Blog Archive

Monday, 25 May 2020

॥ ऋणहरगणेशस्तोत्रम् ॥

॥ ऋणहरगणेशस्तोत्रम् ॥

             सिन्दूरवर्णं द्विभुजं गणेशं
                  लम्बोदरं पद्मदले निविष्टम् ।
             ब्रह्मादिदेवैः परिसेव्यमानं
                  सिद्धैर्युतं तं प्रणमामि देवम् ॥ १॥

             सृष्ट्यादौ ब्रह्मणा सम्यक् पूजितः फलसिद्धये ।
             सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ २॥

             त्रिपुरस्यवधात् पूर्वं शम्भुना सम्यगर्चितः ।
             सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ३॥

             हिरण्यकशिप्वादीनां वधार्ते विष्णुनार्चितः ।
             सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ४॥

             महिषस्य वधे देव्या गणनाथः प्रपूजितः ।
             सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ५॥

             तारकस्य वधात् पूर्वं कुमारेण प्रपूजितः ।
             सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ६॥

             भास्करेण गणेशो हि पूजितश्च स्वसिद्धये।
             सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ७॥

             शशिना कान्तिवृद्ध्यर्थं पूजितो गणनायकः ।
             सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ८॥

             पालनाय च तपसां विश्वामित्रेण पूजितः ।
             सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ९॥

             इदं त्वृणहरं स्तोत्रं तीव्रदारिद्र्यनाशनम् ।
             एकवारं पठेन्नित्यं वर्षमेकं समाहितः ।
             दारिद्र्यं दारुणं त्यक्त्वा कुबेरसमतां व्रजेत् ॥ १०॥

                    ॥ इति ऋणहर गणेश स्तोत्रम् ॥

Sunday, 24 May 2020

महामृत्युञ्जयमालामन्त्रः

॥ महामृत्युञ्जयमालामन्त्रः ॥

॥ ध्यानम् ॥

ध्यायेन्मृत्युञ्जयं साम्बं नीलकण्ठं चतुर्भुजम् ।
चन्द्रकोटिप्रतीकाशं पूर्णचन्द्रनिभाननम् ॥ १॥

बिम्बाधरं विशालाक्षं चन्द्रालङ्कृतमस्तकम् ।
अक्षमालाम्बरधरं वरदं चाभयप्रदम् ॥ २॥

महार्हकुण्डलाभूषं हारालङ्कृतवक्षसम् ।
भस्मोद्धूलितसर्वाङ्गं फालनेत्रविराजितम् ॥ ३॥

व्याघ्रचर्मपरीधानं व्यालयज्ञोपवीतिनम् ।
पार्वत्या सहितं देवं सर्वाभीष्टवरप्रदम् ॥ ४॥

१.  ॐ हां हौं नं मं शिं वं यं हौं हां ।
ॐ श्लीं पं शुं हुं जुं सः जुं सः हौं हैं हां ।
ॐ मृत्युञ्जयाय नमश्शिवाय हुं फट् स्वाहा ॥

२.  ॐ नमो भगवते महामृत्युञ्जयेश्वराय चन्द्रशेखराय
जटामकुटधारणाय, अमृतकलशहस्ताय,
अमृतेश्वराय सर्वात्मरक्षकाय ।
ॐ हां हौं नं मं शिं वं यं हौं हां  ।
ॐ श्लीं पं शुं हुं जुं सः जुं सः जुं पालय पालय,
महामृत्युञ्जयाय सर्वरोगारिष्टं निवारय
निवारय, आयुरभिवृद्धिं कुरु कुरु आत्मानं रक्ष रक्ष,
महामृत्युञ्जयेश्वराय हुं फट् स्वाहा ॥

३.  ॐ नमो भगवते महामृत्युञ्जथेश्वराय पार्वतीमनोहराय
अमृतस्वरूपाय कालान्तकाय करुणाकराय गङ्गाधराय । ॐ हां
हौं नं मं शिं वं यं हौं हां । ॐ श्लीं पं शुं हुं जुं सः
जुं सः जुं पालय पालय । महामृत्युञ्जयाय सर्वरोगारिष्टं
निवारय निवारय सर्वदुष्टग्रहोपद्रवं निवारय निवारय, आत्मानं
रक्ष रक्ष, आयुरभिवृद्धिं
कुरु कुरु महामृत्युञ्जयेश्वराय हुं फट् स्वाहा ॥

४। ॐ नमो भगवते महामृत्युजयेश्वराय जटामकुटधारणाय
चन्द्रशेखराय श्रीमहाविष्णुवल्लभाय, पार्वतीमनोहराय,
पञ्चाक्षर परिपूर्णाय, परमेश्वराय, भक्तात्मपरिपालनाय,
परमानन्दाय परब्रह्मपरापराय । ॐ हां हौं नं मं शिं वं यं
हौं हां । ॐ श्लीं पं शुं हुं जुं सः जुं सः जुं पालय पालय ।
महामृत्युञ्जयाय लं लं लौं इन्द्रद्वारं बन्धय बन्धय ।
आत्मानं रक्ष रक्ष, सर्वग्रहान् बन्धय बन्धय स्तम्भय
स्तम्भय सर्वरोगारिष्टं निवारय निवारय, दीर्घायुष्यं कुरु
कुरु । ॐ नमो भगवते महामृत्युञ्जयेश्वराय हुं फट् स्वाहा ॥

५.  ॐ नमो भगवते महामृत्युञ्जयेश्वराय,
कालकालसंहाररुद्राय,व्याघ्रचर्माम्बरधराय,
कृष्णसर्पयज्ञोपवीताय, अनेककोटिब्रह्मकपालालङ्कृताय ।
ॐ हां हौं नं मं शिं वं यं हौं हां । ॐ श्लीं पं शुं
हुं जुं सः जुं सः पालय पालय । महामृत्युञ्जयाय रं
रं रौं अग्निद्वारं बन्धय बन्धय, आत्मानं रक्ष रक्ष ।
सर्वग्रहान्बन्धय बन्धय । स्तम्भय स्तम्भय, सर्वरोगारिष्टं
निवारय निवारय । अरोगदृढगात्र दीर्घायुष्यं कुरु कुरु ।
ॐ नमो भगवते मृत्युञ्जयेश्वराय हुं फट् स्वाहा ॥

६.  ॐ नमो भगवते महामृत्युञ्जयेश्वराय त्रिनेत्राय
कालकालान्तकाय  आत्मरक्षाकराय लोकेश्वराय अमृतस्वरूपाय ।
ॐ हां हौं नं मं शिं वं यं हौं हां । ॐ श्लीं पं शुं हुं
जुं सः जुं सः पालय पालय महामृत्युञ्जयाय हं हं हौं
यमद्वारं बन्धय बन्धय आत्मानं रक्ष रक्ष, सर्वग्रहान्
बन्धय बन्धय स्तम्भय स्तम्भय सर्वरोगारिष्टं निवारय
निवारय महामृत्युभयं निवारय निवारय अरोगदृढगात्र
दीर्घायुष्यं कुरु कुरु । ॐ नमो भगवते मृत्युञ्जयेश्वराय
हुं फट् स्वाहा ॥

७.  ॐ नमो भगवते मृत्युञ्जयेश्वराय त्रिशूल डमरुकपाल
मालिकाव्याघ्रचर्माम्बरधराय, परशुहस्ताय, श्रीनीलकण्ठाय
निरञ्जनाय, कालकालान्तकाय, भक्तात्मपरिपालकाय,
अमृतेश्वराय । ॐ हां हौं नं मं शिं वं यं हौं हां । ॐ
श्लीं पं शुं हुं जुं सः जुं सः पालय पालय महामृत्युञ्जयाय
षं षं षौं निरृतिद्वारं बन्धय बन्धय । आत्मानं रक्ष
रक्ष । सर्वग्रहान्बन्धय बन्धय । स्तम्भय स्तम्भय ।
महामृत्युजयेश्वराय अरोगदृढ गात्रदीर्घायुष्यं कुरु कुरु ।
ॐ नमो भगवते महामृत्युञ्जयेश्वराय हुं फट् स्वाहा ॥

८.  ॐ नमो भगवते महामृत्युजयेश्वराय महारुद्राय
सर्वलोकरक्षाकराय चन्द्रशेखराय कालकण्ठाय आनन्द
भुवनाय अमृतश्वराय कालकालान्तकाय करुणाकराय कल्याणगुणाय
भक्तात्मपरिपालकाय ।
ॐ हां हौं नं मं शिं वं यं हौं हां ।
ॐ श्लीं पं शुं हुं जुं सः जुं सः । 
पालय पालय महामृत्युजयेश्वराय पं पं पौं
वरुणद्वारं बन्धय बन्धय । आत्मानं रक्ष रक्ष । 
सर्वग्रहान् स्तम्भय स्तम्भय । महामृत्युञ्जयमूर्तये रक्ष रक्ष ।
सर्वरोगारिष्टं निवारय निवारय ।
 महामृत्युभयं निवारय निवारय । महामृत्युञ्जयेश्वराय ।
अरोगदृढगात्रदीर्घायुष्यं कुरु करु । 
ॐ नमो भगवते मृत्युञ्जयेश्वराय हुं फट् स्वाहा ॥

९.  ॐ नमो भगवते महामृत्युञ्जयेश्वराय गङ्गाधराय
परशुहस्ताय पार्वतीमनोहराय भक्तपरिपालनाय परमेश्वराय
परमानन्दाय । ॐ हां हौं नं मं शिं वं यं हौं हां । ॐ श्लीं
पं शुं हुं जुं सः जुं सः पालय पालय,
महामृत्युञ्जयाय यं यं यौं वायुद्वारं बन्धय बन्धय, 
आत्मानं रक्ष रक्ष । सर्वग्रहान् बन्धय बन्धय,
स्तम्भय स्तम्भय, महामृत्युञ्जयमूर्तये रक्ष रक्ष
सर्वरोगारिष्टं निवारय निवारय, महामृत्युजयेश्वराय
अरोगदृढगात्र दीर्घायुष्यं कुरु कुरु ।
ॐ नमो भगवते महामृत्युञ्जयेश्वराय हुं फट् स्वाहा ॥

१०.  ॐ नमो भगवते महामृत्युञ्जयेश्वराय चन्द्रशेखराय
उरगमणिभूषिताय शार्दूलचर्माम्बरधराय, सर्वमृत्युहराय
पापध्वंसनाय आत्मरक्षकाय ॐ हां हौं नं मं शिं वं यं
हौं हां । ॐ श्लीं पं शुं हुं जुं सः जुं सः पालय पालय ।
महामृत्युञ्जयाय सं सं सौं कुबेरद्वारं बन्धय बन्धय ।
आत्मानं रक्षं रक्ष । सर्वग्रहान् बन्धय बन्धय । स्तम्भय
स्तम्भय । महामृत्युञ्जयमूर्तये रक्ष रक्ष । सर्वरोगारिष्टं
निवारय निवारय । महामृत्युञ्जयेश्वराय अरोगदृढगात्र
दीर्घायुष्यं कुरु कुरु । ॐ नमो भगवते महामृत्युजयेश्वराय
हुं फट् स्वाहा ॥

११.  ॐ नमो भगवते महामृत्युञ्जयेश्वराय सर्वात्मरक्षाकराय
करुणामृतसागराय पार्वतीमनोहराय अघोरवीरभद्राट्टहासाय
कालरक्षाकराय अचञ्चलस्वरूपाय प्रलयकालाग्निरुद्राय
आत्मानन्दाय सर्वपापहराय भक्तपरिपालनाय पञ्चाक्षरस्वरूपाय
भक्तवत्सलाय परमानन्दाय । ॐ हां हौं नं मं शिं वं यं
हौं हां । ॐ श्लीं पं शुं हुं जुं सः जुं सः पालय पालय
महामृत्युञ्जयाय । शं शं शौं ईशानद्वारं बन्धय बन्धय,
स्तम्भय स्तम्भय, शं शं शौं ईशानमृत्युञ्जय मूर्तये
आत्मानं रक्ष रक्ष, सर्वग्रहान् बन्धय बन्धय स्तम्भय
स्तम्भय । शं शं शौ ईशानमृत्युञ्जय मूर्तये रक्ष
रक्ष सर्वरोगारिष्टं निवारय, निवारय, महामृत्युभयं निवारय
निवारय । महामृत्युञ्जयेश्वराय अरोगदृढगात्रदीर्घायुष्यं
कुरु करु । ॐ नमो भगवते महामृत्युञ्जयेश्वराय हुं फट्
स्वाहा ॥

१२.  ॐ नमो भगवते महामृत्युञ्जयेश्वराय
आकाशतत्वभुवनेश्वराय अमृतोद्भवाय नन्दिवाहनाय
आकाशगमनप्रियाय गजचर्मधारणाथ कालकालाय भूतात्मकाय
महादेवाय भूतगणसेविताय (आकाशतत्त्वभुवनेश्वराय)
ॐ हां हौं नं मं शिं वं यं हौं हां ।
ॐ श्लीं पं शुं हुं जुं सः जुं सः
पालय पालय महामृत्युञ्जयाय टं टं टौं
आकाशद्वारं बन्धय बन्धय आत्मानं रक्ष रक्ष 
सर्वग्रहान्बन्धय बन्धय । स्तम्भय स्तम्भय ।
टं टं टौं परमाकाशमूर्तये मृत्युञ्जयेश्वराय रक्ष रक्ष । 
सर्वरोगारिष्टं निवारय निवारय, महामृत्युभयं निवारय निवारय । 
महामृत्युञ्जयेश्वराय अरोगदृढगात्र दीर्घायुष्यं कुरु कुरु । 
ॐ नमो भगवते महामृत्युञ्जयेश्वराय हुं फट् स्वाहा ॥

१३.  ॐ नमो भगवते महामृत्युञ्जयेश्वराय महारुद्राय कालाग्नि  
रुद्रभुवनाय महाप्रलयताण्डवेश्वराय अपमृत्युविनाशनाय
कालकालेश्वराय कालमृत्यु संहारणाय अनेककोटिभूतप्रेतपिशाच
ब्रह्मराक्षसयक्षराक्षसगणध्वंसनाय आत्मरक्षाकराय
सर्वात्मपापहराय ।
ॐ हां हौं नं मं शिं वं यं हौं हां ।
ॐ श्लीं पं शुं हुं जुं सः जुं सः पालय पालय
महामृत्युञ्जयाय क्षं क्षं क्षौं अन्तरिक्षद्वारं
बन्धय बन्धय आत्मानं रक्ष रक्ष, सर्वग्रहान् बन्धय, बन्धय,
स्तम्भय स्तम्भय ।
क्षं क्षं क्षौं चिदाकाशमूर्तये महामृत्युञ्जयेश्वराय रक्ष रक्ष ।
 सर्वरोगारिष्टं निवारय निवारय । 
महामृत्युभयं निवारय निवारय ।
महामृत्युञ्जयेश्वराय अरोगदृढगात्र दीर्घायुष्यं कुरु कुरु । 
ॐ नमो भगवते महामृत्युञ्जयेश्वराय हुं फट् स्वाहा ॥

१४.  ॐ नमो भगवते महामृत्युञ्जयेश्वराय सदाशिवाय
पार्वतीपरमेश्वराय महादेवाय सकलतत्वात्मरूपाय
शशाङ्कशेखराय तेजोमयाय सर्वसाक्षिभूताय
पञ्चाक्षराय पश्चभूतेश्वराय परमानन्दाय परमाय
परापराय परञ्ज्योतिःस्वरूपाय । 
ॐ हां हौं नं मं शिं वं यं हौं हां ।
ॐ श्लीं पं शुं हुं जुं सः जुं सः जुं पालय पालय, 
महामृत्युञ्जयाय हं हां हिं हीं हैं हौं
अष्टमूर्तये महामृत्युञ्जय मूर्तये आत्मानं रक्ष रक्ष 
सर्वग्रहान्बन्धय बन्धय स्तम्भय स्तम्भय
महामृत्युञ्जयमूर्तये रक्ष रक्ष सर्वरोगारिष्टं निवारय निवारय
सर्वमृत्युभयं निवारय निवारय, 
महामृत्युञ्जयेश्वराय अरोगदृढगात्रदीर्घायुष्यं कुरु कुरु ।
ॐ नमो भगवते महामृत्युञ्जयेश्वराय हुं फट् स्वाहा ॥

१५.  ॐ नमो भगवते महामृत्युञ्जयेश्वराय लोकेश्वराय
सर्वरक्षाकराय चन्द्रशेखराय गङ्गाधराय नन्दिवाहनाय
अमृतस्वरूपाय अनेककोटिभूतगणसेविताय कालभैरव कपालभैरव
कल्पान्तभैरव महाभैरवादि अष्टत्रिंशत्कोटिभैरवमूर्तये
कपालमालाधर खट्वाङ्गचर्मखड्गधर परशुपाशाङ्कुशडमरुक
त्रिशूल चाप बाण गदा शक्ति भिण्डि मुद्गरप्रास परिघा शतघ्नी
चक्रायुधभीषणाकार सहस्रमुख दंष्ट्राकरालवदन विकटाट्टहास
विस्फाटित ब्रह्माण्डमण्डल नागेन्द्रकुण्डल नागेन्द्रवलय नागेन्द्रहार
नागेन्द्र कङ्कणालङ्कृत महारुद्राय मृत्युञ्जय त्र्यम्बक
त्रिपुरान्तक विरूपाक्ष विश्वेश्वर वृषभवाहन विश्वरूप
विश्वतोमुख सर्वतोमुख महामृत्युञ्जयमूर्तये आत्मानं रक्ष रक्ष,
महामृत्युभयं निवारय निवारय, रोगभयं उत्सादय उत्सादय,
विषादिसर्पभयं शमय शमय, चोरान् मारय मारय,
सर्वभूतप्रेतपिशाच ब्रह्मराक्षसादि सर्वारिष्टग्रहगणान्
उच्चाटय उच्चाटय ।
मम अभयं कुरु कुरु । मां सञ्जीवय सञ्जीवय ।
मृत्युभयात् मां उद्धारय उद्धारय । शिवकवचेन मां रक्ष रक्ष ।
ॐ हां हौं नं मं शिं वं यं हौं हां ।
ॐ श्लीं पं शुं हुं जुं सः जुं सः ।
पालय पालय महामृत्कुञ्जयमूर्तये आत्मानं रक्ष रक्ष ।
सर्वग्रहान् निवारय निवारय । महामृत्युभयं निवारय निवारय ।
महामृत्युभयं निवारय । सर्वरोगारिष्टं निवारय निवारय ।
महामृत्युञ्जयेश्वराय अरोगदृढगात्र दीर्घायुष्यं कुरु कुरु ।
ॐ नमो भगवते महामृत्युञ्जयेश्वराय हुं फट् स्वाहा ॥

१६.  ॐ नमो भगवते महामृत्युञ्जयेश्वराय अमृतेश्वराय
अखिललोकपालकाय आत्मनाथाय सर्वसङ्कट
निवारणाय पार्वतीपरमेश्वराय । 
ॐ हां हौं नं मं शिं वं यं हौं हां ।
ॐ श्लीं पं शुं हुं जुं सः जुं सः जुं पालय पालय ।
महामृत्युञ्जयेश्वराय हं हां हौं जुं सः जुं सः जुं
मृत्युञ्जयमूर्तये आत्मानं रक्ष रक्ष सर्वग्रहान् निवारय निवारय ।
महामृत्युञ्जयमूर्तये सर्वसङ्कटं निवारय निवारय
सर्वरोगारिष्टं निवारय निवारय । महामृत्युभयं निवारय निवारय । 
महामृत्युञ्जयमूर्तये सर्वसङ्कटं निवारय निवारय
सकलदुष्टग्रहगणोपद्रवं निवारय निवारय । 
अष्ट महारोगं निवारय निवारय । सर्वरोगोपद्रवं निवारय निवारय ।
हैं हां हं जुं सः जुं सः जुं महामृत्युञ्जय मूर्तये
अरोगदृढगात्र दीर्घायुष्यं कुरु कुरु । दारापुत्रपौत्र
सबान्धव जनान् रक्ष रक्ष, धन धान्य कनक भूषण
वस्तु वाहन कृषिं गृह ग्रामरामादीन् रक्ष रक्ष ।
सर्वत्र क्रियानुकूलजयकरं कुरु कुरु आयुरभिवृद्धिं कुरु कुरु । 
जुं सः जु सः जुं सः महामृत्युञ्जयेश्वराय हुं फट् स्वाहा
 ॥ ॐ ॥ 
ॐ मृत्युञ्जयाय विद्महे भीमरुद्राय धीमहि ।
तन्नो रुद्रः प्रचोदयात् ।

Friday, 22 May 2020

॥ सौभाग्यलक्ष्म्युपनिषत् ॥

॥ सौभाग्यलक्ष्म्युपनिषत् ॥

(ऋग्वेदीया)

सौभाग्यलक्ष्मीकैवल्यविद्यावेद्यसुखाकृति ।
त्रिपान्नारायणानन्दरमचन्द्रपदं भजे ॥

ॐ वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि
प्रतिष्ठितमाविरावीर्म एधि ॥

वेदस्य म आणीस्थः श्रुतं मे मा
प्रहासीरनेनाधीतेनाहोरात्रान्सन्दधाम्यृतं
वदिष्यामि सत्यं वदिष्यामि ॥

तन्मामवतु तद्वक्तारमवतु अवतु मामवतु
वक्तारमवतु वक्तारम् ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

(सौभाग्यलक्ष्मीविद्याजिज्ञासा)

हरिः ॐ ॥ अथ भगवन्तं देवा ऊचुर्हे
भगवन्नः कथय सौभाग्यलक्ष्मीविद्याम् ।

तथेत्यवोचद्भगवानादिनारायणः सर्वे देवा
यूयं सावधानमनसो भूत्वा श‍ृणुत
तुरीयरूपां तुरीयातीतान् सर्वोत्कटां
सर्वमन्त्रासनगतां पीठोपपीठदेवतापरिवृतां
चतुर्भुजां श्रियं हिरण्यवर्णामिति
पञ्चदशर्ग्भिर्ध्यायेत् । अथ पञ्चदश
ऋगात्मकस्य श्रीसूक्तस्यानन्दकर्दमचिक्लीतेन्दिरासुता
ऋषयः । श्रीऋष्याद्या ऋचः
चतुर्दशानमृचामानन्दाद्यृषयः ।
हिरण्यवर्णाद्याद्यत्रयस्यानुष्टुप् छन्दः ।
कांसोस्मीत्यस्य बृहती छन्दः ।
तदन्ययोर्द्वयोस्त्रिष्टुप् । पुनरष्टकस्यानुष्टुप् ।
शेषस्य प्रस्तारपङ्क्तिः । श्र्यग्निर्देवता ।
हिरण्यवर्णामिति बीजम् । कांसोऽस्मीति शक्तिः ।
हिरण्मया चन्द्रा रजतस्रजा हिरण्या हिरण्यवर्णेति
प्रणवादिनमोन्तैश्चतुर्थ्यन्तैरङ्गन्यासः ।
अथ वक्त्रत्रयैरङ्गन्यासः । मस्तकलोचनश्रुतिघ्राण-
वदनकण्ठबाहुद्वयहृदयनाभिगुह्यपायूरुजानुजङ्घेषु
श्रीसूक्तैरेव क्रमशो न्यसेत् । अरुणकमलसंस्था
तद्रजःपुञ्जवर्णा करकमलधृतेष्टाऽभीतियुग्माम्बुजा च ।
मणिकटकविचित्रालङ्कृताकल्पजालैः सकलभुवनमाता
सन्ततं श्रीः श्रियै नः ॥ १॥

(सौभग्यलक्ष्मीचक्रम्)

तत्पीठकर्णिकायां ससाध्यं श्रीबीजम् ।
वस्वादित्यकलापद्मेषु श्रीसूक्तगतार्धार्धर्चा
तद्बहिर्यः शुचिरिति मातृकया च श्रियं यन्त्राङ्गदशकं
च विलिख्य श्रियमावाहयेत् । अङ्गैः प्रथमा वृत्तिः ।
पद्मादिभिर्द्वितीया । सोकेशैस्तृतीया । तदायुधैस्तुरीया
वृत्तिर्भवति । श्रीसूक्तैरावाहनादि । षोडशसहस्रजपः ।

(एकाक्षरीमन्त्रस्य ऋष्यादि)

सौभाग्यरमैकाक्षर्या भृगुनिचृद्गायत्री । श्रिय ऋष्यादयः ।
शमिति बीजशक्तिः । श्रीमित्यादि षडङ्गम् । भूयाद्भूयो
द्विपद्माभयवरदकरा तप्तकार्तस्वराभा शुभ्राभ्राभेभयुग्म-
द्वयकरधृतकुम्भाद्भिरासिच्यमाना । रक्तौघाबद्धमौलि-
र्विमलतरदुकूलार्तवालेपनाढ्या पद्माक्षी पद्मनाभोरसि
कृतवसतिः पद्मगा श्रीः श्रियै नः ॥ १॥

(एकाक्षरीचक्रम्)

तत्पीठम् । अष्टपत्रं वृत्तत्रयं द्वादशराशिखण्डं
चतुरस्रं रमापीठं भवति । कर्णिकायां ससाध्यं श्रीबीजम् ।
विभूतिरुन्नतिः कान्तिः सृष्टिः कीर्तिः सन्नतिर्व्युष्टिः
सत्कृष्टिरृद्धिरिति प्रणवादिनमो तैश्चतुर्थ्यन्तैर्नवशक्तिं
यजेत् । अङ्गे प्रथमा वृतिः ।
वासुदेवाभिर्द्वितीया । बालाक्यादिभिस्तृतीया ।
इन्द्रादिभिश्चतुर्थी भवति ।
द्वादशलक्षजपः ।

(लक्ष्मीमन्त्रविशेषाः)

श्रीलक्ष्मीर्वरदा विष्णुपत्नी
वसुप्रदा हिरण्यरूपा
स्वर्णमालिनी रजतस्रजा स्वर्णप्रभा स्वर्णप्राकारा
पद्मवासिनी पद्महस्ता
पद्मप्रिया मुक्तालङ्कारा चन्द्रसूर्या बिल्वप्रिया ईश्वरी
भुक्तिर्मुक्तिर्विभूतिरृद्धिः समृद्धिः कृष्टिः
पुष्टिर्धनदा धनेश्वरी
श्रद्धा भोगिनी भोगदा सावित्री धात्री
विधात्रीत्यादिप्रणवादिनमोन्ताश्चतुर्थ्यन्ता
मन्त्राः । एकाक्षरवदङ्गादिपीठम् । लक्षजपः ।
दशांशं तर्पणम् ।
दशांशं हवनम् । द्विजतृप्तिः । निष्कामानामेव
श्रीविद्यासिद्धिः ।
न कदापि सकामानामिति ॥ १॥

द्वितीयः खण्डः

(उत्तमाधिकारिणां ज्ञानयोगः)

अथ हैनं देवा ऊचुस्तुरीयया मायया निर्दिष्टं
तत्त्वं ब्रूहीति । तथेति स होवाच ।
योगेन योगो ज्ञातव्यो योगो योगात्प्रवर्धते ।
योऽप्रमत्तस्तु योगेन स योगी रमते चिरम् ॥ १॥

समापय्य निद्रां सिजीर्णेऽल्पभोजी
     श्रमत्याज्यबाधे विविक्ते प्रदेशे ।
सदा शीतनिस्तृष्ण एष प्रयत्नोऽथ
     वा प्राणरोधो निजाभ्यासमार्गात् ॥ २॥

वक्त्रेणापूर्य वायुं हुतवलनिलयेऽपानमाकृष्य धृत्वा
     स्वाङ्गुष्ठाद्यङ्गुलीभिर्वरकरतलयोः षड्भिरेवं निरुध्य ।
श्रोत्रे नेत्रे च नासापुटयुगलमतोऽनेन मार्गेण सम्यक्-
     पश्यन्ति प्रत्ययाशं प्रणवबहुविधध्यानसंलीनचित्ताः ॥ ३॥

(नादाविर्भावपूर्वको ग्रन्थित्रयभेदः)

श्रवणमुखनयननासानिरोधनेनैव कर्तव्यम् ।
शुद्धसुषुम्नासरणौ स्फुटममलं श्रूयते नादः ॥ ४॥

विचित्रघोषसंयुक्तानाहते श्रूयते ध्वनिः ।
दिव्यदेहश्च तेजस्वी दिव्यगन्धोऽप्यरोगवान् ॥ ५॥

सम्पूर्णहृदयः शून्ये त्वारम्भे योगवान्भवेत् ।
द्वितीया विघटीकृत्य वायुर्भवति मध्यगः ॥ ६॥

दृढासनो भवेद्योगी पद्माद्यासनसंस्थितः ।
विष्णुग्रन्थेस्ततो भेदात्परमानन्दसम्भवः ॥ ७॥

अतिशून्यो विमर्दश्च भेरीशब्दस्ततो भवेत् ।
तृतीयां यत्नतो भित्त्वा निनादो मर्दलध्वनिः ॥ ८॥

(अखण्डब्रह्माकारवृत्तिः)

महाशून्यं ततो याति सर्वसिद्धिसमाश्रयम् ।
चित्तानन्दं ततो भित्त्वा सर्वपीठगतानिलः ॥ ९॥

निष्पत्तौ वैष्णवः शब्दः क्वणतीति क्वणो भवेत् ।
एकीभूतं तदा चित्तं सनकादिमुनीडितम् ॥ १०॥

अन्तेऽनन्तं समारोप्य खण्डेऽखण्डं समर्पयन् ।
भूमानं प्रकृतिं ध्यात्वा कृतकृत्योऽमृतो भवेत् ॥ ११॥

(निर्विकल्पभावः)

योगेन योगं संरोध्य भावं भावेन चाञ्जसा ।
निर्विकल्पं परं तत्त्वं सदा भूत्वा परं भवेत् ॥ १२॥

अहंभावं परित्यज्य जगद्भावमनीदृशम् ।
निर्विकल्पे स्थितो विद्वान्भूयो नाप्यनुशोचति ॥ १३॥

सलिले सैन्धावं यद्वत्साम्यं भवति योगतः ।
तथात्ममनसौरेक्यं समाधिरभिधीयते ॥ १४॥

यदा संक्षीयते प्राणो मानसं च प्रलीयते ।
तदा समरसत्वं यत्समाधिरभिधीयते ॥ १५॥

यत्समत्वं तयोरत्र जीवात्मपरमात्मनोः ।
समस्तनष्टसङ्कल्पः समाधिरभिधीयते ॥ १६॥

प्रभाशून्यं मनःशून्यं बुद्धिशून्यं निरामयम् ।
सर्वशून्यं निराभासं समाधिरभिधीयते ॥ १७॥

तृतीय खण्डः

(आधारचकम्)

स्वयमुच्चलिते देहे देही नित्यसमाधिना ।
निश्चलं तं विजानीयात्समाधिरभिधीयते ॥ १८॥

यत्रयत्र मनो याति तत्रतत्र परं पदम् ।
तत्रतत्र परं ब्रह्म सर्वत्र समवस्थितम् ॥ १९॥ इति॥ ॥ २॥

अथ हैनं देवा ऊचुर्नवचक्रविवेकमनुब्रूहीति ।
तथेति स होवाच आधारे ब्रह्मचक्रं त्रिरावृत्तं
भगमण्डलाकारम् । तत्र मूलकन्दे शक्तिः पावकाकारं
ध्यायेत् । तत्रैव कामरूपपीठं सर्वकामप्रदं भवति ।
इत्याधारचक्रम् । द्वितीयं स्वाधिष्ठानचक्रं
षड्दलम् । तन्मध्ये पश्चिमाभिमुखं लिङ्गं
प्रवालाङ्कुरसदृशं ध्यायेत् । तत्रैवोड्याणपीठं
जगदाकर्षणसिद्धिदं भवति । तृतीयं
नाभिचक्रं पञ्चावर्तं सर्पकुटिलाकारम् ।
तन्मध्ये कुण्डलिनीं बालार्ककोटिप्रभां
तनुमध्यां ध्यायेत् । सामर्थ्यशक्तिः सर्वसिद्धिप्रदा
भवति । मणिपूरचक्रं हृदयचक्रम् ।
अष्टदलमधोमुखम् । तन्मध्ये ज्योतिर्मयलिङ्गाकारं
ध्यायेत् । सैव हंसकला सर्वप्रिया सर्वलोकवश्यकरी
भवति । कण्ठचक्रं चतुरङ्गुलम् । तत्र वामे इडा
चन्द्रनाडी दक्षिणे पिङ्गला सूर्यनाडी तन्मध्ये सुषुम्नां
श्वेतवर्णां ध्यायेत् । य एवं वेदानाहता सिद्धिदा भवति ।
तालुचक्रम् । तत्रामृतधाराप्रवाहः ।
घण्टिकालिङ्गमूलचक्ररन्ध्रे राजदन्तावलम्बिनीविवरं
दशद्वादशारम् । तत्र शून्यं ध्यायेत् । चित्तलयो भवति ।
सप्तमं भ्रूचक्रमङ्गुष्ठमात्रम् । तत्र ज्ञाननेत्रं
दीपशिखाकारं ध्यायेत् । तदेव कपालकन्दवाक्सिद्धिदं
भवति । आज्ञाचक्रमष्टमम् । ब्रह्मरन्ध्रं निर्वाणचक्रम् ।
तत्र सूचिकागृहेतरं धूम्रशिखाकारं ध्यायेत् । तत्र
जालन्धरपीठं मोक्षप्रदं भवतीति परब्रह्मचक्रम् ।
नवममाकाशचक्रम् । तत्र षोडशदलपद्ममूर्ध्वमुखं
तन्मध्यकर्णिकात्रिकूटाकारम् । तन्मध्ये ऊर्ध्वशक्तिः ।
तां पश्यन्ध्यायेत् । तत्रैव पूर्णगिरिपीठं
सर्वेच्छासिद्धिसाधनं भवति । सौभाग्यलक्ष्म्युपनिषदं
नित्यमधीते योऽग्निपूतो भवति । स वायुपूतो भवति । स
सकलधनधान्यसत्पुत्रकलत्रहयभूगजपशुमहिषीदासीदास-
योगज्ञानवान्भवति । न स पुनरावर्तते न स पुनरावर्तत
इत्युपनिषत् ।

ॐ वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितम्
आविरावीर्म एधि ॥ वेदस्य म आणीस्थः श्रुतं मे मा
प्रहासीरनेनाधीतेनाहोरात्रान्सन्दधाम्यृतं वदिष्यामि
सत्यं वदिष्यामि ॥ तन्मामवतु तद्वक्तारमवतु अवतु मामवतु
वक्तारमवतु वक्तारम् ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

इति श्रीसौभाग्यलक्ष्म्युपनिषत्समाप्ता ॥

Wednesday, 20 May 2020

॥ गरुडकवचम् ॥

॥ गरुडकवचम् ॥

अथ गरुडकवचम् ।

हरिः ॐ ।
अस्य श्रीगरुडकवचस्तोत्रमन्त्रस्य नारद भगवान् ऋषिः
वैनतेयो देवता अनुष्टुप्छन्दः श्रीवैनतेयप्रीत्यर्थे जपे विनियोगः ।

ॐ शिरो मे गरुडः पातु ललाटे विनितासुतः ।
नेत्रे तु सर्पहा पातु कर्णौ पातु सुराहतः ॥ १॥

नासिकां पातु सर्पारिः वदनं विष्णुवाहनः ।
सूर्येतालू च कण्ठे च भुजौ पातु महाबलः ॥ २॥

हस्तौ खगेश्वरः पातु कराग्रे तरुणाकृतिः ॥ ३॥

स्तनौ मे विहगः पातु हृदयं पातु सर्पहा ।
नाभिं पातु महातेजाः कटिं मे पातु वायुनः ॥ ४॥

ऊरू मे पातु उरगिरिः गुल्फौ विष्णुरथः सदा ।
पादौ मे तक्षकः सिद्धः पातु पादाङ्गुलींस्तथा ॥ ५॥

रोमकूपानि मे वीरो त्वचं पातु भयापहा ।
इत्येवं कवचं दिव्यं पापघ्नं सर्वकामदम् ॥ ६॥

यः पठेत्प्रातरुत्थाय विषदोषं न पश्यति ।
त्रिसन्ध्यं पठते नित्यं बन्धनात् मुच्यते नरः ।
द्वादशाहं पठेद्यस्तु मुच्यते सर्वकिल्विषैः ॥ ७॥

॥ इति श्रीनारदगरुडसंवादे गरुडकवचं सम्पूर्णम् ॥

॥ गरुडोपनिषत् ॥

॥ गरुडोपनिषत् ॥

विषं ब्रह्मातिरिक्तं स्यादमृतं ब्रह्ममात्रकम् ।
ब्रह्मातिरिक्तं विषवद्ब्रह्ममात्रं खगेडहम् ॥

ॐ भद्रं कर्णेभिः श‍ृणुयाम देवाः ॥ भद्रं पश्येमाक्षभिर्यजत्राः ॥

स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः ॥ व्यशेम देवहितं यदायुः ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः ॥ स्वस्ति नः पूषा विश्ववेदाः ॥

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥ स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

हरिः ॐ ॥ गारुडब्रह्मविद्यां प्रवक्ष्यामि यां ब्रह्मा विद्यां
नारदाय प्रोवाच नारदो बृहत्सेनाय बृहत्सेन इन्द्राय इन्द्रो
भरद्वाजाय भरद्वाजो जीवत्कामेभ्यः शिष्येभ्यः प्रायच्छत् ।
अस्याः श्रीमहागरुडब्रह्मविद्याया ब्रह्मा ऋषिः । गायत्री छन्दः ।
श्रीभगवान्महागरुडो देवता । श्रीमहागरुडप्रीत्यर्थे मम
सकलविषविनाशनार्थे जपे विनियोगः । ॐ नमो भगवते
अङ्गुष्ठाभ्यां नमः । श्री महागरुडाय तर्जनीभ्यां स्वाहा ।
पक्षीन्द्राय मध्यमाभ्यां वषट् । श्रीविष्णुवल्लभाय
अनामिकाभ्यां हुम् । त्रैलोक्य परिपूजिताय कनिष्ठिकाभ्यां वौषट् ।
उग्रभयङ्करकालानलरूपाय करतलकरपृष्ठाभ्यां फट् ।
एवं हृदयादिन्यासः । भूर्भुवः सुवरोमिति दिग्बन्धः । ध्यानम् ।
स्वस्तिको दक्षिणं पादं वामपादं तु कुञ्चितम् ।
प्राञ्जलीकृतदोर्युग्मं गरुडं हरिवल्लभम् ॥ १॥

अनन्तो वामकटको यज्ञसूत्रं तु वासुकिः ।
तक्षकाः कटिसूत्रं तु हारः कार्कोट उच्यते ॥ २॥

पद्मो दक्षिणकर्णे तु महापद्मस्तु वामके ।
शङ्खः शिरःप्रदेशे तु गुलिकस्तु भुजान्तरे ॥ ३॥

पौण्ड्रकालिकनागाभ्यां चामराभ्यां स्वीजितम् ।
एलापुत्रकनागाद्यैः सेव्यमानं मुदान्वितम् ॥ ४॥

कपिलाक्षं गरुत्मन्तं सुवर्णसदृशप्रभम् ।
दीर्घबाहुं बृहत्स्कन्धं नादाभरणभूषितम् ॥ ५॥

आजानुतः सुवर्णाभमाकट्योस्तुहिनप्रभम् ।
कुङ्कुमारुणमाकण्ठं शतचन्द्र निभाननम् ॥ ६॥

नीलाग्रनासिकावक्त्रं सुमहच्चारुकुण्डलम् ।
दंष्ट्राकरालवदनं किरीटमुकुटोज्ज्वलम् ॥ ७॥

कुङ्कुमारुणसर्वाङ्गं कुन्देन्दुधवलाननम् ।
विष्णुवाह नमस्तुभ्यं क्षेमं कुरु सदा मम ॥ ८॥

एवं ध्यायेत्त्रिसन्ध्यासु गरुडं नागभूषणम् ।
विषं नाशयते शीघ्रं तूलरशिमिवानलः ॥ ९॥

ओमीमों नमो भगवते श्रीमहागरुडाय पक्षीन्द्राय
विष्णुवल्लभाय त्रैलोक्यपरिपूजिताय उग्रभयंकरकालानलरूपाय
वज्रनखाय वज्रतुण्डाय वज्रदन्ताय वज्रदंष्ट्राय
वज्रपुच्छाय वज्रपक्षालक्षितशरीराय ओमीकेह्येहि
श्रीमहागरुडाप्रतिशासनास्मिन्नाविशाविश दुष्टानां
विषं दूषयदूषय स्पृष्टानां नाशयनाशय
दन्दशूकानां विषं दारयदारय प्रलीनं विषं
प्रणाशयप्रणाशय सर्वविषं नाशयनाशय हनहन
दहदह पचपच भस्मीकुरुभस्मीकुरु हुं फट् स्वाहा ॥

चन्द्रमण्डलसंकाश सूर्यमण्डलमुष्टिक ।
पृथ्वीमण्डलमुद्राङ्ग श्रीमहागरुडाय विषं
हरहर हुं फट् स्वाहा ॥ ॐ क्षिप स्वाहा ॥ ओमीं
सचरति सचरति तत्कारी मत्कारी विषाणां च विषरूपिणी
विषदूषिणी विषशोषणी विषनाशिनी विषहारिणी
हतं विषं नष्टं विषमन्तःप्रलीनं विषं प्रनष्टं
विषं हतं ते ब्रह्मणा विषं हतमिन्द्रस्य वज्रेण स्वाहा ॥

ॐ नमो भगवते महागरुडाय विष्णुवाहनाय
त्रैलोक्यपरिपूजिताय वज्रनखवज्रतुण्डाय वज्रपक्षालंकृत-
शरीराय एह्येहि महागरुड विषं छिन्धिच्छिन्धि
आवेशयावेशय हुं फट् स्वाहा ॥

सुपर्णोऽसि गरुत्मात्त्रिवृत्ते शिरो गायत्रं चक्षुः स्तोम आत्मा
साम ते तनूर्वमदेव्यं बृहद्रथन्तरे पक्षौ यज्ञायज्ञियं
पुच्छं छन्दांस्यङ्गानि धिष्णिया शफा यजूंशि नाम ॥

सुपर्णोऽसि गरुत्मान्दिवं गच्छ सुवः पत ओमीं ब्रह्मविद्या-
ममावास्यायां पौर्णमास्यां पुरोवाच सचरति सचरति
तत्कारी मत्कारी विषनाशिनी विषदूषिणी विषहारिणी हतं
विषं नष्टं विषं प्रनष्टं विषं हतमिन्द्रस्य वज्रेण स्वाहा ॥

तस्र्यम् । यद्यनन्तकदूतोऽसि यदि वानन्तकः स्वयं सचरति सचरति
तत्कारी मत्कारी विषनाशिनी विषदूषिणी हतं विषं नष्टं
विषं हतमिन्द्रस्य वज्रेण विषं हतं ते ब्रह्मणा विषमिन्द्रस्य
वज्रेण स्वाहा ।
यदि वासुकिदूतोऽसि यदि वा वासुकिः स्वयं सचरति सचरति
तत्कारी मत्कारी विषनाशिनी विषदूषिणी हतं विषं
नष्टं विषं हतमिन्द्रस्य वज्रेण विषं हतं ते ब्रह्मणा
विषमिन्द्रस्य वज्रेण स्वाहा यदि वा तक्षकः स्वयं सचरति
सचरति तत्कारी मत्कारी विषनाशिनी विषदूषिणी हतं विषं
नष्टं विषं हतमिन्द्रस्य वज्रेण विषं हतं ब्रह्मणा
विषमिन्द्रस्य वज्रेण स्वाहा ॥

यदि कर्कोटकदूतोऽसि यदि वा कर्कोटकः स्वयं सचरति सचरति
तत्कारी मत्कारी विषनाशिनी विषदूषिणी हतं विषं नष्टं विषं
हतमिन्द्रस्य वज्रेण विषं हतं ते ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा ॥

यदि पद्मकदूतोऽसि यदि वा पद्मकः स्वयं सचरति सचरति
तत्कारी मत्कारी विषनाशिनी विषदूषिणी हतं विषं
नष्टं विषं हतमिन्द्रस्य वज्रेण विषं हतं ते ब्रह्मणा
विषमिन्द्रस्य वज्रेण स्वाहा ॥

यदि महापद्मकदूतोऽसि यदि वा महापद्मकः स्वयं
सचरति सचरति तत्कारी मत्कारी विषनाशिनी विषदूषिणी हतं
विषं नष्टं विषं हतमिन्द्रस्य वज्रेण विषं हतं ते ब्रह्मणा
विषमिन्द्रस्य वज्रेण स्वाहा ॥

यदि शङ्खकदूतोऽसि यदि वा शङ्खकः स्वयं
सचरति सचरति तत्कारी मत्कारी विषनाशिनी विषदूषिणी
हतं विषं नष्टं विषं हतमिन्द्रस्य वज्रेण विषं
हतं ते ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा ॥

यदि गुलिकदूतोऽसि यदि वा गुलिकः स्वयं सचरति सचरति
तत्कारी मत्कारी विषनाशिनी विषदूषिणी विषहारिणी
हतं विषं नष्टं विषं हतमिन्द्रस्य वज्रेण विषं
हतं ते ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा ॥

यदि पौण्ड्रकालिकदूतोऽसि यदि वा पौण्ड्रकालिकः स्वयं
सचरति सचरति तत्कारी मत्कारी विषनाशिनी विषदूषिणी
विषहारिणी हतं विषं नष्टं विषं हतमिन्द्रस्य वज्रेण
विषं हतं ते ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा ॥

यदि नागकदूतोऽसि यदि वा नागकः स्वयं सचरति सचरति
तत्कारी मत्कारी विषनाशिनी विषदूषिणी विषहारिणी हतं
विषं नष्टं विषं हतमिन्द्रस्य वज्रेण विषं हतं ते
ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा ॥

यदि लूतानां प्रलूतानां यदि वृश्चिकानां यदि घोटकानां
यदि स्थावरजङ्गमानां सचरति सचरति तत्कारी मत्कारी
विषनाशिनी विषदूषिणी विषहारिणी हतं विषं नष्टं
विषं हतमिन्द्रस्य वज्रेण विषं हतं ते ब्रह्मणा विषमिन्द्रस्य
वज्रेण स्वाहा । अनन्तवासुकितक्षककर्कोटकपद्मकमहापद्मक-
शङ्खकगुलिकपौण्ड्रकालिकनागक इत्येषां दिव्यानां
महानागानां महानागादिरूपाणां विषतुण्डानां विषदन्तानां
विषदंष्ट्राणां विषाङ्गानां विषपुच्छानां विश्वचाराणां
वृश्चिकानां लूतानां प्रलूतानां मूषिकाणां गृहगौलिकानां
गृहगोधिकानां घ्रणासानां गृहगिरिगह्वरकालानलवल्मीकोद्भूतानां
तार्णानां पार्णानां काष्ठदारुवृक्षकोटरस्थानां
मूलत्वग्दारुनिर्यासपत्रपुष्पफलोद्भूतानां दुष्टकीटकपिश्वान-
मार्जारजंबुकव्याघ्रवराहाणां जरायुजाण्डजोद्भिज्जस्वेदजानां
शस्त्रबाणक्षतस्फोटव्रणमहाव्रणकृतानां कृत्रिमाणामन्येषां
भूतवेतालकूष्माण्डपिशाचप्रेतराक्षसयक्षभयप्रदानां
विषतुण्डदंष्ट्रानां विषाङ्गानां विषपुच्छानां विषाणां
विषरूपिणी विषदूषिणी विषशोषिणी विषनाशिनी विषहारिणी
हतं विषं नष्टं विषमन्तःप्रलीनं विषं प्रनष्टं विषं हतं ते
ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा । य इमां ब्रह्मविद्याममावास्यायां
पठेच्छृणुयाद्वा यावज्जीवं न हिंसन्ति सर्पाः । अष्टौ ब्राह्मणान्ग्राहयित्वा
तृणेन मोचयेत् । शतं ब्राह्मणान्ग्राहयित्वा चक्षुषा मोचयेत् ।
सहस्रं ब्राह्मणान्ग्राहयित्वा मनसा मोचयेत् । सर्पाञ्जले न मुञ्चन्ति ।
तृणे न मुञ्चन्ति । काष्ठे न मुञ्चन्तीत्याह भगवान्ब्रह्मेत्युपनिषत् ॥

ॐ भद्रं कर्णेभिः श‍ृणुयाम देवाः ॥ भद्रं पश्येमाक्षभिर्यजत्राः ॥

स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः ॥ व्यशेम देवहितं यदायुः ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः ॥ स्वस्ति नः पूषा विश्ववेदाः ॥

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥ स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥

इति श्रीगारुडोपनिषत्समाप्ता ॥

।विष्णु सूक्तं।

।विष्णु सूक्तं।

ॐ विष्णोर्नुकं वीर्याणि प्रवोचं यः पार्थिवानि
विममे रजाꣳसि यो अस्कभायदुत्तरꣳ सधस्थं
विचक्रमाणस्त्रेधोरुगायो विष्णोरराटमसि विष्णोः
पृष्ठमसि विष्णोः श्नप्त्रेस्थो विष्णोस्स्यूरसि
विष्णोर्ध्रुवमसि वैष्णवमसि विष्णवे त्वा॥

तदस्य प्रियमभिपाथो अश्याम्। नरो यत्र देवयवो
मदन्ति। उरुक्रमस्य स हि बन्धुरित्था। विष्णोः पदे
परमे मध्व उत्थ्सः। प्रतद्विष्णुस्स्तवते वीर्याय। मृगो
न भीमः कुचरो गिरिष्ठाः। यस्योरुषु त्रिषु
विक्रमणेषु। अधिक्षियन्ति भुवनानि विश्वा। परो मात्रया
तनुवा वृधान। न ते महित्वमन्वश्नुवन्ति॥

उभे ते विद्म रजसि पृथिव्या विष्णो देवत्वम्। परमस्य
विथ्से। विचक्रमे पृथिवीमेष एताम्। क्षेत्राय विष्णुर्मनुषे
दशस्यन्। ध्रुवासो अस्य कीरयो जनासः।  उरुक्षितिꣳ
सुजनिमाचकार । त्रिर्देवः पृथिवीमेष एताम् ।
विचक्रमे शतर्चसं महित्वा। प्रविष्णुरस्तु
तवसस्तवीयान् । त्वेषꣳह्यस्य स्थविरस्य नाम॥

अतो देवा अवन्तुनो यतो विष्णुर्विचक्रमे। पृथिव्यास्सप्त
धामभिः। इदं विष्णुर्विचक्रमे त्रेधा निदधे
पदम्। समूढमस्य पाꣳसुरे। त्रिणि पदा विचक्रमे
विष्णुर्गोपा अदाभ्यः।  ततो धर्माणि धारयन्। विष्णोः
कर्माणि पश्यत यतो व्रतानि पस्पशे। इन्द्रस्य
युज्यस्सका॥

तद्विष्णोः परमं पदꣳ सदा पश्यन्ति सूरयः। दिवीव
चक्षुराततम्। तद्विप्रासो विपन्यवो जागृवाꣳ
सस्समिन्धते। विष्णोर्यत्परमं पदम्। पर्याप्त्या
अनन्तरायाय सर्वस्तोमोऽति रात्र उत्तम महर्भवति
सर्वस्याप्त्यै सर्वस्य जित्यै सर्वमेव तेनाप्नोति सर्वं
जयति॥

॥ ॐ शान्तिः शान्तिः शान्तिः ॥

॥ श्रीलक्ष्मीसूक्त ॥

॥ श्रीलक्ष्मीसूक्त ॥

श्री गणेशाय नमः ।
ॐ पद्मानने पद्मिनि पद्मपत्रे पद्मप्रिये पद्मदलायताक्षि ।
विश्वप्रिये विश्वमनोऽनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व ॥

पद्मानने पद्मऊरु पद्माश्री पद्मसम्भवे ।
तन्मे भजसिं पद्माक्षि येन सौख्यं लभाम्यहम् ॥

अश्वदायै गोदायै धनदायै महाधने ।
धनं मे जुषतां देवि सर्वकामांश्च देहि मे ॥

पुत्रपौत्रं धनं धान्यं हस्त्यश्वादिगवेरथम् ।
प्रजानां भवसि माता आयुष्मन्तं करोतु मे ॥

धनमग्निर्धनं वायुर्धनं सूर्योधनं वसुः ।
धनमिन्द्रो बृहस्पतिर्वरुणो धनमस्तु मे ॥

वैनतेय सोमं पिब सोमं पिबतु वृत्रहा ।
सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः ॥

न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः ।
भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जापिनाम् ॥

सरसिजनिलये सरोजहस्ते धवलतरांशुक गन्धमाल्यशोभे ।
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥

श्रीर्वर्चस्वमायुष्यमारोग्यमाविधाच्छोभमानं महीयते ।
धान्य धनं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ॥

ॐ महादेव्यै च विद्महे विष्णुपत्न्यै च धीमहि ।
तन्नो लक्ष्मीः प्रचोदयात् ॥

ॐ महालक्ष्म्यै च विद्महे महश्रियै च धीमहि ।
तन्नः श्रीः प्रचोदयात् ॥

विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम् ।
लक्ष्मीं प्रियसखीं देवीं नमाम्यच्युतवल्लभाम् ॥

चन्द्रप्रभां लक्ष्मीमैशानीं सूर्याभांलक्ष्मीमैश्वरीम् ।
चन्द्र सूर्याग्निसङ्काशां श्रियं देवीमुपास्महे ॥

॥ इति श्रीलक्ष्मी सूक्तम् सम्पूर्णम् ॥

सिद्धिलक्ष्मीस्तोत्रम्

सिद्धिलक्ष्मीस्तोत्रम् 

श्री गणेशाय नमः ।
ॐ अस्य श्रीसिद्धिलक्ष्मीस्तोत्रस्य हिरण्यगर्भ ऋषिः,
अनुष्टुप् छन्दः, सिद्धिलक्ष्मीर्देवता, मम समस्त
दुःखक्लेशपीडादारिद्र्यविनाशार्थं
सर्वलक्ष्मीप्रसन्नकरणार्थं
महाकालीमहालक्ष्मीमहासरस्वतीदेवताप्रीत्यर्थं च
सिद्धिलक्ष्मीस्तोत्रजपे विनियोगः ।
ॐ सिद्धिलक्ष्मी अङ्गुष्ठाभ्यां नमः ।
ॐ ह्रीं विष्णुहृदये तर्जनीभ्यां नमः ।
ॐ क्लीं अमृतानन्दे मध्यमाभ्यां नमः ।
ॐ श्रीं दैत्यमालिनी अनामिकाभ्यां नमः ।
ॐ तं तेजःप्रकाशिनी कनिष्ठिकाभ्यां नमः ।
ॐ ह्रीं क्लीं श्रीं ब्राह्मी वैष्णवी माहेश्वरी
करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः ।
ॐ सिद्धिलक्ष्मी हृदयाय नमः ।
ॐ ह्रीं वैष्णवी शिरसे स्वाहा ।
ॐ क्लीं अमृतानन्दे शिखायै वौषट् ।
ॐ श्रीं दैत्यमालिनी कवचाय हुम् ।
ॐ तं तेजःप्रकाशिनी नेत्रद्वयाय वौषट् ।
ॐ ह्रीं क्लीं श्रीं ब्राह्मीं वैष्णवीं फट् ॥ अथ ध्यानम् ॥

ब्राह्मीं च वैष्णवीं भद्रां षड्भुजां च चतुर्मुखाम् ।
त्रिनेत्रां च त्रिशूलां च पद्मचक्रगदाधराम् ॥ १॥

पीताम्बरधरां देवीं नानालङ्कारभूषिताम् ।
तेजःपुञ्जधरां श्रेष्ठां ध्यायेद्बालकुमारिकाम् ॥ २॥

ॐकारलक्ष्मीरूपेण विष्णोर्हृदयमव्ययम् ।
विष्णुमानन्दमध्यस्थं ह्रींकारबीजरूपिणी ॥ ३॥

ॐ क्लीं अमृतानन्दभद्रे सद्य आनन्ददायिनी ।
ॐ श्रीं दैत्यभक्षरदां शक्तिमालिनी शत्रुमर्दिनी ॥ ४॥

तेजःप्रकाशिनी देवी वरदा शुभकारिणी ।
ब्राह्मी च वैष्णवी भद्रा कालिका रक्तशाम्भवी ॥ ५॥

आकारब्रह्मरूपेण ॐकारं विष्णुमव्ययम् ।
सिद्धिलक्ष्मि परालक्ष्मि लक्ष्यलक्ष्मि नमोऽस्तुते ॥ ६॥

सूर्यकोटिप्रतीकाशं चन्द्रकोटिसमप्रभम् ।
तन्मध्ये निकरे सूक्ष्मं ब्रह्मरूपव्यवस्थितम् ॥ ७॥

ॐकारपरमानन्दं क्रियते सुखसम्पदा ।
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ॥ ८॥

प्रथमे त्र्यम्बका गौरी द्वितीये वैष्णवी तथा ।
तृतीये कमला प्रोक्ता चतुर्थे सुरसुन्दरी ॥ ९॥

पञ्चमे विष्णुपत्नी च षष्ठे च वैएष्णवी तथा ।
सप्तमे च वरारोहा अष्टमे वरदायिनी ॥ १०॥

नवमे खड्गत्रिशूला दशमे देवदेवता ।
एकादशे सिद्धिलक्ष्मीर्द्वादशे ललितात्मिका ॥ ११॥

एतत्स्तोत्रं पठन्तस्त्वां स्तुवन्ति भुवि मानवाः ।
सर्वोपद्रवमुक्तास्ते नात्र कार्या विचारणा ॥ १२॥

एकमासं द्विमासं वा त्रिमासं च चतुर्थकम् ।
पञ्चमासं च षण्मासं त्रिकालं यः पठेन्नरः ॥ १३॥

ब्राह्मणाः क्लेशतो दुःखदरिद्रा भयपीडिअताः ।
जन्मान्तरसहस्रेषु मुच्यन्ते सर्वक्लेशतः ॥ १४॥

अलक्ष्मीर्लभते लक्ष्मीमपुत्रः पुत्रमुत्तमम् ।
धन्यं यशस्यमायुष्यं वह्निचौरभयेषु च ॥ १५॥

शाकिनीभूतवेतालसर्वव्याधिनिपातके ।
राजद्वारे महाघोरे सङ्ग्रामे रिपुसङ्कटे ॥ १६॥

सभास्थाने श्मशाने च कारागेहारिबन्धने ।
अशेषभयसम्प्राप्तौ सिद्धिलक्ष्मीं जपेन्नरः ॥ १७॥

ईश्वरेण कृतं स्तोत्रं प्राणिनां हितकारणम् ।
स्तुवन्ति ब्राह्मणा नित्यं दारिद्र्यं न च वर्धते ॥ १८॥

या श्रीः पद्मवने कदम्बशिखरे राजगृहे कुञ्जरे
श्वेते चाश्वयुते वृषे च युगले यज्ञे च यूपस्थिते ।
शङ्खे देवकुले नरेन्द्रभवनी गङ्गातटे गोकुले
सा श्रीस्तिष्ठतु सर्वदा मम गृहे भूयात्सदा निश्चला ॥ १९॥

॥ इति श्रीब्रह्माण्डपुराणे ईश्वरविष्णुसंवादे दारिद्र्यनाशनं
सिद्धिलक्ष्मीस्तोत्रं सम्पूर्णम् ॥

॥ विभिन्नरूपलक्ष्मीध्यानप्रकाराः ॥

॥ विभिन्नरूपलक्ष्मीध्यानप्रकाराः ॥

श्रीलक्ष्मीनारायण ध्यानम् ।
क्षीराम्भोनिधिरत्नमण्डपमहासौवर्णसिंहासने ।
वामाङ्के स्थितया प्रसन्नवदनं श्रीकान्तयाऽऽलिङ्गितम् ॥

दोर्दण्डाङ्कितशङ्खपङ्कजगदाचक्रैरुदारश्रियम् ।
त्वां नित्यं कलयामि जन्मविमुखः लक्ष्मीश नारायण ॥

द्विभुजालक्ष्मी - हेमवर्णा ।
हरेः समीपे कर्तव्या लक्ष्मीस्तु द्विभुजा नृप ।
दिव्यरूपाम्बुजकरा सर्वाभरणभूषिता ॥

गजलक्ष्मी - स्वर्णवर्णा ।
लक्ष्मीः शुक्लाम्बरा देवी रूपेणाप्रतिमा भुवि ।
पृथक् चतुर्भुजा कार्या देवी सिम्हासने शुभा ॥

सिम्हासनेऽस्या कर्तव्यं कमलं चारुकर्णिकम् ।
अष्टपत्रं महाभागा कर्णिकायां सुसंस्थिता ॥

विनायकवदासीना देवी कार्या चतुर्भुजा ।
बृहन्नालङ्करे कार्यं तस्याश्च कमलं शुभम् ॥

दक्षिणे यादवश्रेष्ठं केयूरभ्रान्तसंस्थितम् ।
वामेऽमृतघटः कार्यस्तदा राजन् मनोहरः ॥

तस्याऽन्यौ च करौ कार्यौ बिल्वशङ्खधरौ द्विज ।
अवर्जितकरं कार्यं तत्पृष्ठे कुञ्जरद्वयम् ॥

देवाश्च मस्तके कार्यं पद्मं चापि मनोहरम् ॥

महालक्ष्मी - स्वर्णवर्णा ।
कोल्लापुरं विनाऽन्यत्र महालक्ष्मीर्यथोच्यते ।
लक्ष्मीवत् सा सदाकार्या सर्वाभरणभूषिता ॥

दक्षिणाधः करे पात्रमूर्ध्वं कौमोदकीं तदा ।
वामोर्ध्वे खेटकञ्चैव श्रीबलं तदधः करे ॥

बिभ्रती मस्तके पद्मं पूजनीया विभूतये ॥

श्रीदेवी - हेमवर्णा
पाशाक्षमाली काम्भोजमणिभिर्याम्यसौम्ययोः ।
पद्मासनस्थां कुर्वीथ श्रियं त्रैलोक्यमातरम् ॥

चतुर्भुजा वीरलक्ष्मी - स्वर्णवर्णा ।
वीरलक्ष्मीरिति ख्याता वरदाभयहस्तिनी ।
ऊर्ध्वपद्मद्वयकरा तथा पद्मासने स्थिता ॥

द्विभुजा वीरलक्ष्मी - हेमवर्णा ।
दक्षिणे त्वभयं बिभ्रदुत्तरे वरदं तथा ।
ऊरू पद्मदलाकारौ वीरश्रीमूर्तिलक्षणम् ॥

अष्टभुजा वीरलक्ष्मी - हेमवर्णा ।
पाशाङ्कुशाक्षसूत्रवराभयगदाभद्रहस्ता ॥

प्रसन्नलक्ष्मी - स्वर्णवर्णा ।
वन्दे लक्ष्मीं वरशशिमयीं शुद्धजाम्बूनदाभां
तेजोरूपां कनकवसनां सर्वभूषोज्ज्वलाङ्गीम् ।
बीजापूरं कनककलशं हेमपद्मे दधानां
आद्यां शक्तिं सकलजननीं विष्णुवामाङ्कसंस्थाम् ॥

महालक्ष्मी - प्रवालवर्णा ।
अक्षस्रक्परशुं गदेषु कुलिशं पद्मं धनुः कुण्डिकां
दण्डं शक्तिमसिञ्च चर्मजलजं घण्टां सुराभाजनम् ।
शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवालप्रभां
सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ॥

श्रीलक्ष्मी - कनकवर्णा ।
अरुणकमलसंस्था तद्रजःपुञ्जवर्णा
करकमलधृतेष्वाभीतियुग्माम्बुजा च ।
मणिमकुटविचित्रालङ्कृता कल्पजातैः
भवतु भुवनमाता सन्ततं श्रीः श्रियै नः ॥

पद्मा - पद्मवर्णा
पद्मा पद्मासनासीना पद्माभा पद्मवासिनी ।
हेमरत्नोज्ज्वलन्नग्रकर्णकुण्डलमण्डिता ॥

चन्द्रबिम्बामलमुखी कर्णपूरायतेक्षणा ।
सयौवना सुरम्याङ्गी कुञ्चितभ्रूः सुविभ्रमा ॥

रक्तोष्ठी पीनकण्ठा च कञ्चुकाच्छादितस्तनी ।
शिरसो मण्डनं चक्रं सीमन्तं चैव पद्मकम् ॥

नागहस्तसमौ बाहु केयूरकटकोज्ज्वलौ ।
पङ्कजं श्रीफलं वामे दक्षिणे बिभ्रती परा ॥

शोभनाम्बरसम्पन्ना विपुलश्रोणिता तथा ।
मेखलाकटिसूत्राङ्गा लक्ष्मीः लक्ष्मीविवर्धनी ॥

श्रीलक्ष्मी (अपरा)
अभयवरदहस्तां रत्नसिम्हासनस्थां
जलजकमलवर्णां हेमवर्णोर्ध्वहस्ताम् ।
कनकमणिविभूषामास्थितां पद्मपादां
सकलभुवनभाग्यां भावये वीरलक्ष्मीम् ॥

वागीश्वरी - श्वेतवर्णा ।
श्वेतपद्मासनारूढा शुक्लवर्णा चतुर्भुजा ।
जटामकुटसम्युक्ता रत्नकुण्डलमण्डिता ॥

यज्ञोपवीतिनी हारमुक्ताभरणभूषिता ।
दुकूलवसना देवी नेत्रत्रयसमन्विता ॥

सुदण्डं दक्षिणे हस्ते वामहस्ते तु पुस्तकम् ।
दक्षिणेऽक्षमालाञ्च कुण्डिकां वामहस्तके ॥

शत्रुविध्वंसिनी - नीलवर्णा ।
शत्रुविध्वंसिनी रौद्रा त्रिशिरा रक्तलोचना ।
दिगम्बरा रक्तकेशी रक्तपाणिर्महोदरी ॥

एतैराविष्कृतैर्घोरैः शीघ्रमुच्चाटयेद्द्विषः ॥

मृतसञ्जीविनी - रक्तवर्णा ।
मृतसञ्जीविनीं देवीं शान्तरूपांश्च बिभ्रतीम् ।
पाशाहीन्द्राङ्कुशगदाखड्गशूलवराभयान् ॥

रक्तामष्टभुजां वन्दे फुल्लपद्मासने शुभे ॥

अणिमादि अष्टसिद्धिदेवता - रक्तवर्णा ।
अणिमा महिमा चैव गरिमा लघिमा तथा ।
प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्टसिद्धयः ॥

मुक्तिसिद्धिः सर्वसिद्धिः दशसिद्धय ईरिताः ।
एता देव्यश्चतुर्बाहाः जपाकुसुमसन्निभाः ॥

चिन्तामणिं कपालञ्च त्रिशूलं सिद्धकज्जलम् ।
दधाना दययापूर्णा योगिभिश्च निषेविता ॥

महालक्ष्मीसहित अष्टमातृकाः - रक्तवर्णाः ।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराही चैव माहेन्द्री चामुण्डा चैव सप्तमा ॥

महालक्ष्मीरष्टमा च द्विभुजा शोणविग्रहाः ।
कपालमुत्पलं चैव बिभ्राणा रक्तवाससः ॥

अथवान्यप्रकारेण केचित्तान् यं प्रचक्षते ।
ब्रह्मादिसदृशाकाराः ब्रह्मादिसदृशायुताः ॥

ब्रह्मादीनां परं चिह्नं धारयन्त्यः प्रकीर्तिताः ॥

सर्वमङ्गला - कनकवर्णा ।
शङ्खं चक्रञ्च चापं सृणिमपि सुमहाखेटखड्गौ सुचापं
बाणं कह्लारपुष्पं तदनुकरगतं मातुलङ्गं दधानाम् ।
उद्यद्बालार्कवर्णां त्रिभुवनविजयां पञ्चवक्त्रां त्रिनेत्रां
देवीं पीताम्बराढ्यां कुचभरनमितां सन्ततं भावयामि ॥

हेमाभां करुणाभिपूर्णनयनां माणिक्यभूषोज्ज्वलां
द्वात्रिंशद्दलषोडशाष्टदलयुक् पद्मस्थितां सुस्मिताम् ॥

भक्तानां वरदां वरं च दधतीं वामेन हस्तेन तत्
दक्षेणाभयमातुलङ्गसुफलं श्रीमङ्गलां भावये ॥

ज्वालामालिनि - कनकवर्णा
कल्पान्ताग्निसमप्रभां स्मितमुखैः षड्भिर्भुजद्वादशैः
युक्तां पाशकखेटकञ्च सुशरं शूलं वरं वामके ।
दक्षेत्वङ्कुशखड्गशक्तिसुशरं चापाभये बिभ्रतीं
ज्वालामालिनि सञ्चितां मणिमयीभूषान्वितामाश्रये ॥

मित्रा - रक्तवर्णा
बालार्ककान्ति च शिलां जितवक्त्रशोभां
पाशाङ्कुशौ च वरमप्यभयं दधानाम् ।
चित्रांशुकां च नवरत्न विभूषिताङ्गीं
चित्राम्बिकां त्रिनयनां हृदि भावयामि ॥

गायत्री - रक्तवर्णा
देवीं पूर्वाह्नसंध्यायां गायत्रीं वह्निरूपिणीम् ।
कुमारीं रक्तवस्त्राङ्गीं रक्तस्रगनुलेपनाम् ॥

चतुर्भुजां चतुर्वक्त्रां वरदां चाष्टलोचनाम् ।
पद्माक्षमालावलयां बिभ्रतीं दक्षिणे करे ॥

वामे कमण्डलुं पाणौ स्रुवं सव्येतरे करे ।
अभयं वामहस्ते च पद्मपीठे प्रतिष्ठिताम् ॥

ऋग्वेदरूपिणीं प्रातस्सवनां हंसवाहनाम् ।
रसायनाञ्च प्रहतीं गार्हपत्ये प्रतिष्ठिताम् ॥

सावित्री - शुक्लवर्णा (मध्याह्नम्)
देवीं मध्याह्नसन्ध्यायां सावित्रीं रुद्ररूपिणीम् ।
युवतीं श्वेतवस्त्राख्यां शुक्लस्रगनुलेपनाम् ॥

चतुर्भुजां चतुर्वक्त्रां वरदां द्वादशेक्षणाम् ।
रुद्राक्षमालावलयां बिभ्रतीं दक्षिणे करे ॥

वामे करेऽभयं देवीं तथैवार्केन्दुधारिणीम् ।
स्वर्णपीठे स्थितां सौम्ये यजुर्वेदस्वरूपिणीम् ॥

माध्यन्दिनाख्यसवने सतां गोवृषवाहनाम् ।
दक्षिणाग्निस्वरूपां तां ध्यायेन्नित्यं विशुद्धधीः ॥

सरस्वती - श्यामवर्णा (सायङ्कालं)
सरस्वतीं तु सायाह्ने सन्ध्यायां विष्णुरूपिणीम् ।
स्थविरेन्दीवरश्यामां नीलकुञ्चितमूर्धजाम् ॥

चतुर्भुजां चैकवक्त्रां पद्मपत्रायतेक्षणाम् ।
शङ्खं चक्रं गदाञ्चैव तथैवाभयदं पुनः ॥

पीताम्बरं दधानाञ्च दिव्यस्रगनुलेपनाम् ।
तृतीयसवनाख्याञ्च ध्यायेद्वै विष्णुरूपिणीम् ॥

नीलपीठे स्थितां सौम्ये सामवेदस्वरूपिणीम् ।
वरदां गरुडारूढां आहवनीये व्यवस्थिताम् ॥

वश्यमुखी - रक्तवर्णा
सन्धाय सुमनोबाणं कर्षन्तीमैक्षवं धनुः ।
जगज्जैत्रीं जपासक्तां देवीं वश्यमुखीं भजे ॥

सप्तमातृकासु -

ब्राह्मी - पीतवर्णा
तत्र ब्राह्मी चतुर्वक्त्रा षड्भुजा हंससंस्थिता ।
पिङ्गाभा भूषणोपेता मृगचर्मोत्तरीयका ॥

वरं सूत्रं स्रुवं धत्ते दक्षबाहूत्तरे क्रमात् ।
वामे तु पुस्तकं कुण्डीं बिभ्रती चाभयङ्करम् ॥

माहेश्वरी - श्वेतवर्णा
माहेश्वरी वृषारूढा पञ्चवक्त्रा त्रिलोचना ।
श्वेतवर्णा दशभुजा चन्द्ररेखाविभूषिता ॥

खड्गं वज्रं त्रिशूलञ्च परशुं चाभयं वरम् ।
पाशं घण्टां तथा नागमङ्कुशं बिभ्रती करैः ॥

कौमारी - पाटलवर्णा
षडानना तु कौमारी पाटलाभा सुशीलका ।
रविबाहुर्मयूरस्था वरदा शक्तिधारिणी ॥

पताकां बिभ्रती दण्डं पात्रं बाणञ्च दक्षिणे ।
वामे चापमथो घण्टां कमलं कुक्कुटं तथा ॥

परशुं बिभ्रती चैव दधतस्त्वभयान्विता ॥

वैष्णवी - नीलवर्णा
वैष्णवी तार्क्ष्यका श्यामा षड्भुजा वनमालिनी ।
वरदा गदिनी दक्षे बिभ्रती च करेऽम्बुजम् ॥

शङ्खचक्राभयान्वामे सा चेयं विलसद्भुजा ॥

वाराही - कृष्णवर्णा
कृष्णवर्णा तु वाराही महिषस्था महोदरी ।
वरदा दण्डिनी खड्गं बिभ्रती दक्षिणे करे ॥

खेटपात्राभयान्वामे सूकरास्या लसद्भुजा ॥

ऐन्द्री - कनकवर्णा
ऐन्द्री सहस्रदृक् सौम्या हेमाभा गजससस्थिता ।
वरदा सूत्रिणी वज्रं बिभ्रत्यूर्ध्वं तु दक्षिणे ॥

वामे तु कमलं पात्रं ह्यभयं तदधः करे ॥

चामुण्डा - कृष्णवर्णा
चामुण्डा प्रेतका कृष्णा विकृता चाहिभूषणा ।
दंष्ट्राला क्षीणदेहा च कर्ताक्षी कामरूपिणी ॥

दिग्बाहुः क्षौमकुक्षी च मुसलं चक्रचामरे ।
अङ्कुशं बिभ्रती खड्गं दक्षिणे चाथ वामके ॥

खेटं पाशं धनुर्दण्डं कुठारं चापि बिभ्रती ॥

सिद्धिदायिनी - श्वेतवर्णा
सिद्धगन्धर्वयक्षाद्यैरसुरैरमरैरपि ।
सेव्यमाना सदा भूयात्सिद्धिदा सिद्धिदायिनी ॥

अपराजिता - नीलवर्णा
नीलोत्पलनिभां देवीं निद्रामुद्रितलोचनाम् ।
नीलकुञ्जितकेशाग्नां निम्ननाभीवलित्रयाम् ॥

वराभयकराम्भोजां प्रणतार्तिविनाशिनीम् ।
पीताम्बरवरोपेतां भूषणस्रग्विभूषिताम् ॥

वरशक्त्याकृतिं सौम्यां परसैन्यप्रभञ्जनीम् ।
शङ्खचक्रगदाऽभीतिरम्यहस्तां त्रिलोचनाम् ॥

सर्वकामप्रदां देवीं ध्यायेत्तामपराजिताम् ॥

तुलसी - श्यामवर्णा
ध्यायेच्च तुलसीं देवीं श्यामां कमललोचनाम् ।
प्रसन्नां पद्मकल्हार वराभय चतुर्भुजाम् ॥

किरीटहारकेयूरकुण्डलादिविभूषिताम् ।
धवलांशुकसभ्युक्तां पद्मासननिषेदुषीम् ॥

भूदेवी - स्वर्णवर्णा
स्वर्गवर्णा द्विहस्ता च दक्षिणेनाभयप्रदा ।
दाडिमीफलसम्युक्ता वामे कल्पतरोरधः ॥

वामपादेन संस्पृष्टनिधिकुम्भाधरा तथा ।
सर्वालङ्कारभूषाढ्या ध्येया सर्वफलप्रदा ॥

नीलादेवी - श्यामवर्णा
नीलोत्पलघनश्यामा नीलवस्त्रविभूषिता ।
चतुर्भुजा सुखासीना वराभयकरान्विता ॥

इतराभ्यां तु हस्ताभ्यां कुमुदद्वयधारिणी ।
सर्वाभरणसम्युक्ता नीलादेवी समीरिता ॥

अश्वारूढा राजलक्ष्मी - हिरण्यवर्णा
चतुरङ्गबलोपेतां धनधान्यसुखेश्वरीम् ।
अश्वारूढामहं वन्दे राजलक्ष्मीं हिरण्मयीम् ॥

इति विभिन्नरूपलक्ष्मीध्यानप्रकाराः सम्पूर्णाः ।

श्रीलक्ष्म्यष्टोत्तरशतनामावलिः -1

श्रीलक्ष्म्यष्टोत्तरशतनामावलिः 

एषा नामावलिः महालक्ष्म्यै नमः इत्यारब्धायाः सहस्रनामावल्या
अङ्गभूता ।

ॐ ब्रह्मज्ञायै नमः । ब्रह्मसुखदायै । ब्रह्मण्यायै । ब्रह्मरूपिण्यै ।
सुमत्यै । सुभगायै । सुन्दायै । प्रयत्यै । नियत्यै । यत्यै ।
सर्वप्राणस्वरूपायै । सर्वेन्द्रियसुखप्रदायै । संविन्मय्यै ।
सदाचारायै । सदातुष्टायै । सदानतायै । कौमुद्यै । कुमुदानन्दायै ।
क्वै नमः । कुत्सिततमोहर्यै नमः ॥ २०

हृदयार्तिहर्यै नमः । हारशोभिन्यै । हानिवारिण्यै । सम्भाज्यायै ।
संविभाज्यायै । आज्ञायै । ज्यायस्यै । जनिहारिण्यै । महाक्रोधायै ।
महातर्षायै । महर्षिजनसेवितायै । कैटभारिप्रियायै । कीर्त्यै ।
कीर्तितायै । कैतवोज्झितायै । कौमुद्यै । शीतलमनसे ।
कौसल्यासुतभामिन्यै । कासारनाभ्यै । कस्यै नमः ॥ ४०

तस्यै नमः । यस्यै । एतस्यै । इयत्ताविवर्जितायै । अन्तिकस्थायै ।
अतिदूरस्थायै । हृदयस्थायै । अम्बुजस्थितायै ।
मुनिचित्तस्थितायै । मौनिगम्यायै । मान्धातृपूजितायै ।
मतिस्थिरीकर्तृकार्यनित्यनिर्वहणोत्सुकायै । महीस्थितायै ।
मध्यस्थायै । द्युस्थितायै । अधःस्थितायै । ऊर्ध्वगायै । भूत्यै ।
वीभूत्यै । सुरभ्यै नमः ॥ ६०

सुरसिद्धार्तिहारिण्यै नमः । अतिभोगायै । अतिदानायै । अतिरूपायै ।
अतिकरुणायै । अतिभासे । विज्वरायै । वियदाभोगायै । वितन्द्रायै ।
विरहासहायै । शूर्पकारातिजनन्यै । शून्यदोषायै । शुचिप्रियायै ।
निःस्पृहायै । सस्पृहायै । नीलासपत्न्यै । निधिदायिन्यै ।
कुम्भस्तन्यै । कुन्दरदायै । कुङ्कुमालेपितायै नमः ॥ ८०

कुजायै नमः । शास्त्रज्ञायै । शास्त्रजनन्यै । शास्त्रज्ञेयायै ।
शरीरगायै । सत्यभासे । सत्यसङ्कल्पायै । सत्यकामायै । सरोजिन्यै ।
चन्द्रप्रियायै । चन्द्रगतायै । चन्द्रायै । चन्द्रसहोदर्यै ।
औदर्यै । औपयिक्यै । प्रीतायै । गीतायै । ओतायै । गिरिस्थितायै ।
अनन्वितायै नमः ॥ १००

अमूलायै नमः । आर्तिध्वान्तपुञ्जरविप्रभायै । मङ्गलायै ।
मङ्गलपरायै । मृग्यायै । मङ्गलदेवतायै । कोमलायै ।
महालक्ष्म्यै नमः ॥ १०८

इति श्रीलक्ष्म्यष्टोत्तरशतनामावलिः समाप्ता ।

Tuesday, 19 May 2020

श्रीमहालक्ष्मी ललितास्तोत्रम्

श्रीमहालक्ष्मी ललितास्तोत्रम् 

          ॥ ध्यानम् ॥

चक्राकारं महत्तेजः तन्मध्ये परमेश्वरी ।
जगन्माता जीवदात्री नारायणी परमेश्वरी ॥ १ ॥

व्यूहतेजोमयी ब्रह्मानन्दिनी हरिसुन्दरी ।
पाशांकुशेक्षुकोदण्ड पद्ममालालसत्करा ॥ २ ॥

दृष्ट्वा तां मुमुहुर्देवाः प्रणेमुर्विगतज्वराः ।
तुष्टुवुः श्रीमहालक्ष्मीं ललितां वैष्णवीं पराम् ॥ ३ ॥

         ॥ श्रीदेवाः ऊचुः ॥

जय लक्ष्मि जगन्मातः जय लक्ष्मि परात्परे ।
जय कल्याणनिलये जय सर्वकलात्मिके ॥ १ ॥

जय ब्राह्मि महालक्ष्मि ब्रहात्मिके परात्मिके ।
जय नारायणि शान्ते जय श्रीललिते रमे ॥ २ ॥

जय श्रीविजये देवीश्वरि श्रीदे जयर्द्धिदे ।
नमः सहस्र शीर्षायै सहस्रानन लोचने ॥ ३ ॥

नमः सहस्रहस्ताब्जपादपङ्कजशोभिते । 
अणोरणुतरे लक्ष्मि महतोऽपि महीयसि ॥ ४ ॥

अतलं ते स्मृतौ पादौ वितलं जानुनी तव ।
रसातलं कटिस्ते च कुक्षिस्ते पृथिवी मता ॥ ५ ॥

हृदयं भुवः स्वस्तेऽस्तु मुखं सत्यं शिरो मतम् ।
दृशश्चन्द्रार्कदहना दिशः कर्णा भुजः सुराः ॥ ६ ॥

मरुतस्तु तवोच्छ्वासा वाचस्ते श्रुतयो मताः ।
क्रिडा ते लोकरचना सखा ते परमेश्वरः ॥ ७ ॥

आहारस्ते सदानन्दो वासस्ते हृदयो हरेः ।
दृश्यादृश्यस्वरूपाणि रूपाणि भुवनानि ते ॥ ८ ॥

शिरोरुहा घनास्ते वै तारकाः कुसुमानि ते ।
धर्माद्या बाहवस्ते च कालाद्या हेतयस्तव ॥ ९ ॥

यमाश्च नियमाश्चापि करपादनखास्तव ।
स्तनौ स्वाहास्वधाकारौ सर्वजीवनदुग्धदौ ॥ १० ॥

प्राणायामस्तव श्वासो रसना ते सरस्वती ।
महीरुहास्तेऽङ्गरुहाः प्रभातं वसनं तव ॥ ११ ॥

आदौ दया धर्मपत्नी ससर्ज निखिलाः प्रजाः ।
हृत्स्था त्वं व्यापिनी लक्ष्मीः मोहिनी त्वं तथा परा ॥ १२ ॥

इदानीं दृश्यसे ब्राह्मी नारायणी प्रियशङ्करी ।
नमस्तस्यै महालक्ष्म्यै गजमुख्यै नमो नमः ॥ १३ ॥

सर्वशक्त्यै सर्वधात्र्यै महालक्ष्म्यै नमो नमः । 
या ससर्ज विराजं च ततोऽजं विष्णुमीश्वरम् ॥ १४ ॥

रुदं तथा सुराग्रयाँश्च तस्यै लक्ष्म्यै नमो नमः ।
त्रिगुणायै निर्गुणायै हरिण्यै ते नमो नमः ॥ १५ ॥

यन्त्रतन्त्रात्मिकायै ते जगन्मात्रे नमो नमः ।
वाग्विभूत्यै गुरुतन्व्यै महालक्ष्म्यै नमो नमः ॥ १६ ॥

कम्भरायै सर्वविद्याभरायै ते नमो नमः ।
जयाललितापाञ्चाली रमातन्वै नमो नमः ॥ १७ ॥

पद्मावतीरमाहंसी सुगुणाऽऽज्ञाश्रियै नमः ।
नमः स्तुता प्रसनैवंछन्दयामास सव्दरैः ॥ १८ ॥

॥ फल श्रुति श्री लक्ष्मी उवाच ॥ 

स्तावका मे भविश्यन्ति श्रीयशोधर्मसम्भृताः ।
विद्याविनयसम्पन्ना निरोगा दीर्घजीविनः ॥ १ ॥

पुत्रमित्रकलत्राढ्या भविष्यन्ति सुसम्पदः ।
पठनाच्छ्रवणादस्य शत्रुभीतिर्विनश्यति ॥ २ ॥

राजभीतिः कदनानि विनश्यन्ति न संशयः ।
भुक्तिं मुक्तिं भाग्यमृद्धिमुत्तमां च लभेन्नरः ॥ ३ ॥

॥ श्रीलक्ष्मीनारायणसंहितायां देवसङ्घकृता श्रीमहालक्ष्मीललितास्तोत्र

॥ श्रीअष्टलक्ष्मी अष्टोत्तरशतनामावली ॥

॥ श्रीअष्टलक्ष्मी अष्टोत्तरशतनामावली ॥

जय जय शङ्कर ।
ॐ श्री ललिता महात्रिपुरसुन्दरी
पराभट्टारिका समेताय
श्री चन्द्रमौळीश्वर परब्रह्मणे नमः ॥

१ श्री आदिलक्ष्मी नामावलिः ॥ ॐ श्रीं
२ श्री धान्यलक्ष्मी नामावलिः ॥ ॐ श्रीं क्लीं
३ श्री धैर्यलक्ष्मी नामावलिः ॥  ॐ श्रीं ह्रीं क्लीं
४ श्री गजलक्ष्मी नामावलिः ॥ ॐ श्रीं ह्रीं क्लीं
५ श्री सन्तानलक्ष्मी नामावलिः ॥ ॐ ह्रीं श्रीं क्लीं
६ श्री विजयलक्ष्मी नामावलिः ॥ ॐ क्लीं ॐ
७ श्री विद्यालक्ष्मी नामावलिः ॥  ॐ ऐं ॐ
८ श्री ऐश्वर्यलक्ष्मी नामावलिः ॥ ॐ श्रीं श्रीं श्रीं ॐ


ॐ श्रीं
आदिलक्ष्म्यै नमःअकारायै नमःअव्ययायै नमःअच्युतायै नमःआनन्दायै नमःअर्चितायै नमःअनुग्रहायै नमःअमृतायै नमःअनन्तायै नमःइष्टप्राप्त्यै नमःईश्वर्यै नमःकर्त्र्यै नमःकान्तायै नमःकलायै नमः
कल्याण्यै नमःकपर्दिने नमःकमलायै नमःकान्तिवर्धिन्यै नमःकुमार्यै नमःकामाक्ष्यै नमःकीर्तिलक्ष्म्यै नमः
गन्धिन्यै नमःगजारूढायै नमःगम्भीरवदनायै नमःचक्रहासिन्यै नमःचक्रायै नमःज्योतिलक्ष्म्यै नमः
जयलक्ष्म्यै नमःज्येष्ठायै नमःजगज्जनन्यै नमःजागृतायै नमःत्रिगुणायै नमःत्र्यैलोक्यमोहिन्यै नमः
त्र्यैलोक्यपूजितायै नमःनानारूपिण्यै नमःनिखिलायै नमःनारायण्यै नमःपद्माक्ष्यै नमःपरमायै नमः
प्राणायै नमःप्रधानायै नमःप्राणशक्त्यै नमःब्रह्माण्यै नमःभाग्यलक्ष्म्यै नमःभूदेव्यै नमःबहुरूपायै नमःभद्रकाल्यै नमःभीमायै नमःभैरव्यै नमःभोगलक्ष्म्यै नमःभूलक्ष्म्यै नमःमहाश्रियै नमःमाधव्यै नमःमात्रे नमःमहालक्ष्म्यै नमःमहावीरायै नमःमहाशक्त्यै नमःमालाश्रियै नमःराज्ञ्यै नमःरमायै नमःराज्यलक्ष्म्यै नमःरमणीयायै नमःलक्ष्म्यै नमःलाक्षितायै नमःलेखिन्यै नमःविजयलक्ष्म्यै नमःविश्वरूपिण्यै नमःविश्वाश्रयायै नमः
विशालाक्ष्यै नमःव्यापिन्यै नमःवेदिन्यै नमःवारिधये नमःव्याघ्र्यै नमःवाराह्यै नमःवैनायक्यै नमः
वरारोहायै नमःवैशारद्यै नमःशुभायै नमःशाकम्भर्यै नमःश्रीकान्तायै नमःकालायै नमःशरण्यै नमः
श्रुतये नमःस्वप्नदुर्गायै नमःसुर्यचन्द्राग्निनेत्रत्रयायै नमःसिम्हगायै नमःसर्वदीपिकायै नमः
स्थिरायै नमःसर्वसम्पत्तिरूपिण्यै नमःस्वामिन्यै नमःसितायै नमःसूक्ष्मायै नमःसर्वसम्पन्नायै नमः
हंसिन्यै नमःहर्षप्रदायै नमःहंसगायै नमःहरिसूतायै नमःहर्षप्राधान्यै नमःहरित्पतये नमःसर्वज्ञानायै नमःसर्वजनन्यै नमःमुखफलप्रदायै नमःमहारूपायै नमःश्रीकर्यै नमःश्रेयसे नमःश्रीचक्रमध्यगायै नमः
श्रीकारिण्यै नमःक्षमायै नमः  ॥ ॐ ॥




ॐ श्रीं क्लींधान्यलक्ष्म्यै नमःआनन्दाकृत्यै नमःअनिन्दितायै नमःआद्यायै नमःआचार्यायै नमःअभयायै नमः
अशक्यायै नमःअजयायै नमःअजेयायै नमःअमलायै नमःअमृतायै नमःअमरायै नमःइन्द्राणीवरदायै नमः
इन्दीवरेश्वर्यै नमःउरगेन्द्रशयनायै नमःउत्केल्यै नमःकाश्मीरवासिन्यै नमःकादम्बर्यै नमःकलरवायै नमः
कुचमण्डलमण्डितायै नमःकौशिक्यै नमःकृतमालायै नमःकौशाम्ब्यै नमःकोशवर्धिन्यै नमःखड्गधरायै नमः
खनये नमःखस्थायै नमःगीतायै नमःगीतप्रियायै नमःगीत्यै नमःगायत्र्यै नमःगौतम्यै नमःचित्राभरणभूषितायै नमःचाणूर्मदिन्यै नमःचण्डायै नमःचण्डहंत्र्यै नमःचण्डिकायै नमःगण्डक्यै नमःगोमत्यै नमःगाथायै नमःतमोहन्त्र्यै नमःत्रिशक्तिधृतेनमःतपस्विन्यै नमःजातवत्सलायै नमःजगत्यै नमःजंगमायै नमः
ज्येष्ठायै नमःजन्मदायै नमःज्वलितद्युत्यै नमःजगज्जीवायै नमःजगद्वन्द्यायै नमःधर्मिष्ठायै नमः
धर्मफलदायै नमःध्यानगम्यायै नमःधारणायै नमःधरण्यै नमःधवलायै नमःधर्माधारायै नमःधनायै नमःधारायै नमःधनुर्धर्यै नमःनाभसायै नमःनासायै नमःनूतनाङ्गायै नमःनरकघ्न्यै नमःनुत्यै नमःनागपाशधरायै नमः
नित्यायै नमःपर्वतनन्दिन्यै नमःपतिव्रतायै नमःपतिमय्यै नमःप्रियायै नमःप्रीतिमञ्जर्यै नमःपातालवासिन्यै नमःपूर्त्यै नमःपाञ्चाल्यै नमःप्राणिनां प्रसवे नमःपराशक्त्यै नमःबलिमात्रे नमःबृहद्धाम्न्यै नमःबादरायणसंस्तुतायै नमःभयघ्न्यै नमःभीमरूपायै नमःबिल्वायै नमःभूतस्थायै नमःमखायै नमः
मातामह्यै नमःमहामात्रे नमःमध्यमायै नमःमानस्यै नमःमनवे नमःमेनकायै नमःमुदायै नमः
यत्तत्पदनिबन्धिन्यै नमःयशोदायै नमःयादवायै नमःयूत्यै नमःरक्तदन्तिकायै नमःरतिप्रियायै नमःरतिकर्यै नमःरक्तकेश्यै नमःरणप्रियायै नमःलंकायै नमःलवणोदधये नमःलंकेशहंत्र्यै नमःलेखायै नमःवरप्रदायै नमः
वामनायै नमःवैदिक्यै नमःविद्युते नमःवारह्यै नमःसुप्रभायै नमःसमिधे नमः  ॥ ॐ ॥




ॐ  श्रीं ह्रीं क्लींधैर्यलक्ष्म्यै नमःअपूर्वायै नमः
अनाद्यायै नमःअदिरीश्वर्यै नमःअभीष्टायै नमःआत्मरूपिण्यै नमःअप्रमेयायै नमःअरुणायै नमःअलक्ष्यायै नमःअद्वैतायै नमःआदिलक्ष्म्यै नमःईशानवरदायै नमःइन्दिरायै नमःउन्नताकारायै नमःउद्धटमदापहायै नमःक्रुद्धायै नमःकृशाङ्ग्यै नमःकायवर्जितायै नमःकामिन्यै नमःकुन्तहस्तायै नमःकुलविद्यायै नमःकौलिक्यै नमःकाव्यशक्त्यै नमःकलात्मिकायै नमःखेचर्यै नमःखेटकामदायै नमःगोप्त्र्यै नमःगुणाढ्यायै नमःगवे नमःचन्द्रायै नमःचारवे नमःचन्द्रप्रभायै नमःचञ्चवे नमःचतुराश्रमपूजितायै नमःचित्यै नमःगोस्वरूपायै नमःगौतमाख्यमुनिस्तुतायै नमःगानप्रियायै नमःछद्मदैत्यविनाशिन्यै नमःजयायै नमःजयन्त्यै नमःजयदायै नमःजगत्त्रयहितैषिण्यै नमःजातरूपायै नमःज्योत्स्नायै नमःजनतायै नमःतारायै नमः
त्रिपदायै नमःतोमरायै नमःतुष्ट्यै नमःधनुर्धरायै नमःधेनुकायै नमःध्वजिन्यै नमःधीरायै नमःधूलिध्वान्तहरायै नमःध्वनये नमःध्येयायै नमःधन्यायै नमःनौकायै नमःनीलमेघसमप्रभायै नमःनव्यायै नमःनीलाम्बरायै नमःनखज्वालायै नमःनलिन्यै नमःपरात्मिकायै नमःपरापवादसंहर्त्र्यै नमःपन्नगेन्द्रशयनायै नमःपतगेन्द्रकृतासनायै नमःपाकशासनायै नमःपरशुप्रियायै नमःबलिप्रियायै नमःबलदायै नमःबालिकायै नमःबालायै नमःबदर्यै नमःबलशालिन्यै नमःबलभद्रप्रियायै नमःबुद्ध्यै नमःबाहुदायै नमःमुख्यायै नमःमोक्षदायै नमःमीनरूपिण्यै नमःयज्ञायै नमःयज्ञाङ्गायै नमःयज्ञकामदायै नमःयज्ञरूपायै नमःयज्ञकर्त्र्यै नमःरमण्यै नमःराममूर्त्यै नमःरागिण्यै नमःरागज्ञायै नमःरागवल्लभायै नमःरत्नगर्भायै नमःरत्नखन्यै नमः
राक्षस्यै नमःलक्षणाढ्यायै नमःलोलार्कपरिपूजितायै नमःवेत्रवत्यै नमःविश्वेशायै नमःवीरमात्रे नमःवीरश्रियै नमःवैष्णव्यै नमःशुच्यै नमःश्रद्धायै नमःशोणाक्ष्यै नमःशेषवन्दितायै नमःशताक्षयै नमःहतदानवायै नमः
हयग्रीवतनवे नमः ॥ ॐ ॥




ॐ श्रीं ह्रीं क्लीं
गजलक्ष्म्यै नमः
अनन्तशक्त्यै नमः
अज्ञेयायै नमः
अणुरूपायै नमः
अरुणाकृत्यै नमः
अवाच्यायै नमः
अनन्तरूपायै नमः
अम्बुदायै नमः
अम्बरसंस्थाङ्कायै नमः
अशेषस्वरभूषितायै नमः
इच्छायै नमः
इन्दीवरप्रभायै नमः
उमायै नमः
ऊर्वश्यै नमः
उदयप्रदायै नमः
कुशावर्तायै नमः
कामधेनवे नमः
कपिलायै नमः
कुलोद्भवायै नमः
कुङ्कुमाङ्कितदेहायै नमः
कुमार्यै नमः
कुङ्कुमारुणायै नमः
काशपुष्पप्रतीकाशायै नमः
खलापहायै नमः
खगमात्रे नमः
खगाकृत्यै नमः
गान्धर्वगीतकीर्त्यै नमः
गेयविद्याविशारदायै नमः
गम्भीरनाभ्यै नमः
गरिमायै नमः
चामर्यै नमः
चतुराननायै नमः
चतुःषष्टिश्रीतन्त्रपूजनीयायै नमः
चित्सुखायै नमः
चिन्त्यायै नमः
गम्भीरायै नमः
गेयायै नमः
गन्धर्वसेवितायै नमः
जरामृत्युविनाशिन्यै नमः
जैत्र्यै नमः
जीमूतसंकाशायै नमः
जीवनायै नमः
जीवनप्रदायै नमः
जितश्वासायै नमः
जितारातये नमः
जनित्र्यै नमः
तृप्त्यै नमः
त्रपायै नमः
तृषायै नमः
दक्षपूजितायै नमः
दीर्घकेश्यै नमः
दयालवे नमः
दनुजापहायै नमः
दारिद्र्यनाशिन्यै नमः
द्रवायै नमः
नीतिनिष्ठायै नमः
नाकगतिप्रदायै नमः
नागरूपायै नमः
नागवल्ल्यै नमः
प्रतिष्ठायै नमः
पीताम्बरायै नमः
परायै नमः
पुण्यप्रज्ञायै नमः
पयोष्ण्यै नमः
पम्पायै नमः
पद्मपयस्विन्यै नमः
पीवरायै नमः
भीमायै नमः
भवभयापहायै नमः
भीष्मायै नमः
भ्राजन्मणिग्रीवायै नमः
भ्रातृपूज्यायै नमः
भार्गव्यै नमः
भ्राजिष्णवे नमः
भानुकोटिसमप्रभायै नमः
मातङ्ग्यै नमः
मानदायै नमः
मात्रे नमः
मातृमण्डलवासिन्यै नमः
मायायै नमः
मायापुर्यै नमः
यशस्विन्यै नमः
योगगम्यायै नमः
योग्यायै नमः
रत्नकेयूरवलयायै नमः
रतिरागविवर्धिन्यै नमः
रोलम्बपूर्णमालायै नमः
रमणीयायै नमः
रमापत्यै नमः
लेख्यायै नमः
लावण्यभुवे नमः
लिप्यै नमः
लक्ष्मणायै नमः
वेदमात्रे नमः
वह्निस्वरूपधृषे नमः
वागुरायै नमः
वधुरूपायै नमः
वालिहंत्र्यै नमः
वराप्सरस्यै नमः
शाम्बर्यै नमः
शमन्यै नमः
शांत्यै नमः
सुन्दर्यै नमः
सीतायै नमः
सुभद्रायै नमः
क्षेमङ्कर्यै नमः
क्षित्यै नमः 
॥ ॐ ॥




ॐ ह्रीं श्रीं क्लीं
सन्तानलक्ष्म्यै नमः
असुरघ्न्यै नमः
अर्चितायै नमः
अमृतप्रसवे नमः
अकाररूपायै नमः
अयोध्यायै नमः
अश्विन्यै नमः
अमरवल्लभायै नमः
अखण्डितायुषे नमः
इन्दुनिभाननायै नमः
इज्यायै नमः
इन्द्रादिस्तुतायै नमः
उत्तमायै नमः
उत्कृष्टवर्णायै नमः
उर्व्यै नमः
कमलस्रग्धरायै नमः
कामवरदायै नमः
कमठाकृत्यै नमः
काञ्चीकलापरम्यायै नमः
कमलासनसंस्तुतायै नमः
कम्बीजायै नमः
कौत्सवरदायै नमः
कामरूपनिवासिन्यै नमः
खड्गिन्यै नमः
गुणरूपायै नमः
गुणोद्धतायै नमः
गोपालरूपिण्यै नमः
गोप्त्र्यै नमः
गहनायै नमः
गोधनप्रदायै नमः
चित्स्वरूपायै नमः
चराचरायै नमः
चित्रिण्यै नमः
चित्रायै नमः
गुरुतमायै नमः
गम्यायै नमः
गोदायै नमः
गुरुसुतप्रदायै नमः
ताम्रपर्ण्यै नमः
तीर्थमय्यै नमः
तापस्यै नमः
तापसप्रियायै नमः
त्र्यैलोक्यपूजितायै नमः
जनमोहिन्यै नमः
जलमूर्त्यै नमः
जगद्बीजायै नमः
जनन्यै नमः
जन्मनाशिन्यै नमः
जगद्धात्र्यै नमः
जितेन्द्रियायै नमः
ज्योतिर्जायायै नमः
द्रौपद्यै नमः
देवमात्रे नमः
दुर्धर्षायै नमः
दीधितिप्रदायै नमः
दशाननहरायै नमः
डोलायै नमः
द्युत्यै नमः
दीप्तायै नमः
नुत्यै नमः
निषुम्भघ्न्यै नमः
नर्मदायै नमः
नक्षत्राख्यायै नमः
नन्दिन्यै नमः
पद्मिन्यै नमः
पद्मकोशाक्ष्यै नमः
पुण्डलीकवरप्रदायै नमः
पुराणपरमायै नमः
प्रीत्यै नमः
भालनेत्रायै नमः
भैरव्यै नमः
भूतिदायै नमः
भ्रामर्यै नमः
भ्रमायै नमः
भूर्भुवस्वः स्वरूपिण्यै नमः
मायायै नमः
मृगाक्ष्यै नमः
मोहहंत्र्यै नमः
मनस्विन्यै नमः
महेप्सितप्रदायै नमः
मात्रमदहृतायै नमः
मदिरेक्षणायै नमः
युद्धज्ञायै नमः
यदुवंशजायै नमः
यादवार्तिहरायै नमः
युक्तायै नमः
यक्षिण्यै नमः
यवनार्दिन्यै नमः
लक्ष्म्यै नमः
लावण्यरूपायै नमः
ललितायै नमः
लोललोचनायै नमः
लीलावत्यै नमः
लक्षरूपायै नमः
विमलायै नमः
वसवे नमः
व्यालरूपायै नमः
वैद्यविद्यायै नमः
वासिष्ठ्यै नमः
वीर्यदायिन्यै नमः
शबलायै नमः
शांतायै नमः
शक्तायै नमः
शोकविनाशिन्यै नमः
शत्रुमार्यै नमः
शत्रुरूपायै नमः
सरस्वत्यै नमः
सुश्रोण्यै नमः
सुमुख्यै नमः
हावभूम्यै नमः
हास्यप्रियायै नमः 
॥ ॐ ॥




ॐ क्लीं ॐ
विजयलक्ष्म्यै नमः
अम्बिकायै नमः
अम्बालिकायै नमः
अम्बुधिशयनायै नमः
अम्बुधये नमः
अन्तकघ्न्यै नमः
अन्तकर्त्र्यै नमः
अन्तिमायै नमः
अन्तकरूपिण्यै नमः
ईड्यायै नमः
इभास्यनुतायै नमः
ईशानप्रियायै नमः
ऊत्यै नमः
उद्यद्भानुकोटिप्रभायै नमः
उदाराङ्गायै नमः
केलिपरायै नमः
कलहायै नमः
कान्तलोचनायै नमः
काञ्च्यै नमः
कनकधारायै नमः
कल्यै नमः
कनककुण्डलायै नमः
खड्गहस्तायै नमः
खट्वाङ्गवरधारिण्यै नमः
खेटहस्तायै नमः
गन्धप्रियायै नमः
गोपसख्यै नमः
गारुड्यै नमः
गत्यै नमः
गोहितायै नमः
गोप्यायै नमः
चिदात्मिकायै नमः
चतुर्वर्गफलप्रदायै नमः
चतुराकृत्यै नमः
चकोराक्ष्यै नमः
चारुहासायै नमः
गोवर्धनधरायै नमः
गुर्व्यै नमः
गोकुलाभयदायिन्यै नमः
तपोयुक्तायै नमः
तपस्विकुलवन्दितायै नमः
तापहारिण्यै नमः
तार्क्षमात्रे नमः
जयायै नमः
जप्यायै नमः
जरायवे नमः
जवनायै नमः
जनन्यै नमः
जाम्बूनदविभूषायै नमः
दयानिध्यै नमः
ज्वालायै नमः
जम्भवधोद्यतायै नमः
दुःखहंत्र्यै नमः
दान्तायै नमः
द्रुतेष्टदायै नमः
दात्र्यै नमः
दीनर्तिशमनायै नमः
नीलायै नमः
नागेन्द्रपूजितायै नमः
नारसिम्ह्यै नमः
नन्दिनन्दायै नमः
नन्द्यावर्तप्रियायै नमः
निधये नमः
परमानन्दायै नमः
पद्महस्तायै नमः
पिकस्वरायै नमः
पुरुषार्थप्रदायै नमः
प्रौढायै नमः
प्राप्त्यै नमः
बलिसंस्तुतायै नमः
बालेन्दुशेखरायै नमः
बन्द्यै नमः
बालग्रहविनाशन्यै नमः
ब्राह्म्यै नमः
बृहत्तमायै नमः
बाणायै नमः
ब्राह्मण्यै नमः
मधुस्रवायै नमः
मत्यै नमः
मेधायै नमः
मनीषायै नमः
मृत्युमारिकायै नमः
मृगत्वचे नमः
योगिजनप्रियायै नमः
योगाङ्गध्यानशीलायै नमः
यज्ञभुवे नमः
यज्ञवर्धिन्यै नमः
राकायै नमः
राकेन्दुवदनायै नमः
रम्यायै नमः
रणितनूपुरायै नमः
रक्षोघ्न्यै नमः
रतिदात्र्यै नमः
लतायै नमः
लीलायै नमः
लीलानरवपुषे नमः
लोलायै नमः
वरेण्यायै नमः
वसुधायै नमः
वीरायै नमः
वरिष्ठायै नमः
शातकुम्भमय्यै नमः
शक्त्यै नमः
श्यामायै नमः
शीलवत्यै नमः
शिवायै नमः
होरायै नमः
हयगायै नमः 
॥ ॐ ॥




ऐं ॐ
विद्यालक्ष्म्यै नमः
वाग्देव्यै नमः
परदेव्यै नमः
निरवद्यायै नमः
पुस्तकहस्तायै नमः
ज्ञानमुद्रायै नमः
श्रीविद्यायै नमः
विद्यारूपायै नमः
शास्त्रनिरूपिण्यै नमः
त्रिकालज्ञानायै नमः
सरस्वत्यै नमः
महाविद्यायै नमः
वाणिश्रियै नमः
यशस्विन्यै नमः
विजयायै नमः
अक्षरायै नमः
वर्णायै नमः
पराविद्यायै नमः
कवितायै नमः
नित्यबुद्धायै नमः
निर्विकल्पायै नमः
निगमातीतायै नमः
निर्गुणरूपायै नमः
निष्कलरूपायै नमः
निर्मलायै नमः
निर्मलरूपायै नमः
निराकारायै नमः
निर्विकारायै नमः
नित्यशुद्धायै नमः
बुद्ध्यै नमः
मुक्त्यै नमः
नित्यायै नमः
निरहङ्कारायै नमः
निरातङ्कायै नमः
निष्कलङ्कायै नमः
निष्कारिण्यै नमः
निखिलकारणायै नमः
निरीश्वरायै नमः
नित्यज्ञानायै नमः
निखिलाण्डेश्वर्यै नमः
निखिलवेद्यायै नमः
गुणदेव्यै नमः
सुगुणदेव्यै नमः
सर्वसाक्षिण्यै नमः
सच्चिदानन्दायै नमः
सज्जनपूजितायै नमः
सकलदेव्यै नमः
मोहिन्यै नमः
मोहवर्जितायै नमः
मोहनाशिन्यै नमः
शोकायै नमः
शोकनाशिन्यै नमः
कालायै नमः
कालातीतायै नमः
कालप्रतीतायै नमः
अखिलायै नमः
अखिलनिदानायै नमः
अजरामरायै नमः
अजहितकारिण्यै नमः
त्रिग़ुणायै नमः
त्रिमूर्त्यै नमः
भेदविहीनायै नमः
भेदकारणायै नमः
शब्दायै नमः
शब्दभण्डारायै नमः
शब्दकारिण्यै नमः
स्पर्शायै नमः
स्पर्शविहीनायै नमः
रूपायै नमः
रूपविहीनायै नमः
रूपकारणायै नमः
रसगन्धिन्यै नमः
रसविहीनायै नमः
सर्वव्यापिन्यै नमः
मायारूपिण्यै नमः
प्रणवलक्ष्म्यै नमः
मात्रे नमः
मातृस्वरूपिण्यै नमः
ह्रीङ्कार्यै
ॐकार्यै नमः
शब्दशरीरायै नमः
भाषायै नमः
भाषारूपायै नमः
गायत्र्यै नमः
विश्वायै नमः
विश्वरूपायै नमः
तैजसे नमः
प्राज्ञायै नमः
सर्वशक्त्यै नमः
विद्याविद्यायै नमः
विदुषायै नमः
मुनिगणार्चितायै नमः
ध्यानायै नमः
हंसवाहिन्यै नमः
हसितवदनायै नमः
मन्दस्मितायै नमः
अम्बुजवासिन्यै नमः
मयूरायै नमः
पद्महस्तायै नमः
गुरुजनवन्दितायै नमः
सुहासिन्यै नमः
मङ्गलायै नमः
वीणापुस्तकधारिण्यै नमः 
॥ ॐ ॥




श्रीं श्रीं श्रीं ॐ
ऐश्वर्यलक्ष्म्यै नमः
अनघायै नमः
अलिराज्यै नमः
अहस्करायै नमः
अमयघ्न्यै नमः
अलकायै नमः
अनेकायै नमः
अहल्यायै नमः
आदिरक्षणायै नमः
इष्टेष्टदायै नमः
इन्द्राण्यै नमः
ईशेशान्यै नमः
इन्द्रमोहिन्यै नमः
उरुशक्त्यै नमः
उरुप्रदायै नमः
ऊर्ध्वकेश्यै नमः
कालमार्यै नमः
कालिकायै नमः
किरणायै नमः
कल्पलतिकायै नमः
कल्पस्ंख्यायै नमः
कुमुद्वत्यै नमः
काश्यप्यै नमः
कुतुकायै नमः
खरदूषणहंत्र्यै नमः
खगरूपिण्यै नमः
गुरवे नमः
गुणाध्यक्षायै नमः
गुणवत्यै नमः
गोपीचन्दनचर्चितायै नमः
हङ्गायै नमः
चक्षुषे नमः
चन्द्रभागायै नमः
चपलायै नमः
चलत्कुण्डलायै नमः
चतुःषष्टिकलाज्ञानदायिन्यै नमः
चाक्षुषी मनवे नमः
चर्मण्वत्यै नमः
चन्द्रिकायै नमः
गिरये नमः
गोपिकायै नमः
जनेष्टदायै नमः
जीर्णायै नमः
जिनमात्रे नमः
जन्यायै नमः
जनकनन्दिन्यै नमः
जालन्धरहरायै नमः
तपःसिद्ध्यै नमः
तपोनिष्ठायै नमः
तृप्तायै नमः
तापितदानवायै नमः
दरपाणये नमः
द्रग्दिव्यायै नमः
दिशायै नमः
दमितेन्द्रियायै नमः
दृकायै नमः
दक्षिणायै नमः
दीक्षितायै नमः
निधिपुरस्थायै नमः
न्यायश्रियै नमः
न्यायकोविदायै नमः
नाभिस्तुतायै नमः
नयवत्यै नमः
नरकार्तिहरायै नमः
फणिमात्रे नमः
फलदायै नमः
फलभुजे नमः
फेनदैत्यहृते नमः
फुलाम्बुजासनायै नमः
फुल्लायै नमः
फुल्लपद्मकरायै नमः
भीमनन्दिन्यै नमः
भूत्यै नमः
भवान्यै नमः
भयदायै नमः
भीषणायै नमः
भवभीषणायै नमः
भूपतिस्तुतायै नमः
श्रीपतिस्तुतायै नमः
भूधरधरायै नमः
भुतावेशनिवासिन्यै नमः
मधुघ्न्यै नमः
मधुरायै नमः
माधव्यै नमः
योगिन्यै नमः
यामलायै नमः
यतये नमः
यन्त्रोद्धारवत्यै नमः
रजनीप्रियायै नमः
रात्र्यै नमः
राजीवनेत्रायै नमः
रणभूम्यै नमः
रणस्थिरायै नमः
वषट्कृत्यै नमः
वनमालाधरायै नमः
व्याप्त्यै नमः
विख्यातायै नमः
शरधन्वधरायै नमः
श्रितये नमः
शरदिन्दुप्रभायै नमः
शिक्षायै नमः
शतघ्न्यै नमः
शांतिदायिन्यै नमः
ह्रीं बीजायै नमः
हरवन्दितायै नमः
हालाहलधरायै नमः
हयघ्न्यै नमः
हंसवाहिन्यै नमः 
॥ ॐ ॥




श्रीं ह्रीं क्लीं
महालक्ष्म्यै नमः
मन्त्रलक्ष्म्यै नमः
मायालक्ष्म्यै नमः
मतिप्रदायै नमः
मेधालक्ष्म्यै नमः
मोक्षलक्ष्म्यै नमः
महीप्रदायै नमः
वित्तलक्ष्म्यै नमः
मित्रलक्ष्म्यै नमः
मधुलक्ष्म्यै नमः
कान्तिलक्ष्म्यै नमः
कार्यलक्ष्म्यै नमः
कीर्तिलक्ष्म्यै नमः
करप्रदायै नमः
कन्यालक्ष्म्यै नमः
कोशलक्ष्म्यै नमः
काव्यलक्ष्म्यै नमः
कलाप्रदायै  नमः
गजलक्ष्म्यै नमः
गन्धलक्ष्म्यै नमः
गृहलक्ष्म्यै नमः
गुणप्रदायै नमः
जयलक्ष्म्यै नमः
जीवलक्ष्म्यै नमः
जयप्रदायै नमः
दानलक्ष्म्यै नमः
दिव्यलक्ष्म्यै नमः
द्वीपलक्ष्म्यै नमः
दयाप्रदायै नमः
धनलक्ष्म्यै नमः
धेनुलक्ष्म्यै नमः
धनप्रदायै नमः
धर्मलक्ष्म्यै नमः
धैर्यलक्ष्म्यै नमः
द्रव्यलक्ष्म्यै नमः
धृतिप्रदायै नमः
नभोलक्ष्म्यै नमः
नादलक्ष्म्यै नमः
नेत्रलक्ष्म्यै नमः
नयप्रदायै नमः
नाट्यलक्ष्म्यै नमः
नीतिलक्ष्म्यै नमः
नित्यलक्ष्म्यै नमः
निधिप्रदायै नमः
पूर्णलक्ष्म्यै नमः
पुष्पलक्ष्म्यै नमः
पशुप्रदायै नमः
पुष्टिलक्ष्म्यै नमः
पद्मलक्ष्म्यै नमः
पूतलक्ष्म्यै नमः
प्रजाप्रदायै नमः
प्राणलक्ष्म्यै नमः
प्रभालक्ष्म्यै नमः
प्रज्ञालक्ष्म्यै नमः
फलप्रदायै नमः
बुधलक्ष्म्यै नमः
बुद्धिलक्ष्म्यै नमः
बललक्ष्म्यै नमः
बहुप्रदायै नमः
भाग्यलक्ष्म्यै नमः
भोगलक्ष्म्यै नमः
भुजलक्ष्म्यै नमः
भक्तिप्रदायै नमः
भावलक्ष्म्यै नमः
भीमलक्ष्म्यै नमः
भूर्लक्ष्म्यै नमः
भूषणप्रदायै नमः
रूपलक्ष्म्यै नमः
राज्यलक्ष्म्यै नमः
राजलक्ष्म्यै नमः
रमाप्रदायै नमः
वीरलक्ष्म्यै नमः
वार्धिकलक्ष्म्यै नमः
विद्यालक्ष्म्यै नमः
वरलक्ष्म्यै नमः
वर्षलक्ष्म्यै नमः
वनलक्ष्म्यै नमः
वधूप्रदायै नमः
वर्णलक्ष्म्यै नमः
वश्यलक्ष्म्यै नमः
वाग्लक्ष्म्यै नमः
वैभवप्रदायै नमः
शौर्यलक्ष्म्यै नमः
शांतिलक्ष्म्यै नमः
शक्तिलक्ष्म्यै नमः
शुभप्रदायै नमः
श्रुतिलक्ष्म्यै नमः
शास्त्रलक्ष्म्यै नमः
श्रीलक्ष्म्यै नमः
शोभनप्रदायै नमः
स्थिरलक्ष्म्यै नमः
सिद्धिलक्ष्म्यै नमः
सत्यलक्ष्म्यै नमः
सुधाप्रदायै नमः
सैन्यलक्ष्म्यै नमः
सामलक्ष्म्यै नमः
सस्यलक्ष्म्यै नमः
सुतप्रदायै नमः
साम्राज्यलक्ष्म्यै नमः
सल्लक्ष्म्यै नमः
ह्रीलक्ष्म्यै नमः
आढ्यलक्ष्म्यै नमः
आयुर्लक्ष्म्यै नमः
आरोग्यदायै नमः
श्री महालक्ष्म्यै नमः 
॥ ॐ ॥



नमः सर्व स्वरूपे च नमो कल्याणदायिके ।
महासम्पत्प्रदे देवि धनदायै नमोऽस्तुते ॥

महाभोगप्रदे देवि महाकामप्रपूरिते ।
सुखमोक्षप्रदे देवि धनदायै नमोऽस्तुते ॥

ब्रह्मरूपे सदानन्दे सच्चिदानन्दरूपिणी ।
धृतसिद्धिप्रदे देवि धनदायै नमोऽस्तुते ॥

उद्यत्सूर्यप्रकाशाभे उद्यदादित्यमण्डले ।
शिवतत्वप्रदे देवि धनदायै नमोऽस्तुते  ॥

शिवरूपे शिवानन्दे कारणानन्दविग्रहे ।
विश्वसंहाररूपे च धनदायै नमोऽस्तुते ॥

पञ्चतत्वस्वरूपे च पञ्चाचारसदारते ।
साधकाभीष्टदे देवि धनदायै नमोऽस्तुते  ॥

श्रीं ॐ ॥

ॐ श्री ललिता महात्रिपुरसुन्दरी पराभट्टारिका ।
समेताय श्री चन्द्रमौळीश्वर परब्रह्मणे नमः ॥

जय जय शङ्कर हर हर शङ्कर ॥