Blog Archive

Tuesday, 19 May 2020

॥ श्रीअष्टलक्ष्मीस्तुतिः ॥

॥ श्रीअष्टलक्ष्मीस्तुतिः ॥
आदिलक्ष्मीः ।
सुमनोवन्दितसुन्दरि माधवि चन्द्रसहोदरि हेममयि
मुनिगणकाङ्क्षितमोक्षप्रदायिनि मञ्जुलभाषिणि वेदनुते ।
पङ्कजवासिनि देवसुपूजिते सद्गुणवर्षिणि शान्तियुते
जय जय हे मधुसूदनकामिनि आदिलक्ष्मि परिपालय माम् ॥

धनलक्ष्मीः ।
अयि कलिकल्मषनाशिनि कामिनि वैदिकरूपिणि वेदमयि
क्षीरसमुद्भवमङ्गलरूपिणि मन्त्रनिवासिनि मन्त्रनुते ।
मङ्गलदायिनि अम्बुजवासिनि देवगणाश्रितपादयुगे
जय जय हे मधुसूदनकामिनि धान्यलक्ष्मि परिपालय माम् ॥

धैर्यलक्ष्मीः ।
जय वरवर्णिनि वैष्णवि भार्गवि मन्त्रस्वरूपिणि मन्त्रमयि
सुरगणविनुते अतिशयफलदे ज्ञानविकासिनि शास्त्रनुते ।
भवभयहारिणि पापविमोचिनि साधुसमाश्रितपादयुगे
जय जय हे मधुसूदनकामिनि धैर्यलक्ष्मि परिपालय माम् ॥

गजलक्ष्मीः ।
जय जय दुर्गतिनाशिनि कामिनि बहुदे शुभकलहंसगते
रथगजतुरगपदादिसमावृतपरिजनमण्डितराजनुते ।
सुरवरधनपतिपद्मजसेविततापनिवारकपादयुगे
जय जय हे मधुसूदनकामिनि गजलक्ष्मि परिपालय माम् ॥

सन्तानलक्ष्मीः ।
अयि खगवाहे मोहिनि चक्रिणि रागविवर्धिनि सन्मतिदे
गुणगणवारिधे लोकहितैषिणि नारदतुम्बुरुगाननुते ।
सकलसुरासुरदेवमुनीश्वरभूसुरवन्दितपादयुगे
जय जय हे मधुसूदनकामिनि सन्तानलक्ष्मि परिपालय माम् ॥

विजयलक्ष्मीः ।
कमलनिवासिनि सद्गतिदायिनि विज्ञानविकासिनि काममयि
अनुदिनमर्चितकुङ्कुमभासुरभूषणशोभि सुगात्रयुते ।
सुरमुनिसंस्तुतवैभवराजितदीनजानाश्रितमान्यपदे
जय जय हे मधुसूदनकामिनि विजयलक्ष्मि परिपालय माम् ॥

ऐश्वर्यलक्ष्मीः ।
प्रणतसुरेश्वरि भारति भार्गवि शोकविनाशिनि रत्नमयि
मणिगणभूषितकर्णविभूषणकान्तिसमावृतहासमुखि ।
नवनिधिदायिनि कलिमलहारिणि कामितवरदे कल्पलते
जय जय हे मधुसूदनकामिनि ऐश्वर्यलक्ष्मि परिपालय माम् ॥

धनलक्ष्मीः ।
धिमिधिमिधिन्धिमिदुन्दुमदुमदुमदुन्दुभिनादविनोदरते
बम्बम्बों बम्बम्बों प्रणवोच्चारशङ्खनिनादयुते ।
वेदपुराणस्मृतिगणदर्शितसत्पदसज्जनशुभफलदे
जय जय हे मधुसूदनकामिनि धनलक्ष्मि परिपालय माम् ॥

इति श्रीअष्टलक्ष्मीस्तुतिः सम्पूर्णा ।

कनकधारास्तोत्रम्

कनकधारास्तोत्रम् 

अङ्गं हरेः पुलकभूषणमाश्रयन्ती
भृङ्गाङ्गनेव मुकुलाभरणं तमालम् ।
अङ्गीकृताखिलविभूतिरपाङ्गलीला
माङ्गल्यदास्तु मम मङ्गळदेवतायाः ॥ १॥

मुग्धा मुहुर्विदधती वदने मुरारेः
प्रेमत्रपाप्रणिहितानि गतागतानि ।
माला दृशोर्मधुकरीव महोत्पले या
सा मे श्रियं दिशतु सागरसम्भवायाः ॥ २॥

आमीलिताक्षमधिगम्य मुदा मुकुन्दं
आनन्दकन्दमनिमेषमनङ्गतन्त्रम् ।
आकेकरस्थितकनीनिकपक्ष्मनेत्रं
भूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः ॥ ३॥

बाह्वन्तरे मधुजितः श्रितकौस्तुभे या
हारावलीव हरिनीलमयी विभाति ।
कामप्रदा भगवतोऽपि कटाक्षमाला
कल्याणमावहतु मे कमलालयायाः ॥ ४॥

कालाम्बुदाळिललितोरसि कैटभारेः
धाराधरे स्फुरति या तडिदङ्गनेव ।
मातुस्समस्तजगतां महनीयमूर्तिः
भद्राणि मे दिशतु भार्गवनन्दनायाः ॥ ५॥

प्राप्तं पदं प्रथमतः खलु यत्प्रभावान्-
माङ्गल्यभाजि मधुमाथिनि मन्मथेन ।
मय्यापतेत्तदिह मन्थरमीक्षणार्धं
मन्दालसं च मकरालयकन्यकायाः ॥ ६॥

विश्वामरेन्द्रपदविभ्रमदानदक्षं
आनन्दहेतुरधिकं मुरविद्विषोऽपि ।
ईषन्निषीदतु मयि क्षणमीक्षणार्ध-
मिन्दीवरोदरसहोदरमिन्दिरायाः ॥ ७॥

इष्टा विशिष्टमतयोऽपि यया दयार्द्र
दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते ।
दृष्टिः प्रहृष्टकमलोदरदीप्तिरिष्टां
पुष्टिं कृषीष्ट मम पुष्करविष्टरायाः ॥ ८॥

दद्याद्दयानुपवनो द्रविणाम्बुधारां
अस्मिन्नकिञ्चनविहङ्गशिशौ विषण्णे ।
दुष्कर्मघर्ममपनीय चिराय दूरं
नारायणप्रणयिनीनयनाम्बुवाहः ॥ ९॥

धीर्देवतेति गरुडध्वजसुन्दरीति   var  गरुडध्वजभामिनीति
शाकम्भरीति शशिशेखरवल्लभेति ।
सृष्टिस्थितिप्रलयकेलिषु संस्थितायै
तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै ॥ १०॥

श्रुत्यै नमोऽस्तु शुभकर्मफलप्रसूत्यै
रत्यै नमोऽस्तु रमणीयगुणार्णवायै ।
शक्त्यै नमोऽस्तु शतपत्रनिकेतनायै
पुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै ॥ ११॥

नमोऽस्तु नालीकनिभाननायै
नमोऽस्तु दुग्धोदधिजन्मभूम्यै ।
नमोऽस्तु सोमामृतसोदरायै
नमोऽस्तु नारायणवल्लभायै ॥ १२॥

नमोऽस्तु हेमाम्बुजपीठिकायै
नमोऽस्तु भूमण्डलनायिकायै ।
नमोऽस्तु देवादिदयापरायै
नमोऽस्तु शार्ङ्गायुधवल्लभायै ॥ १३॥

नमोऽस्तु देव्यै भृगुनन्दनायै
नमोऽस्तु विष्णोरुरसि स्थितायै ।
नमोऽस्तु लक्ष्म्यै कमलालयायै
नमोऽस्तु दामोदरवल्लभायै ॥ १४॥

नमोऽस्तु कान्त्यै कमलेक्षणायै
नमोऽस्तु भूत्यै भुवनप्रसूत्यै ।
नमोऽस्तु देवादिभिरर्चितायै
नमोऽस्तु नन्दात्मजवल्लभायै ॥ १५॥

सम्पत्कराणि सकलेन्द्रियनन्दनानि
साम्राज्यदानविभवानि सरोरुहाक्षि ।  var  सरोरुहाणि
त्वद्वन्दनानि दुरिताहरणोद्यतानि
मामेव मातरनिशं कलयन्तु मान्ये ॥ १६॥

यत्कटाक्षसमुपासनाविधिः
सेवकस्य सकलार्थसम्पदः ।
सन्तनोति वचनाङ्गमानसैः
त्वां मुरारिहृदयेश्वरीं भजे ॥ १७॥

सरसिजनिलये सरोजहस्ते
धवळतमांशुकगन्धमाल्यशोभे ।
भगवति हरिवल्लभे मनोज्ञे
त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥ १८॥

दिग्घस्तिभिः कनककुम्भमुखावसृष्ट
स्वर्वाहिनी विमलचारुजलप्लुताङ्गीम् ।
प्रातर्नमामि जगतां जननीमशेष
लोकाधिनाथगृहिणीममृताब्धिपुत्रीम् ॥ १९॥

कमले कमलाक्षवल्लभे त्वं
करुणापूरतरङ्गितैरपाङ्गैः ।
अवलोकय मामकिञ्चनानां
प्रथमं पात्रमकृत्रिमं दयायाः ॥ २०॥

देवि प्रसीद जगदीश्वरि लोकमातः
कल्यानगात्रि कमलेक्षणजीवनाथे ।
दारिद्र्यभीतिहृदयं शरणागतं मां
आलोकय प्रतिदिनं सदयैरपाङ्गैः ॥ २१॥

स्तुवन्ति ये स्तुतिभिरमूभिरन्वहं
त्रयीमयीं त्रिभुवनमातरं रमाम् ।
गुणाधिका गुरुतरभाग्यभागिनो
भवन्ति ते भुवि बुधभाविताशयाः ॥ २२॥

॥ इति श्रीमद् शङ्कराचार्यकृत
श्री कनकधारास्तोत्रं सम्पूर्णम् ॥

अयं स्तवः स्वामिना शङ्करभगवत्पादेन ब्रह्मव्रतस्थेन कालटिनाम्नि
स्वग्राम एवाकिञ्चन्यपरिखिन्नाया द्विजगृहिण्या निर्धनत्वमार्जनाय
निरमायि । तेन स्तवेन प्रीता लक्ष्मीर्विप्रं विपुलधनदानेनाप्रीणयदिति
शञ्करविजयतः समाधिगम्यते, ``स मुनिर्मुरजित्कुटुम्बिनीं
पदचित्रैर्नवनीत कोमलैः ंअधुरैरूपतस्थिवां- स्तवैः''
इत्यादिना ॥ एते श्रीमन्मातुरभ्यर्थनया स्तवमेतमतनिषतेति
कालटिग्रामनिकटवर्तिनां विदुषां मतम् । तदारभ्य कर्णाकर्णिकया
तथानुश्रुतम् ।

॥ श्रीअष्टलक्ष्मीमालामन्त्रम् ॥

॥ श्रीअष्टलक्ष्मीमालामन्त्रम् ॥

अस्य श्रीअष्टलक्ष्मीमालामन्त्रस्य - भृगु ऋषिः - अनुष्टुप् छन्दः -
महालक्ष्मीर्देवता - श्रीं बीजं - ह्रीं शक्तिः - ऐं कीलकं -
श्रीअष्टलक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः ।

ॐ नमो भगवत्यै लोकवशीकरमोहिन्यै,
ॐ ईं ऐं क्षीं, श्री आदिलक्ष्मी, सन्तानलक्ष्मी, गजलक्ष्मी,
धनलक्ष्मी, धान्यलक्ष्मी, विजयलक्ष्मी,
वीरलक्ष्मी, ऐश्वर्यलक्ष्मी, अष्टलक्ष्मी इत्यादयः मम हृदये
दृढतया स्थिता सर्वलोकवशीकराय, सर्वराजवशीकराय,
सर्वजनवशीकराय सर्वकार्यसिद्धिदे, कुरु कुरु, सर्वारिष्टं
जहि जहि, सर्वसौभाग्यं कुरु कुरु,
ॐ नमो भगवत्यै श्रीमहालाक्ष्म्यै ह्रीं फट् स्वाहा ॥

इति श्रीअष्टलक्ष्मीमालामन्त्रं सम्पूर्णम् ।

॥ श्रीसूक्त (ऋग्वेद) ॥

॥ श्रीसूक्त (ऋग्वेद) ॥

ॐ ॥ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥ १॥

तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥ २॥

अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् ।
श्रियं देवीमुपह्वये श्रीर्मादेवीर्जुषताम् ॥ ३॥

कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् ।
पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥ ४॥

चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् ।
तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ॥ ५॥

आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः ।
तस्य फलानि तपसा नुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः ॥ ६॥

उपैतु मां देवसखः कीर्तिश्च मणिना सह ।
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ॥ ७॥

क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् ।
अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात् ॥ ८॥

गंधद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ।
ईश्वरीꣳ सर्वभूतानां तामिहोपह्वये श्रियम् ॥ ९॥

मनसः काममाकूतिं वाचः सत्यमशीमहि ।
पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ॥ १०॥

कर्दमेन प्रजाभूता मयि सम्भव कर्दम ।
श्रियं वासय मे कुले मातरं पद्ममालिनीम् ॥ ११॥

आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे ।
नि च देवीं मातरं श्रियं वासय मे कुले ॥ १२॥

आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥ १३॥

आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम् ।
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥ १४॥

तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान्विन्देयं पुरुषानहम् ॥ १५॥

यः शुचिः प्रयतो भूत्वा जुहुयादाज्य मन्वहम् ।
श्रियः पञ्चदशर्चं च श्रीकामः सततं जपेत् ॥ १६॥

                  फलश्रुति
पद्मानने पद्म ऊरू पद्माक्षी पद्मसम्भवे ।
त्वं मां भजस्व पद्माक्षी येन सौख्यं लभाम्यहम् ॥

अश्वदायी गोदायी धनदायी महाधने ।
धनं मे जुषतां देवि सर्वकामांश्च देहि मे ॥

पुत्रपौत्र धनं धान्यं हस्त्यश्वादिगवे रथम् ।
प्रजानां भवसि माता आयुष्मन्तं करोतु माम् ॥

धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः ।
धनमिन्द्रो बृहस्पतिर्वरुणं धनमश्नु ते ॥

वैनतेय सोमं पिब सोमं पिबतु वृत्रहा ।
सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः ॥

न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः ॥

भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत्सदा ॥

वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः ।
रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि ॥

पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलायताक्षि ।
विश्वप्रिये विष्णु मनोऽनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व ॥

या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी ।
गम्भीरा वर्तनाभिः स्तनभर नमिता शुभ्र वस्त्रोत्तरीया ।
लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगण खचितैस्स्नापिता हेमकुम्भैः ।
नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ॥

लक्ष्मीं क्षीरसमुद्र राजतनयां श्रीरंगधामेश्वरीम् ।
दासीभूतसमस्त देव वनितां लोकैक दीपांकुराम् ।
श्रीमन्मन्दकटाक्षलब्ध विभव ब्रह्मेन्द्रगङ्गाधरां ।
त्वां त्रैलोक्य कुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ॥

सिद्धलक्ष्मीर्मोक्षलक्ष्मीर्जयलक्ष्मीस्सरस्वती ।
श्रीलक्ष्मीर्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा ॥

वरांकुशौ पाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्थाम् ।
बालार्क कोटि प्रतिभां त्रिणेत्रां भजेहमाद्यां जगदीश्वरीं ताम् ॥

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थ साधिके ।
शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तु ते ॥

सरसिजनिलये सरोजहस्ते धवलतरांशुक गन्धमाल्यशोभे ।
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरिप्रसीद मह्यम् ॥

विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम् ।
विष्णोः प्रियसखींम् देवीं नमाम्यच्युतवल्लभाम् ॥

महालक्ष्मी च विद्महे विष्णुपत्नी च धीमही । 
तन्नो लक्ष्मीः प्रचोदयात् ॥

(आनन्दः कर्दमः श्रीदश्चिक्लीत इति विश्रुताः ।
ऋषयः श्रियः पुत्राश्च श्रीर्देवीर्देवता मताः (स्वयम्
श्रीरेव देवता ॥ ) variation)
(चन्द्रभां लक्ष्मीमीशानाम् सुर्यभां श्रियमीश्वरीम् ।
चन्द्र सूर्यग्नि सर्वाभाम् श्रीमहालक्ष्मीमुपास्महे ॥  variation)
श्रीवर्चस्यमायुष्यमारोग्यमाविधात् पवमानं महीयते ।
धनं धान्यं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ॥

ऋणरोगादिदारिद्र्यपापक्षुदपमृत्यवः ।
भयशोकमनस्तापा नश्यन्तु मम सर्वदा ॥

श्रिये जात श्रिय आनिर्याय श्रियं वयो जनितृभ्यो दधातु ।
श्रियं वसाना अमृतत्वमायन् भजंति सद्यः सविता विदध्यून् ॥

श्रिय एवैनं तच्छ्रियामादधाति । सन्ततमृचा वषट्कृत्यं
सन्धत्तं सन्धीयते प्रजया पशुभिः । य एवं वेद ।

ॐ महादेव्यै च विद्महे विष्णुपत्नी च धीमहि ।
तन्नो लक्ष्मीः प्रचोदयात् ॥

      ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

॥ श्रीअष्टलक्ष्मीमहामन्त्रम् ॥

॥ श्रीअष्टलक्ष्मीमहामन्त्रम् ॥

(ऋषिः - छन्दः - देवता - ध्यान सहितम्)
श्रीलक्ष्मीनारायणः
अस्य श्रीरमानाथमहामन्त्रस्य -
नारायण ऋषिः - विराट् छन्दः - लक्ष्मीनारायणो देवता -
अं बीजं - उं शक्तिः - मं कीलकं -
अस्य श्रीलक्ष्मीनारायणप्रसादसिद्ध्यर्थे जपे विनियोगः ।
ॐ अङ्गुष्टाभ्यां नमः ॐ नं तर्जनीभ्यां नमः
ॐ रं मध्यमाभ्यां नमः ॐ यं अनामिकाभ्यां नमः
ॐ णं कनिष्ठिकाभ्यां नमः ॐ यं करतलकरपृष्ठाभ्यां नमः
ॐ हृदयाय नमः ॐ नं शिरसे स्वाहा
ॐ रं शिखायै वषट् ॐ यं कवचाय हुं
ॐ णं नेत्राभ्यां वौषट् ॐ यं अस्त्राय फट्
ॐ भूर्भुवस्युवरोमिति दिग्बन्धः ॥

ध्यानम्
श्रीवत्सवक्षसं विष्णुं चक्रशङ्खसमन्वितम् ।
वामोरुविलसल्लक्ष्म्याऽऽलिङ्गितं पीतवाससम् ॥

सुस्थिरं दक्षिणं पादं वामपादं तु कुञ्जितम् ।
दक्षिणं हस्तमभयं वामं चालिङ्गितश्रियम् ॥

शिखिपीताम्बरधरं हेमयज्ञोपवीतिनम् ।
एवं ध्यायेद्रमानाथं पश्चात्पूजां समाचरेत् ॥

मूलमन्त्रम् - ॐ नमो नारायणाय ।
श्री आदिलक्ष्मीः
अस्य श्री आदिलक्ष्मीमहामन्त्रस्य -
भार्गव ऋषिः - अनुष्टुबादि नाना छन्दांसि - श्री आदिलक्ष्मीर्देवता -
श्रीं बीजं - ह्रीं शक्तिः - ऐं कीलकं -
श्रीमदादि महालक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः ।
ॐ श्रीं अङ्गुष्ठाभ्यां नम ॐ ह्रीं तर्जनीभ्यां नमः
ॐ ऐं मध्यमाभ्यां नम ॐ श्रीं अनामिकाभ्यां नमः
ॐ ह्रीं कनिष्ठिकाभ्यां नमः ॐ ऐं करतलकरपृष्ठाभ्यां नमः
ॐ श्रीं हृदयाय नमः ॐ ह्रीं शिरसे स्वाहा
ॐ ऐं शिखायै वषट् ॐ श्रीं कवचाय हुं
ॐ ह्रीं नेत्राभ्यां वौषट् ॐ ऐं अस्त्राय फट्
ॐ भूर्भुवस्युवरोमिति दिग्बन्धः ॥

ध्यानम्
द्विभुजां च द्विनेत्रां च साभयां वरदान्विताम् ।
पुष्पमालाधरां देवीं अम्बुजासनसंस्थिताम् ॥

पुष्पतोरणसम्युक्तां प्रभामण्डलमण्डिताम् ।
सर्वलक्षणसम्युक्तां सर्वाभरणभूषिताम् ॥

पीताम्बरधरां देवीं मकुटीचारुबन्धनाम् ।
सौन्दर्यनिलयां शक्तिं आदिलक्ष्मीमहं भजे ॥

मूलमन्त्रं - ॐ श्रीं आदिलक्ष्म्यै नमः ।

श्रीसन्तानलक्ष्मी
अस्य श्रीसन्तानलक्ष्मीमहामन्त्रस्य -
भृगु ऋषिः - निचृत् छन्दः - श्रीसन्तानलक्ष्मीः देवता -
श्रीं बीजं - ह्रीं शक्तिः - क्लीं कीलकं -
अस्य श्रीसन्तानलक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः ।
ॐ स्रां अङ्गुष्टाभ्यां नमः ॐ स्रीं तर्जनीभ्यां नमः
ॐ स्रूं मध्यमाभ्यां नमः ॐ स्रैं अनामिकाभ्यां नमः
ॐ स्रौं कनिष्ठिकाभ्यां नमः ॐ स्रः करतलकरपृष्ठाभ्यां नमः
ॐ स्रां हृदयाय नमः ॐ स्रीं शिरसे स्वाहा
ॐ स्रूं शिखायै वषट् ॐ स्रैं कवचाय हुं
ॐ स्रौं नेत्राभ्यां वौषट् ॐ स्रः अस्त्राय पट्
ॐ भूर्भुवस्सुवरोमिति दिग्बन्धः ॥

ध्यानम्
जटामकुटसम्युक्तां स्थिरासन्समन्विताम् ।
अभयं कटकञ्चैव पूर्णकुम्भं करद्वये ॥

कञ्चुकं सन्नवीतञ्च मौक्तिकञ्चापि धारिणीम् ।
दीपचामरहस्ताभिः सेवितां पार्श्वयोर्द्वयोः ॥

बालसेनानिसङ्काशां करुणापूरिताननाम् ।
महाराज्ञीं च सन्तानलक्ष्मीमिष्टार्थसिद्धये ॥

मूलमन्त्रम् - ॐ श्रीं सन्तानलक्ष्म्यै नमः ।

श्रीगजलक्ष्मीः
अस्य श्रीगजलक्ष्मीमहामन्त्रस्य -
शुक्र ऋषिः - अनुष्टुप् छन्दः - गजलक्ष्मीः देवता -
कं बीजं - मं शक्तिः - लं कीलकं -
श्रीगजलक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः ।
ॐ क्रां अङ्गुष्ठाभ्यां नमः ।
ॐ क्रीं तर्जनीभ्यां नमः ।
ॐ क्रूं मध्यमाभ्यां नमः ।
ॐ क्रैं अनामिकाभ्यां नमः ।
ॐ क्रौं कनिष्ठिकाभ्यां नमः ।
ॐ क्रः करतलकरपृष्ठाभ्यां नमः ॥

ॐ क्रां हृदयाय नमः ।
ॐ क्रीं शिरसे स्वाहा ।
ॐ क्रूं शिखायै वषट् ।
ॐ क्रैं कवचाय हुं ।
ॐ क्रौं नेत्राभ्यां वौषट् ।
ॐ क्रः अस्त्राय पट् ।
ॐ भूर्भुवस्सुवरोमिति दिग्बन्धः ॥

ध्यानम् ।
चतुर्भुजां महालक्ष्मीं गजयुग्मसुपूजिताम् ।
पद्मपत्राभनयनां वराभयकरोज्ज्वलाम् ॥

ऊर्ध्वं करद्वये चाब्जं दधतीं शुक्लवस्त्रकम् ।
पद्मासने सुखासीनां गजलक्ष्मीमहं भजे ॥

मूलमन्त्रं - ॐ श्रीं गजलक्ष्म्यै नमः ।

श्रीधनलक्ष्मीः
अस्य श्रीधनलक्ष्मीमहामन्त्रस्य -
परब्रह्म ऋषिः - अनुष्टुप्छन्दः - श्रीधनलक्ष्मीः देवता -
लं बीजं - धं शक्तिः - मं कीलकं -
श्रीधनलक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः ।
ॐ त्रां अङ्गुष्ठाभ्यां नमः ॐ त्रीं तर्जनीभ्यां नमः
ॐ त्रूं मध्यमाभ्यां नमः ॐ त्रैं अनामिकाभ्यां नमः
ॐ त्रौं कनिष्ठिकाभ्यां नमः ॐ त्रः करतलकरपृष्ठाभ्यां नमः
ॐ त्रां हृदयाय नमः ॐ त्रीं शिरसे स्वाहा
ॐ त्रूं शिखायै वषट् ॐ त्रैं कवचाय हुं
ॐ त्रौं नेत्राभ्यां वौषट् ॐ त्रः अस्त्राय फट्
ॐ भूर्भुवस्सुवरोमिति दिग्बन्धः ॥

ध्यानम्
किरीटमुकुटोपेतां स्वर्णवर्णसमन्विताम् ।
सर्वाभरणसम्युक्तां सुखासनसमन्विताम् ॥

परिपूर्णञ्च कुम्भञ्च दक्षिणेन करेण तु ।
चक्रं बाणञ्च ताम्बूलं तदा वामकरेण तु ॥

शङ्खं पद्मञ्च चापञ्च कुण्डिकामपि धारिणीम् ।
सकञ्चुकस्तनीं ध्यायेत् धनलक्ष्मीं मनोहराम् ॥

मूलमन्त्रम् - ॐ श्रीं धनलक्ष्म्यै नमः ।

श्रीधान्यलक्ष्मीः
अस्य श्रीधान्यलक्ष्मीमहामन्त्रस्य -
परब्रह्म ऋषिः - अनुष्टुप्छन्दः - श्री धान्यलक्ष्मीः देवता -
धं बीजं - लं शक्तिः - मं कीलकं -
श्रीधान्यलक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः ।
ॐ द्रां अङ्गुष्टाभ्यां नमः ।
ॐ द्रीं तर्जनीभ्यां नमः ।
ॐ द्रूं मध्यमाभ्यां नमः ।
ॐ द्रैं अनामिकाभ्यां नमः ।
ॐ द्रौं कनिष्ठिकाभ्यां नमः ।
ॐ द्रः करतलकरपृष्ठाभ्यां नमः ॥

ॐ द्रां हृदयाय नमः ।
ॐ द्रीं शिरसे स्वाहा ।
ॐ द्रूं शिखायै वषट् ।
ॐ द्रैं कवचाय हुं ।
ॐ द्रौं नेत्राभ्यां वौषट् ।
ॐ द्रः अस्त्राय फट् ।
ॐ भूर्भुवस्सुवरोमिति दिग्बन्धः ॥

ध्यानम् ।
वरदाभयसम्युक्तां किरीटमकुटोज्ज्वलाम् ।
अम्बुजञ्चेक्षुशालिञ्च कदम्बफलद्रोणिकाम् ॥

पङ्कजञ्चाष्टहस्तेषु दधानां शुक्लरूपिणीम् ।
कृपामूर्तिं जटाजूटां सुखासनसमन्विताम् ॥

सर्वालङ्कारसम्युक्तां सर्वाभरणभूषिताम् ।
मदमत्तां मनोहारिरूपां धान्यश्रियं भजे ॥

मूलमन्त्रम् - ॐ श्रीं धान्यलक्ष्म्यै नमः ।

श्रीविजयलक्ष्मीः ।
अस्य श्रीविजयलक्ष्मीमहामन्त्रस्य -
नारद ऋषिः - नाना छन्दांसि - श्रीविजयलक्ष्मीः देवता -
लं बीजं - क्षं शक्तिः - यं कीलकं -
सर्वकार्यसिद्धिद्वारा श्रीविजयलक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः ।
ॐ व्रां अङ्गुष्ठाभ्यां नमः ।
ॐ व्रीं तर्जनीभ्यां नमः ।
ॐ व्रूं मध्यमाभ्यां नमः ।
ॐ व्रैं अनामिकाभ्यां नमः ।
ॐ व्रौं कनिष्ठिकाभ्यां नमः ।
ॐ व्रः करतलकरपृष्ठाभ्यां नमः ॥

ॐ व्रां हृदयाय नमः ।
ॐ व्रीं शिरसे स्वाहा ।
ॐ व्रूं शिखायै वषट् ।
ॐ व्रैं कवचाय हुं ।
ॐ व्रौं नेत्राभ्यां वौषट् ।
ॐ व्रः अस्त्राय फट् ।
ॐ भूर्भुवस्युवरोमिति दिग्बन्धः ॥

ध्यानम् ।
अष्टबाहुयुतां देवीं सिम्हासनवरस्थिताम् ।
सखासनां सुकेशीञ्च किरीटमुकुटोज्ज्वलाम् ॥

श्यामाङ्गीं कोमलाकारां सर्वाभरणभूषिताम् ।
खड्गं पाशं तदा चक्रमभयं सव्यहस्तके ॥

खेटकञ्चाङ्कुशं शङ्खं वरदं वामहस्तके ।
राजरूपधरां शक्तिं प्रभासौन्दर्यशोभिताम् ॥

हंसारूढां स्मरेद्देवीं विजयां विजयप्रदे ॥

मूल्मन्त्रं - ॐ श्रीं विजयलक्ष्म्यै नमः ।

श्रीधैर्य(वीर)लक्ष्मीः
अस्य श्रीवीरलक्ष्मीमहामन्त्रस्य -
नारद ऋषिः - तृष्टुप्छन्दः - श्रीवीरलक्ष्मीः देवता -
लं बीजं - रं शक्तिः - लं कीलकं -
आरोग्यभाग्यसिद्धिद्वारा श्रीवीरलक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः ।
ॐ व्रां अङ्गुष्ठाभ्यां नमः ।
ॐ व्रीं तर्जनीभ्यां नमः ।
ॐ व्रूं मध्यमाभ्यां नमः ।
ॐ व्रैं अनामिकाभ्यां नमः ।
ॐ व्रौं कनिष्ठिकाभ्यां नमः ।
ॐ व्रः करतलकरपृष्ठाभ्यां नमः ॥

ॐ व्रां हृदयाय नमः ।
ॐ व्रीं शिरसे स्वाहा ।
ॐ व्रूं शिखायै वषट् ।
ॐ व्रैं कवचाय हुं ।
ॐ व्रौं नेत्राभ्यां वौषट् ।
ॐ व्रः अस्त्राय फट् ।
ॐ भूर्भुवस्युवरोमिति दिग्बन्धः ॥

ध्यानम् ।
अष्टबाहुयुतां लक्ष्मीं सिम्हासनवरस्थिताम् ।
तप्तकाञ्चनसङ्काशां किरीटमकुटोज्ज्वलाम् ॥

स्वर्णकञ्चुकसंयुक्तां सन्नवीततरां शुभाम् ।
अभयं वरदं चैव भुजयोः सव्यवामयोः ॥

चक्रं शूलञ्च बाणञ्च शङ्खं चापं कपालकम् ।
दधतीं धैर्यलक्ष्मीं च नवतालात्मिकां भजे ॥

मूलमन्त्रम् - ॐ श्रीं वीरलक्ष्म्यै नमः ।

श्री ऐश्वर्य(महा)लक्ष्मीः
अस्य श्रीमहालक्ष्मीमहामन्त्रस्य -
ब्रह्मा ऋषिः - जगती छन्दः - श्रीमहालक्ष्मीः देवता -
ह्रां बीजं - ह्रीं शक्तिः - ह्रूं कीलकं -
श्रीमहालक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः ।
ॐ क्ष्रां अङ्गुष्टाभ्यां नमः ।
ॐ क्ष्रीं तर्जनीभ्यां नमः ।
ॐ क्ष्रूं मध्यमाभ्यां नमः ।
ॐ क्ष्रैं अनामिकाभ्यां नमः ।
ॐ क्ष्रौं कनिष्ठिकाभ्यां नमः ।
ॐ क्ष्रः करतलकरपृष्ठाभ्यांनमः ॥

ॐ क्ष्रां हृदयाय नमः ।
ॐ क्ष्रीं शिरसे स्वाहा ।
ॐ क्ष्रूं शिखायै वषट् ।
ॐ क्ष्रैं कवचाय हुं ।
ॐ क्ष्रौं नेत्राभ्यां वौषट् ।
ॐ क्ष्रः अस्त्राय फट् ।
ॐ भूर्भुवस्युवरोमिति दिग्बन्धः ॥

ध्यानम् ।
चतुर्भुजां द्विनेत्राञ्च वराभयकरान्विताम् ।
अब्जद्वयकराम्भोजां अम्बुजासनसंस्थिताम् ॥

ससुवर्णघटोराभ्यां प्लाव्यमानां महाश्रियम् ।
सर्वाभरणशोभाढ्यां शुभ्रवस्त्रोत्तरीयकाम् ॥

चामरग्रहनारीभिः सेवितां पार्श्वयोर्द्वयोः ।
आपादलम्बिवसनां करण्डमकुटां भजे ॥

मूलमन्त्रम् - अं श्रीं श्रीमहालक्ष्म्यै नमः ॥

इति श्रीअष्टलक्ष्मीमहामन्त्रं सम्पूर्णम् ।

Sunday, 4 August 2019

शापमोचन सूक्त


ओम अस्य: शापमोचन सूक्त; अथर्वा,बादरायणि ऋषि:, भैषज्य, आयु, वनस्पति, चन्द्रमा, अरिनाशन देवता:, भुरिग् अनुष्टुप्, अनुष्टुप् अनुष्टुप्विराडुपरिष्टाद् बृहती छन्द: शापमोचन हेतवे जपे विनियोग:

ओ३म् अ॒घद्वि॑ष्टा दे॒वजा॑ता वी॒रुच्छ॑पथ॒योप॑नी आपो॒ मल॑मिव॒ प्राणै॑क्षी॒त्सर्वा॒न्मच्छ॒पथाँ॒ अधि॑ ओ३म् यश्च॑ साप॒त्नः श॒पथो॑ जा॒म्याः श॒पथ॑श्च॒ यः ब्र॒ह्मा यन्म॑न्यु॒तः शपा॒त्सर्वं॒ तन्नो॑ अधस्प॒दम् ॥ओ३म् दि॒वो मूल॒मव॑ततं पृथि॒व्या अध्युत्त॑तम् तेन॑ स॒हस्र॑काण्डेन॒ परि॑ णः पाहि वि॒श्वतः॑ ओ३म् परि॒ मां परि॑ मे प्र॒जां परि॑ णः पाहि॒ यद्धन॑म् अरा॑तिर्नो॒ मा ता॑री॒न्मा न॑स्तारि॒शुर॒भिमा॑तयः ओ३म् श॒प्तार॑मेतु श॒पथो॒ यः सु॒हार्त्तेन॑ नः स॒ह चक्षु॑र्मन्त्रस्य दु॒र्हार्दः॑ पृ॒ष्टीरपि॑ शृणीमसि ॥ओ३म् उप॒ प्रागा॑त्सहस्रा॒क्षो यु॒क्त्वा श॒पथो॒ रथ॑म् श॒प्तार॑मन्वि॒छन्मम॒ वृक॑ इ॒वावि॑मतो गृ॒हम् ओ३म् परि॑ णो वृङ्ग्धि शपथ ह्र॒दम॒ग्निरि॑वा॒ दह॑न् श॒प्तार॒मत्र॑ नो जहि दि॒वो वृ॒क्षमि॑वा॒शनिः॑ ओ३म् यो नः॒ शपा॒दश॑पतः॒ शप॑तो॒ यश्च॑ नः॒ शपा॑त् शुने॒ पेष्ट्र॑मि॒वाव॑क्षामं॒ तं प्रत्य॑स्यामि मृ॒त्यवे॑ ॥ओ३म् यो नः॑ शपा॒दश॑पतः॒ शप॑तो॒ यश्च॑ नः॒ शपा॑त् वृ॒क्ष इ॑व वि॒द्युता॑ ह॒त मूला॒दनु॑ शुष्यतु

Thursday, 24 May 2018

शरभनाथ मंत्र



 ॥ कालकृत शरभमंत्रराज ॥

॥ ॐ आंं ह्रीं क्रों एहि एहि शरभ-शाल्वाय स्फुर स्फुर पक्षिराजाय प्रस्फुर प्रस्फुर् शत्रुणा शोणित पिव पिव ओं ऐंं ग्लौं ग्लौं ग्लौं ॐ ह्रीं ह्रीं ह्रीं ओंं ऐंं ग्लौं ग्लौं ग्लौं ग्लौं ग्लौं अावेशय अावेशय आगच्छ आगच्छ स्थिरोभव स्थिरोभव रोगान्नाशय नाशय कृत्रिमान् खाहि खाहि। चटकान् खादय खादय ॐ ह्रीं क्षीं क्रौं (अमुकस्य) रोगान् सुशीघ्रेेण छेदय छेदय खेदय खेदय खड्न छेदय छेदय आ पाशेन वन्धय बन्धय ह्रीं वंं आरोग्यं कुरू कुरू रंं खें शत्रुणां रक्त पिव पिव शीघ्र शीघ्र कृत्रिमान् खादय खादय ॐ ह्रीं क्रौं खेंं खां खं फट् प्राणग्रहासि प्राणग्रहासि हुँ। फट् सर्वशत्रुसंहारणाय शरभ-शाल्वाय पक्षिराजाय हुं फट् स्वाहा–ओं नमो भगवते अष्टपादाय सहस्रबाहवे द्विशीषय द्विनेत्राय द्विपक्षीय रुद्ररूपाय रौद्रमृगविहङ्ग-वेषधारिणे योगनृसिंह-वेष-संहारणाय उद्दण्डखण्डनाय ज्वाला-नृसिंह हताय-शमनाय लक्ष्मी नृृसिंह -मथनकराय जगदनृृसिंह सुदर्शनाय अनेक विघ्नरूपछेदनाय अखिलदेवता वन्दनाय निखिलदेवता परिपालनाय क्षयरोगादि सकल-रोग-निवारणाय ह्रीं ह्रीं महाचित्ररथादि गन्धर्व प्रतिष्ठिताय अन्तरिक्षग्रह आकाशग्रह वसुन्धराग्रह क्षिप्रप्रग्रह मंत्रग्रह। यक्षग्रह कामिनीग्रह मोहिनीग्रहोच्चाटनाय सकल-ब्रह्मराक्षस-वेताल कूष्माण्डादि महाप्रबलग्रहोच्चाटनाय सकलदुष्ट ग्रहनिवारणाय महावीरभद्राय परमंत्र-परयंत्र-परतंत्रादिकाना मूलछेदनाय शिष्यपरिपालनाय महापशुरूपिणे शरभ-शाल्वाथ पक्षिराजाय हुं फट् स्वाहा ॥