

रुदं तथा सुराग्रयाँश्च तस्यै लक्ष्म्यै नमो नमः ।
त्रिगुणायै निर्गुणायै हरिण्यै ते नमो नमः ॥ १५ ॥

यन्त्रतन्त्रात्मिकायै ते जगन्मात्रे नमो नमः ।
वाग्विभूत्यै गुरुतन्व्यै महालक्ष्म्यै नमो नमः ॥ १६ ॥

कम्भरायै सर्वविद्याभरायै ते नमो नमः ।
जयाललितापाञ्चाली रमातन्वै नमो नमः ॥ १७ ॥

पद्मावतीरमाहंसी सुगुणाऽऽज्ञाश्रियै नमः ।
नमः स्तुता प्रसनैवंछन्दयामास सव्दरैः ॥ १८ ॥

॥ फल श्रुति श्री लक्ष्मी उवाच ॥ 

स्तावका मे भविश्यन्ति श्रीयशोधर्मसम्भृताः ।
विद्याविनयसम्पन्ना निरोगा दीर्घजीविनः ॥ १ ॥

पुत्रमित्रकलत्राढ्या भविष्यन्ति सुसम्पदः ।
पठनाच्छ्रवणादस्य शत्रुभीतिर्विनश्यति ॥ २ ॥

राजभीतिः कदनानि विनश्यन्ति न संशयः ।
भुक्तिं मुक्तिं भाग्यमृद्धिमुत्तमां च लभेन्नरः ॥ ३ ॥

॥ श्रीलक्ष्मीनारायणसंहितायां देवसङ्घकृता श्रीमहालक्ष्मीललितास्तोत्र

॥ श्रीअष्टलक्ष्मी अष्टोत्तरशतनामावली ॥

॥ श्रीअष्टलक्ष्मी अष्टोत्तरशतनामावली ॥

जय जय शङ्कर ।
ॐ श्री ललिता महात्रिपुरसुन्दरी
पराभट्टारिका समेताय
श्री चन्द्रमौळीश्वर परब्रह्मणे नमः ॥

१ श्री आदिलक्ष्मी नामावलिः ॥ ॐ श्रीं
२ श्री धान्यलक्ष्मी नामावलिः ॥ ॐ श्रीं क्लीं
३ श्री धैर्यलक्ष्मी नामावलिः ॥  ॐ श्रीं ह्रीं क्लीं
४ श्री गजलक्ष्मी नामावलिः ॥ ॐ श्रीं ह्रीं क्लीं
५ श्री सन्तानलक्ष्मी नामावलिः ॥ ॐ ह्रीं श्रीं क्लीं
६ श्री विजयलक्ष्मी नामावलिः ॥ ॐ क्लीं ॐ
७ श्री विद्यालक्ष्मी नामावलिः ॥  ॐ ऐं ॐ
८ श्री ऐश्वर्यलक्ष्मी नामावलिः ॥ ॐ श्रीं श्रीं श्रीं ॐ


ॐ श्रीं
आदिलक्ष्म्यै नमःअकारायै नमःअव्ययायै नमःअच्युतायै नमःआनन्दायै नमःअर्चितायै नमःअनुग्रहायै नमःअमृतायै नमःअनन्तायै नमःइष्टप्राप्त्यै नमःईश्वर्यै नमःकर्त्र्यै नमःकान्तायै नमःकलायै नमः
कल्याण्यै नमःकपर्दिने नमःकमलायै नमःकान्तिवर्धिन्यै नमःकुमार्यै नमःकामाक्ष्यै नमःकीर्तिलक्ष्म्यै नमः
गन्धिन्यै नमःगजारूढायै नमःगम्भीरवदनायै नमःचक्रहासिन्यै नमःचक्रायै नमःज्योतिलक्ष्म्यै नमः
जयलक्ष्म्यै नमःज्येष्ठायै नमःजगज्जनन्यै नमःजागृतायै नमःत्रिगुणायै नमःत्र्यैलोक्यमोहिन्यै नमः
त्र्यैलोक्यपूजितायै नमःनानारूपिण्यै नमःनिखिलायै नमःनारायण्यै नमःपद्माक्ष्यै नमःपरमायै नमः
प्राणायै नमःप्रधानायै नमःप्राणशक्त्यै नमःब्रह्माण्यै नमःभाग्यलक्ष्म्यै नमःभूदेव्यै नमःबहुरूपायै नमःभद्रकाल्यै नमःभीमायै नमःभैरव्यै नमःभोगलक्ष्म्यै नमःभूलक्ष्म्यै नमःमहाश्रियै नमःमाधव्यै नमःमात्रे नमःमहालक्ष्म्यै नमःमहावीरायै नमःमहाशक्त्यै नमःमालाश्रियै नमःराज्ञ्यै नमःरमायै नमःराज्यलक्ष्म्यै नमःरमणीयायै नमःलक्ष्म्यै नमःलाक्षितायै नमःलेखिन्यै नमःविजयलक्ष्म्यै नमःविश्वरूपिण्यै नमःविश्वाश्रयायै नमः
विशालाक्ष्यै नमःव्यापिन्यै नमःवेदिन्यै नमःवारिधये नमःव्याघ्र्यै नमःवाराह्यै नमःवैनायक्यै नमः
वरारोहायै नमःवैशारद्यै नमःशुभायै नमःशाकम्भर्यै नमःश्रीकान्तायै नमःकालायै नमःशरण्यै नमः
श्रुतये नमःस्वप्नदुर्गायै नमःसुर्यचन्द्राग्निनेत्रत्रयायै नमःसिम्हगायै नमःसर्वदीपिकायै नमः
स्थिरायै नमःसर्वसम्पत्तिरूपिण्यै नमःस्वामिन्यै नमःसितायै नमःसूक्ष्मायै नमःसर्वसम्पन्नायै नमः
हंसिन्यै नमःहर्षप्रदायै नमःहंसगायै नमःहरिसूतायै नमःहर्षप्राधान्यै नमःहरित्पतये नमःसर्वज्ञानायै नमःसर्वजनन्यै नमःमुखफलप्रदायै नमःमहारूपायै नमःश्रीकर्यै नमःश्रेयसे नमःश्रीचक्रमध्यगायै नमः
श्रीकारिण्यै नमःक्षमायै नमः  ॥ ॐ ॥




ॐ श्रीं क्लींधान्यलक्ष्म्यै नमःआनन्दाकृत्यै नमःअनिन्दितायै नमःआद्यायै नमःआचार्यायै नमःअभयायै नमः
अशक्यायै नमःअजयायै नमःअजेयायै नमःअमलायै नमःअमृतायै नमःअमरायै नमःइन्द्राणीवरदायै नमः
इन्दीवरेश्वर्यै नमःउरगेन्द्रशयनायै नमःउत्केल्यै नमःकाश्मीरवासिन्यै नमःकादम्बर्यै नमःकलरवायै नमः
कुचमण्डलमण्डितायै नमःकौशिक्यै नमःकृतमालायै नमःकौशाम्ब्यै नमःकोशवर्धिन्यै नमःखड्गधरायै नमः
खनये नमःखस्थायै नमःगीतायै नमःगीतप्रियायै नमःगीत्यै नमःगायत्र्यै नमःगौतम्यै नमःचित्राभरणभूषितायै नमःचाणूर्मदिन्यै नमःचण्डायै नमःचण्डहंत्र्यै नमःचण्डिकायै नमःगण्डक्यै नमःगोमत्यै नमःगाथायै नमःतमोहन्त्र्यै नमःत्रिशक्तिधृतेनमःतपस्विन्यै नमःजातवत्सलायै नमःजगत्यै नमःजंगमायै नमः
ज्येष्ठायै नमःजन्मदायै नमःज्वलितद्युत्यै नमःजगज्जीवायै नमःजगद्वन्द्यायै नमःधर्मिष्ठायै नमः
धर्मफलदायै नमःध्यानगम्यायै नमःधारणायै नमःधरण्यै नमःधवलायै नमःधर्माधारायै नमःधनायै नमःधारायै नमःधनुर्धर्यै नमःनाभसायै नमःनासायै नमःनूतनाङ्गायै नमःनरकघ्न्यै नमःनुत्यै नमःनागपाशधरायै नमः
नित्यायै नमःपर्वतनन्दिन्यै नमःपतिव्रतायै नमःपतिमय्यै नमःप्रियायै नमःप्रीतिमञ्जर्यै नमःपातालवासिन्यै नमःपूर्त्यै नमःपाञ्चाल्यै नमःप्राणिनां प्रसवे नमःपराशक्त्यै नमःबलिमात्रे नमःबृहद्धाम्न्यै नमःबादरायणसंस्तुतायै नमःभयघ्न्यै नमःभीमरूपायै नमःबिल्वायै नमःभूतस्थायै नमःमखायै नमः
मातामह्यै नमःमहामात्रे नमःमध्यमायै नमःमानस्यै नमःमनवे नमःमेनकायै नमःमुदायै नमः
यत्तत्पदनिबन्धिन्यै नमःयशोदायै नमःयादवायै नमःयूत्यै नमःरक्तदन्तिकायै नमःरतिप्रियायै नमःरतिकर्यै नमःरक्तकेश्यै नमःरणप्रियायै नमःलंकायै नमःलवणोदधये नमःलंकेशहंत्र्यै नमःलेखायै नमःवरप्रदायै नमः
वामनायै नमःवैदिक्यै नमःविद्युते नमःवारह्यै नमःसुप्रभायै नमःसमिधे नमः  ॥ ॐ ॥




ॐ  श्रीं ह्रीं क्लींधैर्यलक्ष्म्यै नमःअपूर्वायै नमः
अनाद्यायै नमःअदिरीश्वर्यै नमःअभीष्टायै नमःआत्मरूपिण्यै नमःअप्रमेयायै नमःअरुणायै नमःअलक्ष्यायै नमःअद्वैतायै नमःआदिलक्ष्म्यै नमःईशानवरदायै नमःइन्दिरायै नमःउन्नताकारायै नमःउद्धटमदापहायै नमःक्रुद्धायै नमःकृशाङ्ग्यै नमःकायवर्जितायै नमःकामिन्यै नमःकुन्तहस्तायै नमःकुलविद्यायै नमःकौलिक्यै नमःकाव्यशक्त्यै नमःकलात्मिकायै नमःखेचर्यै नमःखेटकामदायै नमःगोप्त्र्यै नमःगुणाढ्यायै नमःगवे नमःचन्द्रायै नमःचारवे नमःचन्द्रप्रभायै नमःचञ्चवे नमःचतुराश्रमपूजितायै नमःचित्यै नमःगोस्वरूपायै नमःगौतमाख्यमुनिस्तुतायै नमःगानप्रियायै नमःछद्मदैत्यविनाशिन्यै नमःजयायै नमःजयन्त्यै नमःजयदायै नमःजगत्त्रयहितैषिण्यै नमःजातरूपायै नमःज्योत्स्नायै नमःजनतायै नमःतारायै नमः
त्रिपदायै नमःतोमरायै नमःतुष्ट्यै नमःधनुर्धरायै नमःधेनुकायै नमःध्वजिन्यै नमःधीरायै नमःधूलिध्वान्तहरायै नमःध्वनये नमःध्येयायै नमःधन्यायै नमःनौकायै नमःनीलमेघसमप्रभायै नमःनव्यायै नमःनीलाम्बरायै नमःनखज्वालायै नमःनलिन्यै नमःपरात्मिकायै नमःपरापवादसंहर्त्र्यै नमःपन्नगेन्द्रशयनायै नमःपतगेन्द्रकृतासनायै नमःपाकशासनायै नमःपरशुप्रियायै नमःबलिप्रियायै नमःबलदायै नमःबालिकायै नमःबालायै नमःबदर्यै नमःबलशालिन्यै नमःबलभद्रप्रियायै नमःबुद्ध्यै नमःबाहुदायै नमःमुख्यायै नमःमोक्षदायै नमःमीनरूपिण्यै नमःयज्ञायै नमःयज्ञाङ्गायै नमःयज्ञकामदायै नमःयज्ञरूपायै नमःयज्ञकर्त्र्यै नमःरमण्यै नमःराममूर्त्यै नमःरागिण्यै नमःरागज्ञायै नमःरागवल्लभायै नमःरत्नगर्भायै नमःरत्नखन्यै नमः
राक्षस्यै नमःलक्षणाढ्यायै नमःलोलार्कपरिपूजितायै नमःवेत्रवत्यै नमःविश्वेशायै नमःवीरमात्रे नमःवीरश्रियै नमःवैष्णव्यै नमःशुच्यै नमःश्रद्धायै नमःशोणाक्ष्यै नमःशेषवन्दितायै नमःशताक्षयै नमःहतदानवायै नमः
हयग्रीवतनवे नमः ॥ ॐ ॥




ॐ श्रीं ह्रीं क्लीं
गजलक्ष्म्यै नमः
अनन्तशक्त्यै नमः
अज्ञेयायै नमः
अणुरूपायै नमः
अरुणाकृत्यै नमः
अवाच्यायै नमः
अनन्तरूपायै नमः
अम्बुदायै नमः
अम्बरसंस्थाङ्कायै नमः
अशेषस्वरभूषितायै नमः
इच्छायै नमः
इन्दीवरप्रभायै नमः
उमायै नमः
ऊर्वश्यै नमः
उदयप्रदायै नमः
कुशावर्तायै नमः
कामधेनवे नमः
कपिलायै नमः
कुलोद्भवायै नमः
कुङ्कुमाङ्कितदेहायै नमः
कुमार्यै नमः
कुङ्कुमारुणायै नमः
काशपुष्पप्रतीकाशायै नमः
खलापहायै नमः
खगमात्रे नमः
खगाकृत्यै नमः
गान्धर्वगीतकीर्त्यै नमः
गेयविद्याविशारदायै नमः
गम्भीरनाभ्यै नमः
गरिमायै नमः
चामर्यै नमः
चतुराननायै नमः
चतुःषष्टिश्रीतन्त्रपूजनीयायै नमः
चित्सुखायै नमः
चिन्त्यायै नमः
गम्भीरायै नमः
गेयायै नमः
गन्धर्वसेवितायै नमः
जरामृत्युविनाशिन्यै नमः
जैत्र्यै नमः
जीमूतसंकाशायै नमः
जीवनायै नमः
जीवनप्रदायै नमः
जितश्वासायै नमः
जितारातये नमः
जनित्र्यै नमः
तृप्त्यै नमः
त्रपायै नमः
तृषायै नमः
दक्षपूजितायै नमः
दीर्घकेश्यै नमः
दयालवे नमः
दनुजापहायै नमः
दारिद्र्यनाशिन्यै नमः
द्रवायै नमः
नीतिनिष्ठायै नमः
नाकगतिप्रदायै नमः
नागरूपायै नमः
नागवल्ल्यै नमः
प्रतिष्ठायै नमः
पीताम्बरायै नमः
परायै नमः
पुण्यप्रज्ञायै नमः
पयोष्ण्यै नमः
पम्पायै नमः
पद्मपयस्विन्यै नमः
पीवरायै नमः
भीमायै नमः
भवभयापहायै नमः
भीष्मायै नमः
भ्राजन्मणिग्रीवायै नमः
भ्रातृपूज्यायै नमः
भार्गव्यै नमः
भ्राजिष्णवे नमः
भानुकोटिसमप्रभायै नमः
मातङ्ग्यै नमः
मानदायै नमः
मात्रे नमः
मातृमण्डलवासिन्यै नमः
मायायै नमः
मायापुर्यै नमः
यशस्विन्यै नमः
योगगम्यायै नमः
योग्यायै नमः
रत्नकेयूरवलयायै नमः
रतिरागविवर्धिन्यै नमः
रोलम्बपूर्णमालायै नमः
रमणीयायै नमः
रमापत्यै नमः
लेख्यायै नमः
लावण्यभुवे नमः
लिप्यै नमः
लक्ष्मणायै नमः
वेदमात्रे नमः
वह्निस्वरूपधृषे नमः
वागुरायै नमः
वधुरूपायै नमः
वालिहंत्र्यै नमः
वराप्सरस्यै नमः
शाम्बर्यै नमः
शमन्यै नमः
शांत्यै नमः
सुन्दर्यै नमः
सीतायै नमः
सुभद्रायै नमः
क्षेमङ्कर्यै नमः
क्षित्यै नमः 
॥ ॐ ॥




ॐ ह्रीं श्रीं क्लीं
सन्तानलक्ष्म्यै नमः
असुरघ्न्यै नमः
अर्चितायै नमः
अमृतप्रसवे नमः
अकाररूपायै नमः
अयोध्यायै नमः
अश्विन्यै नमः
अमरवल्लभायै नमः
अखण्डितायुषे नमः
इन्दुनिभाननायै नमः
इज्यायै नमः
इन्द्रादिस्तुतायै नमः
उत्तमायै नमः
उत्कृष्टवर्णायै नमः
उर्व्यै नमः
कमलस्रग्धरायै नमः
कामवरदायै नमः
कमठाकृत्यै नमः
काञ्चीकलापरम्यायै नमः
कमलासनसंस्तुतायै नमः
कम्बीजायै नमः
कौत्सवरदायै नमः
कामरूपनिवासिन्यै नमः
खड्गिन्यै नमः
गुणरूपायै नमः
गुणोद्धतायै नमः
गोपालरूपिण्यै नमः
गोप्त्र्यै नमः
गहनायै नमः
गोधनप्रदायै नमः
चित्स्वरूपायै नमः
चराचरायै नमः
चित्रिण्यै नमः
चित्रायै नमः
गुरुतमायै नमः
गम्यायै नमः
गोदायै नमः
गुरुसुतप्रदायै नमः
ताम्रपर्ण्यै नमः
तीर्थमय्यै नमः
तापस्यै नमः
तापसप्रियायै नमः
त्र्यैलोक्यपूजितायै नमः
जनमोहिन्यै नमः
जलमूर्त्यै नमः
जगद्बीजायै नमः
जनन्यै नमः
जन्मनाशिन्यै नमः
जगद्धात्र्यै नमः
जितेन्द्रियायै नमः
ज्योतिर्जायायै नमः
द्रौपद्यै नमः
देवमात्रे नमः
दुर्धर्षायै नमः
दीधितिप्रदायै नमः
दशाननहरायै नमः
डोलायै नमः
द्युत्यै नमः
दीप्तायै नमः
नुत्यै नमः
निषुम्भघ्न्यै नमः
नर्मदायै नमः
नक्षत्राख्यायै नमः
नन्दिन्यै नमः
पद्मिन्यै नमः
पद्मकोशाक्ष्यै नमः
पुण्डलीकवरप्रदायै नमः
पुराणपरमायै नमः
प्रीत्यै नमः
भालनेत्रायै नमः
भैरव्यै नमः
भूतिदायै नमः
भ्रामर्यै नमः
भ्रमायै नमः
भूर्भुवस्वः स्वरूपिण्यै नमः
मायायै नमः
मृगाक्ष्यै नमः
मोहहंत्र्यै नमः
मनस्विन्यै नमः
महेप्सितप्रदायै नमः
मात्रमदहृतायै नमः
मदिरेक्षणायै नमः
युद्धज्ञायै नमः
यदुवंशजायै नमः
यादवार्तिहरायै नमः
युक्तायै नमः
यक्षिण्यै नमः
यवनार्दिन्यै नमः
लक्ष्म्यै नमः
लावण्यरूपायै नमः
ललितायै नमः
लोललोचनायै नमः
लीलावत्यै नमः
लक्षरूपायै नमः
विमलायै नमः
वसवे नमः
व्यालरूपायै नमः
वैद्यविद्यायै नमः
वासिष्ठ्यै नमः
वीर्यदायिन्यै नमः
शबलायै नमः
शांतायै नमः
शक्तायै नमः
शोकविनाशिन्यै नमः
शत्रुमार्यै नमः
शत्रुरूपायै नमः
सरस्वत्यै नमः
सुश्रोण्यै नमः
सुमुख्यै नमः
हावभूम्यै नमः
हास्यप्रियायै नमः 
॥ ॐ ॥




ॐ क्लीं ॐ
विजयलक्ष्म्यै नमः
अम्बिकायै नमः
अम्बालिकायै नमः
अम्बुधिशयनायै नमः
अम्बुधये नमः
अन्तकघ्न्यै नमः
अन्तकर्त्र्यै नमः
अन्तिमायै नमः
अन्तकरूपिण्यै नमः
ईड्यायै नमः
इभास्यनुतायै नमः
ईशानप्रियायै नमः
ऊत्यै नमः
उद्यद्भानुकोटिप्रभायै नमः
उदाराङ्गायै नमः
केलिपरायै नमः
कलहायै नमः
कान्तलोचनायै नमः
काञ्च्यै नमः
कनकधारायै नमः
कल्यै नमः
कनककुण्डलायै नमः
खड्गहस्तायै नमः
खट्वाङ्गवरधारिण्यै नमः
खेटहस्तायै नमः
गन्धप्रियायै नमः
गोपसख्यै नमः
गारुड्यै नमः
गत्यै नमः
गोहितायै नमः
गोप्यायै नमः
चिदात्मिकायै नमः
चतुर्वर्गफलप्रदायै नमः
चतुराकृत्यै नमः
चकोराक्ष्यै नमः
चारुहासायै नमः
गोवर्धनधरायै नमः
गुर्व्यै नमः
गोकुलाभयदायिन्यै नमः
तपोयुक्तायै नमः
तपस्विकुलवन्दितायै नमः
तापहारिण्यै नमः
तार्क्षमात्रे नमः
जयायै नमः
जप्यायै नमः
जरायवे नमः
जवनायै नमः
जनन्यै नमः
जाम्बूनदविभूषायै नमः
दयानिध्यै नमः
ज्वालायै नमः
जम्भवधोद्यतायै नमः
दुःखहंत्र्यै नमः
दान्तायै नमः
द्रुतेष्टदायै नमः
दात्र्यै नमः
दीनर्तिशमनायै नमः
नीलायै नमः
नागेन्द्रपूजितायै नमः
नारसिम्ह्यै नमः
नन्दिनन्दायै नमः
नन्द्यावर्तप्रियायै नमः
निधये नमः
परमानन्दायै नमः
पद्महस्तायै नमः
पिकस्वरायै नमः
पुरुषार्थप्रदायै नमः
प्रौढायै नमः
प्राप्त्यै नमः
बलिसंस्तुतायै नमः
बालेन्दुशेखरायै नमः
बन्द्यै नमः
बालग्रहविनाशन्यै नमः
ब्राह्म्यै नमः
बृहत्तमायै नमः
बाणायै नमः
ब्राह्मण्यै नमः
मधुस्रवायै नमः
मत्यै नमः
मेधायै नमः
मनीषायै नमः
मृत्युमारिकायै नमः
मृगत्वचे नमः
योगिजनप्रियायै नमः
योगाङ्गध्यानशीलायै नमः
यज्ञभुवे नमः
यज्ञवर्धिन्यै नमः
राकायै नमः
राकेन्दुवदनायै नमः
रम्यायै नमः
रणितनूपुरायै नमः
रक्षोघ्न्यै नमः
रतिदात्र्यै नमः
लतायै नमः
लीलायै नमः
लीलानरवपुषे नमः
लोलायै नमः
वरेण्यायै नमः
वसुधायै नमः
वीरायै नमः
वरिष्ठायै नमः
शातकुम्भमय्यै नमः
शक्त्यै नमः
श्यामायै नमः
शीलवत्यै नमः
शिवायै नमः
होरायै नमः
हयगायै नमः 
॥ ॐ ॥




ऐं ॐ
विद्यालक्ष्म्यै नमः
वाग्देव्यै नमः
परदेव्यै नमः
निरवद्यायै नमः
पुस्तकहस्तायै नमः
ज्ञानमुद्रायै नमः
श्रीविद्यायै नमः
विद्यारूपायै नमः
शास्त्रनिरूपिण्यै नमः
त्रिकालज्ञानायै नमः
सरस्वत्यै नमः
महाविद्यायै नमः
वाणिश्रियै नमः
यशस्विन्यै नमः
विजयायै नमः
अक्षरायै नमः
वर्णायै नमः
पराविद्यायै नमः
कवितायै नमः
नित्यबुद्धायै नमः
निर्विकल्पायै नमः
निगमातीतायै नमः
निर्गुणरूपायै नमः
निष्कलरूपायै नमः
निर्मलायै नमः
निर्मलरूपायै नमः
निराकारायै नमः
निर्विकारायै नमः
नित्यशुद्धायै नमः
बुद्ध्यै नमः
मुक्त्यै नमः
नित्यायै नमः
निरहङ्कारायै नमः
निरातङ्कायै नमः
निष्कलङ्कायै नमः
निष्कारिण्यै नमः
निखिलकारणायै नमः
निरीश्वरायै नमः
नित्यज्ञानायै नमः
निखिलाण्डेश्वर्यै नमः
निखिलवेद्यायै नमः
गुणदेव्यै नमः
सुगुणदेव्यै नमः
सर्वसाक्षिण्यै नमः
सच्चिदानन्दायै नमः
सज्जनपूजितायै नमः
सकलदेव्यै नमः
मोहिन्यै नमः
मोहवर्जितायै नमः
मोहनाशिन्यै नमः
शोकायै नमः
शोकनाशिन्यै नमः
कालायै नमः
कालातीतायै नमः
कालप्रतीतायै नमः
अखिलायै नमः
अखिलनिदानायै नमः
अजरामरायै नमः
अजहितकारिण्यै नमः
त्रिग़ुणायै नमः
त्रिमूर्त्यै नमः
भेदविहीनायै नमः
भेदकारणायै नमः
शब्दायै नमः
शब्दभण्डारायै नमः
शब्दकारिण्यै नमः
स्पर्शायै नमः
स्पर्शविहीनायै नमः
रूपायै नमः
रूपविहीनायै नमः
रूपकारणायै नमः
रसगन्धिन्यै नमः
रसविहीनायै नमः
सर्वव्यापिन्यै नमः
मायारूपिण्यै नमः
प्रणवलक्ष्म्यै नमः
मात्रे नमः
मातृस्वरूपिण्यै नमः
ह्रीङ्कार्यै
ॐकार्यै नमः
शब्दशरीरायै नमः
भाषायै नमः
भाषारूपायै नमः
गायत्र्यै नमः
विश्वायै नमः
विश्वरूपायै नमः
तैजसे नमः
प्राज्ञायै नमः
सर्वशक्त्यै नमः
विद्याविद्यायै नमः
विदुषायै नमः
मुनिगणार्चितायै नमः
ध्यानायै नमः
हंसवाहिन्यै नमः
हसितवदनायै नमः
मन्दस्मितायै नमः
अम्बुजवासिन्यै नमः
मयूरायै नमः
पद्महस्तायै नमः
गुरुजनवन्दितायै नमः
सुहासिन्यै नमः
मङ्गलायै नमः
वीणापुस्तकधारिण्यै नमः 
॥ ॐ ॥




श्रीं श्रीं श्रीं ॐ
ऐश्वर्यलक्ष्म्यै नमः
अनघायै नमः
अलिराज्यै नमः
अहस्करायै नमः
अमयघ्न्यै नमः
अलकायै नमः
अनेकायै नमः
अहल्यायै नमः
आदिरक्षणायै नमः
इष्टेष्टदायै नमः
इन्द्राण्यै नमः
ईशेशान्यै नमः
इन्द्रमोहिन्यै नमः
उरुशक्त्यै नमः
उरुप्रदायै नमः
ऊर्ध्वकेश्यै नमः
कालमार्यै नमः
कालिकायै नमः
किरणायै नमः
कल्पलतिकायै नमः
कल्पस्ंख्यायै नमः
कुमुद्वत्यै नमः
काश्यप्यै नमः
कुतुकायै नमः
खरदूषणहंत्र्यै नमः
खगरूपिण्यै नमः
गुरवे नमः
गुणाध्यक्षायै नमः
गुणवत्यै नमः
गोपीचन्दनचर्चितायै नमः
हङ्गायै नमः
चक्षुषे नमः
चन्द्रभागायै नमः
चपलायै नमः
चलत्कुण्डलायै नमः
चतुःषष्टिकलाज्ञानदायिन्यै नमः
चाक्षुषी मनवे नमः
चर्मण्वत्यै नमः
चन्द्रिकायै नमः
गिरये नमः
गोपिकायै नमः
जनेष्टदायै नमः
जीर्णायै नमः
जिनमात्रे नमः
जन्यायै नमः
जनकनन्दिन्यै नमः
जालन्धरहरायै नमः
तपःसिद्ध्यै नमः
तपोनिष्ठायै नमः
तृप्तायै नमः
तापितदानवायै नमः
दरपाणये नमः
द्रग्दिव्यायै नमः
दिशायै नमः
दमितेन्द्रियायै नमः
दृकायै नमः
दक्षिणायै नमः
दीक्षितायै नमः
निधिपुरस्थायै नमः
न्यायश्रियै नमः
न्यायकोविदायै नमः
नाभिस्तुतायै नमः
नयवत्यै नमः
नरकार्तिहरायै नमः
फणिमात्रे नमः
फलदायै नमः
फलभुजे नमः
फेनदैत्यहृते नमः
फुलाम्बुजासनायै नमः
फुल्लायै नमः
फुल्लपद्मकरायै नमः
भीमनन्दिन्यै नमः
भूत्यै नमः
भवान्यै नमः
भयदायै नमः
भीषणायै नमः
भवभीषणायै नमः
भूपतिस्तुतायै नमः
श्रीपतिस्तुतायै नमः
भूधरधरायै नमः
भुतावेशनिवासिन्यै नमः
मधुघ्न्यै नमः
मधुरायै नमः
माधव्यै नमः
योगिन्यै नमः
यामलायै नमः
यतये नमः
यन्त्रोद्धारवत्यै नमः
रजनीप्रियायै नमः
रात्र्यै नमः
राजीवनेत्रायै नमः
रणभूम्यै नमः
रणस्थिरायै नमः
वषट्कृत्यै नमः
वनमालाधरायै नमः
व्याप्त्यै नमः
विख्यातायै नमः
शरधन्वधरायै नमः
श्रितये नमः
शरदिन्दुप्रभायै नमः
शिक्षायै नमः
शतघ्न्यै नमः
शांतिदायिन्यै नमः
ह्रीं बीजायै नमः
हरवन्दितायै नमः
हालाहलधरायै नमः
हयघ्न्यै नमः
हंसवाहिन्यै नमः 
॥ ॐ ॥




श्रीं ह्रीं क्लीं
महालक्ष्म्यै नमः
मन्त्रलक्ष्म्यै नमः
मायालक्ष्म्यै नमः
मतिप्रदायै नमः
मेधालक्ष्म्यै नमः
मोक्षलक्ष्म्यै नमः
महीप्रदायै नमः
वित्तलक्ष्म्यै नमः
मित्रलक्ष्म्यै नमः
मधुलक्ष्म्यै नमः
कान्तिलक्ष्म्यै नमः
कार्यलक्ष्म्यै नमः
कीर्तिलक्ष्म्यै नमः
करप्रदायै नमः
कन्यालक्ष्म्यै नमः
कोशलक्ष्म्यै नमः
काव्यलक्ष्म्यै नमः
कलाप्रदायै  नमः
गजलक्ष्म्यै नमः
गन्धलक्ष्म्यै नमः
गृहलक्ष्म्यै नमः
गुणप्रदायै नमः
जयलक्ष्म्यै नमः
जीवलक्ष्म्यै नमः
जयप्रदायै नमः
दानलक्ष्म्यै नमः
दिव्यलक्ष्म्यै नमः
द्वीपलक्ष्म्यै नमः
दयाप्रदायै नमः
धनलक्ष्म्यै नमः
धेनुलक्ष्म्यै नमः
धनप्रदायै नमः
धर्मलक्ष्म्यै नमः
धैर्यलक्ष्म्यै नमः
द्रव्यलक्ष्म्यै नमः
धृतिप्रदायै नमः
नभोलक्ष्म्यै नमः
नादलक्ष्म्यै नमः
नेत्रलक्ष्म्यै नमः
नयप्रदायै नमः
नाट्यलक्ष्म्यै नमः
नीतिलक्ष्म्यै नमः
नित्यलक्ष्म्यै नमः
निधिप्रदायै नमः
पूर्णलक्ष्म्यै नमः
पुष्पलक्ष्म्यै नमः
पशुप्रदायै नमः
पुष्टिलक्ष्म्यै नमः
पद्मलक्ष्म्यै नमः
पूतलक्ष्म्यै नमः
प्रजाप्रदायै नमः
प्राणलक्ष्म्यै नमः
प्रभालक्ष्म्यै नमः
प्रज्ञालक्ष्म्यै नमः
फलप्रदायै नमः
बुधलक्ष्म्यै नमः
बुद्धिलक्ष्म्यै नमः
बललक्ष्म्यै नमः
बहुप्रदायै नमः
भाग्यलक्ष्म्यै नमः
भोगलक्ष्म्यै नमः
भुजलक्ष्म्यै नमः
भक्तिप्रदायै नमः
भावलक्ष्म्यै नमः
भीमलक्ष्म्यै नमः
भूर्लक्ष्म्यै नमः
भूषणप्रदायै नमः
रूपलक्ष्म्यै नमः
राज्यलक्ष्म्यै नमः
राजलक्ष्म्यै नमः
रमाप्रदायै नमः
वीरलक्ष्म्यै नमः
वार्धिकलक्ष्म्यै नमः
विद्यालक्ष्म्यै नमः
वरलक्ष्म्यै नमः
वर्षलक्ष्म्यै नमः
वनलक्ष्म्यै नमः
वधूप्रदायै नमः
वर्णलक्ष्म्यै नमः
वश्यलक्ष्म्यै नमः
वाग्लक्ष्म्यै नमः
वैभवप्रदायै नमः
शौर्यलक्ष्म्यै नमः
शांतिलक्ष्म्यै नमः
शक्तिलक्ष्म्यै नमः
शुभप्रदायै नमः
श्रुतिलक्ष्म्यै नमः
शास्त्रलक्ष्म्यै नमः
श्रीलक्ष्म्यै नमः
शोभनप्रदायै नमः
स्थिरलक्ष्म्यै नमः
सिद्धिलक्ष्म्यै नमः
सत्यलक्ष्म्यै नमः
सुधाप्रदायै नमः
सैन्यलक्ष्म्यै नमः
सामलक्ष्म्यै नमः
सस्यलक्ष्म्यै नमः
सुतप्रदायै नमः
साम्राज्यलक्ष्म्यै नमः
सल्लक्ष्म्यै नमः
ह्रीलक्ष्म्यै नमः
आढ्यलक्ष्म्यै नमः
आयुर्लक्ष्म्यै नमः
आरोग्यदायै नमः
श्री महालक्ष्म्यै नमः 
॥ ॐ ॥



नमः सर्व स्वरूपे च नमो कल्याणदायिके ।
महासम्पत्प्रदे देवि धनदायै नमोऽस्तुते ॥

महाभोगप्रदे देवि महाकामप्रपूरिते ।
सुखमोक्षप्रदे देवि धनदायै नमोऽस्तुते ॥

ब्रह्मरूपे सदानन्दे सच्चिदानन्दरूपिणी ।
धृतसिद्धिप्रदे देवि धनदायै नमोऽस्तुते ॥

उद्यत्सूर्यप्रकाशाभे उद्यदादित्यमण्डले ।
शिवतत्वप्रदे देवि धनदायै नमोऽस्तुते  ॥

शिवरूपे शिवानन्दे कारणानन्दविग्रहे ।
विश्वसंहाररूपे च धनदायै नमोऽस्तुते ॥

पञ्चतत्वस्वरूपे च पञ्चाचारसदारते ।
साधकाभीष्टदे देवि धनदायै नमोऽस्तुते  ॥

श्रीं ॐ ॥

ॐ श्री ललिता महात्रिपुरसुन्दरी पराभट्टारिका ।
समेताय श्री चन्द्रमौळीश्वर परब्रह्मणे नमः ॥

जय जय शङ्कर हर हर शङ्कर ॥

॥ श्रीअष्टलक्ष्मीस्तुतिः ॥

॥ श्रीअष्टलक्ष्मीस्तुतिः ॥
आदिलक्ष्मीः ।
सुमनोवन्दितसुन्दरि माधवि चन्द्रसहोदरि हेममयि
मुनिगणकाङ्क्षितमोक्षप्रदायिनि मञ्जुलभाषिणि वेदनुते ।
पङ्कजवासिनि देवसुपूजिते सद्गुणवर्षिणि शान्तियुते
जय जय हे मधुसूदनकामिनि आदिलक्ष्मि परिपालय माम् ॥

धनलक्ष्मीः ।
अयि कलिकल्मषनाशिनि कामिनि वैदिकरूपिणि वेदमयि
क्षीरसमुद्भवमङ्गलरूपिणि मन्त्रनिवासिनि मन्त्रनुते ।
मङ्गलदायिनि अम्बुजवासिनि देवगणाश्रितपादयुगे
जय जय हे मधुसूदनकामिनि धान्यलक्ष्मि परिपालय माम् ॥

धैर्यलक्ष्मीः ।
जय वरवर्णिनि वैष्णवि भार्गवि मन्त्रस्वरूपिणि मन्त्रमयि
सुरगणविनुते अतिशयफलदे ज्ञानविकासिनि शास्त्रनुते ।
भवभयहारिणि पापविमोचिनि साधुसमाश्रितपादयुगे
जय जय हे मधुसूदनकामिनि धैर्यलक्ष्मि परिपालय माम् ॥

गजलक्ष्मीः ।
जय जय दुर्गतिनाशिनि कामिनि बहुदे शुभकलहंसगते
रथगजतुरगपदादिसमावृतपरिजनमण्डितराजनुते ।
सुरवरधनपतिपद्मजसेविततापनिवारकपादयुगे
जय जय हे मधुसूदनकामिनि गजलक्ष्मि परिपालय माम् ॥

सन्तानलक्ष्मीः ।
अयि खगवाहे मोहिनि चक्रिणि रागविवर्धिनि सन्मतिदे
गुणगणवारिधे लोकहितैषिणि नारदतुम्बुरुगाननुते ।
सकलसुरासुरदेवमुनीश्वरभूसुरवन्दितपादयुगे
जय जय हे मधुसूदनकामिनि सन्तानलक्ष्मि परिपालय माम् ॥

विजयलक्ष्मीः ।
कमलनिवासिनि सद्गतिदायिनि विज्ञानविकासिनि काममयि
अनुदिनमर्चितकुङ्कुमभासुरभूषणशोभि सुगात्रयुते ।
सुरमुनिसंस्तुतवैभवराजितदीनजानाश्रितमान्यपदे
जय जय हे मधुसूदनकामिनि विजयलक्ष्मि परिपालय माम् ॥

ऐश्वर्यलक्ष्मीः ।
प्रणतसुरेश्वरि भारति भार्गवि शोकविनाशिनि रत्नमयि
मणिगणभूषितकर्णविभूषणकान्तिसमावृतहासमुखि ।
नवनिधिदायिनि कलिमलहारिणि कामितवरदे कल्पलते
जय जय हे मधुसूदनकामिनि ऐश्वर्यलक्ष्मि परिपालय माम् ॥

धनलक्ष्मीः ।
धिमिधिमिधिन्धिमिदुन्दुमदुमदुमदुन्दुभिनादविनोदरते
बम्बम्बों बम्बम्बों प्रणवोच्चारशङ्खनिनादयुते ।
वेदपुराणस्मृतिगणदर्शितसत्पदसज्जनशुभफलदे
जय जय हे मधुसूदनकामिनि धनलक्ष्मि परिपालय माम् ॥

इति श्रीअष्टलक्ष्मीस्तुतिः सम्पूर्णा ।

कनकधारास्तोत्रम्

कनकधारास्तोत्रम् 

अङ्गं हरेः पुलकभूषणमाश्रयन्ती
भृङ्गाङ्गनेव मुकुलाभरणं तमालम् ।
अङ्गीकृताखिलविभूतिरपाङ्गलीला
माङ्गल्यदास्तु मम मङ्गळदेवतायाः ॥ १॥

मुग्धा मुहुर्विदधती वदने मुरारेः
प्रेमत्रपाप्रणिहितानि गतागतानि ।
माला दृशोर्मधुकरीव महोत्पले या
सा मे श्रियं दिशतु सागरसम्भवायाः ॥ २॥

आमीलिताक्षमधिगम्य मुदा मुकुन्दं
आनन्दकन्दमनिमेषमनङ्गतन्त्रम् ।
आकेकरस्थितकनीनिकपक्ष्मनेत्रं
भूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः ॥ ३॥

बाह्वन्तरे मधुजितः श्रितकौस्तुभे या
हारावलीव हरिनीलमयी विभाति ।
कामप्रदा भगवतोऽपि कटाक्षमाला
कल्याणमावहतु मे कमलालयायाः ॥ ४॥

कालाम्बुदाळिललितोरसि कैटभारेः
धाराधरे स्फुरति या तडिदङ्गनेव ।
मातुस्समस्तजगतां महनीयमूर्तिः
भद्राणि मे दिशतु भार्गवनन्दनायाः ॥ ५॥

प्राप्तं पदं प्रथमतः खलु यत्प्रभावान्-
माङ्गल्यभाजि मधुमाथिनि मन्मथेन ।
मय्यापतेत्तदिह मन्थरमीक्षणार्धं
मन्दालसं च मकरालयकन्यकायाः ॥ ६॥

विश्वामरेन्द्रपदविभ्रमदानदक्षं
आनन्दहेतुरधिकं मुरविद्विषोऽपि ।
ईषन्निषीदतु मयि क्षणमीक्षणार्ध-
मिन्दीवरोदरसहोदरमिन्दिरायाः ॥ ७॥

इष्टा विशिष्टमतयोऽपि यया दयार्द्र
दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते ।
दृष्टिः प्रहृष्टकमलोदरदीप्तिरिष्टां
पुष्टिं कृषीष्ट मम पुष्करविष्टरायाः ॥ ८॥

दद्याद्दयानुपवनो द्रविणाम्बुधारां
अस्मिन्नकिञ्चनविहङ्गशिशौ विषण्णे ।
दुष्कर्मघर्ममपनीय चिराय दूरं
नारायणप्रणयिनीनयनाम्बुवाहः ॥ ९॥

धीर्देवतेति गरुडध्वजसुन्दरीति   var  गरुडध्वजभामिनीति
शाकम्भरीति शशिशेखरवल्लभेति ।
सृष्टिस्थितिप्रलयकेलिषु संस्थितायै
तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै ॥ १०॥

श्रुत्यै नमोऽस्तु शुभकर्मफलप्रसूत्यै
रत्यै नमोऽस्तु रमणीयगुणार्णवायै ।
शक्त्यै नमोऽस्तु शतपत्रनिकेतनायै
पुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै ॥ ११॥

नमोऽस्तु नालीकनिभाननायै
नमोऽस्तु दुग्धोदधिजन्मभूम्यै ।
नमोऽस्तु सोमामृतसोदरायै
नमोऽस्तु नारायणवल्लभायै ॥ १२॥

नमोऽस्तु हेमाम्बुजपीठिकायै
नमोऽस्तु भूमण्डलनायिकायै ।
नमोऽस्तु देवादिदयापरायै
नमोऽस्तु शार्ङ्गायुधवल्लभायै ॥ १३॥

नमोऽस्तु देव्यै भृगुनन्दनायै
नमोऽस्तु विष्णोरुरसि स्थितायै ।
नमोऽस्तु लक्ष्म्यै कमलालयायै
नमोऽस्तु दामोदरवल्लभायै ॥ १४॥

नमोऽस्तु कान्त्यै कमलेक्षणायै
नमोऽस्तु भूत्यै भुवनप्रसूत्यै ।
नमोऽस्तु देवादिभिरर्चितायै
नमोऽस्तु नन्दात्मजवल्लभायै ॥ १५॥

सम्पत्कराणि सकलेन्द्रियनन्दनानि
साम्राज्यदानविभवानि सरोरुहाक्षि ।  var  सरोरुहाणि
त्वद्वन्दनानि दुरिताहरणोद्यतानि
मामेव मातरनिशं कलयन्तु मान्ये ॥ १६॥

यत्कटाक्षसमुपासनाविधिः
सेवकस्य सकलार्थसम्पदः ।
सन्तनोति वचनाङ्गमानसैः
त्वां मुरारिहृदयेश्वरीं भजे ॥ १७॥

सरसिजनिलये सरोजहस्ते
धवळतमांशुकगन्धमाल्यशोभे ।
भगवति हरिवल्लभे मनोज्ञे
त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥ १८॥

दिग्घस्तिभिः कनककुम्भमुखावसृष्ट
स्वर्वाहिनी विमलचारुजलप्लुताङ्गीम् ।
प्रातर्नमामि जगतां जननीमशेष
लोकाधिनाथगृहिणीममृताब्धिपुत्रीम् ॥ १९॥

कमले कमलाक्षवल्लभे त्वं
करुणापूरतरङ्गितैरपाङ्गैः ।
अवलोकय मामकिञ्चनानां
प्रथमं पात्रमकृत्रिमं दयायाः ॥ २०॥

देवि प्रसीद जगदीश्वरि लोकमातः
कल्यानगात्रि कमलेक्षणजीवनाथे ।
दारिद्र्यभीतिहृदयं शरणागतं मां
आलोकय प्रतिदिनं सदयैरपाङ्गैः ॥ २१॥

स्तुवन्ति ये स्तुतिभिरमूभिरन्वहं
त्रयीमयीं त्रिभुवनमातरं रमाम् ।
गुणाधिका गुरुतरभाग्यभागिनो
भवन्ति ते भुवि बुधभाविताशयाः ॥ २२॥

॥ इति श्रीमद् शङ्कराचार्यकृत
श्री कनकधारास्तोत्रं सम्पूर्णम् ॥

अयं स्तवः स्वामिना शङ्करभगवत्पादेन ब्रह्मव्रतस्थेन कालटिनाम्नि
स्वग्राम एवाकिञ्चन्यपरिखिन्नाया द्विजगृहिण्या निर्धनत्वमार्जनाय
निरमायि । तेन स्तवेन प्रीता लक्ष्मीर्विप्रं विपुलधनदानेनाप्रीणयदिति
शञ्करविजयतः समाधिगम्यते, ``स मुनिर्मुरजित्कुटुम्बिनीं
पदचित्रैर्नवनीत कोमलैः ंअधुरैरूपतस्थिवां- स्तवैः''
इत्यादिना ॥ एते श्रीमन्मातुरभ्यर्थनया स्तवमेतमतनिषतेति
कालटिग्रामनिकटवर्तिनां विदुषां मतम् । तदारभ्य कर्णाकर्णिकया
तथानुश्रुतम् ।

॥ श्रीअष्टलक्ष्मीमालामन्त्रम् ॥

॥ श्रीअष्टलक्ष्मीमालामन्त्रम् ॥

अस्य श्रीअष्टलक्ष्मीमालामन्त्रस्य - भृगु ऋषिः - अनुष्टुप् छन्दः -
महालक्ष्मीर्देवता - श्रीं बीजं - ह्रीं शक्तिः - ऐं कीलकं -
श्रीअष्टलक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः ।

ॐ नमो भगवत्यै लोकवशीकरमोहिन्यै,
ॐ ईं ऐं क्षीं, श्री आदिलक्ष्मी, सन्तानलक्ष्मी, गजलक्ष्मी,
धनलक्ष्मी, धान्यलक्ष्मी, विजयलक्ष्मी,
वीरलक्ष्मी, ऐश्वर्यलक्ष्मी, अष्टलक्ष्मी इत्यादयः मम हृदये
दृढतया स्थिता सर्वलोकवशीकराय, सर्वराजवशीकराय,
सर्वजनवशीकराय सर्वकार्यसिद्धिदे, कुरु कुरु, सर्वारिष्टं
जहि जहि, सर्वसौभाग्यं कुरु कुरु,
ॐ नमो भगवत्यै श्रीमहालाक्ष्म्यै ह्रीं फट् स्वाहा ॥

इति श्रीअष्टलक्ष्मीमालामन्त्रं सम्पूर्णम् ।